वाद्यम्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वाद्यम्, क्ली, (वद् + णिच् + यत् ।) वादयन्ति ध्वन- यन्ति यत् । वाज्ना इति भाषा । तत्पर्य्यायः । वादित्रम् २ आतोद्यम् ३ । तच्चतुर्विधं यथा, “ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंश्यादिकन्तु शुषिरं कांस्यतालादिकं घनम् ॥” इत्यमरः ॥ “इदं ततादि चतुर्विधं चतुःप्रकारं वाद्यादिशब्द- द्वयवाच्यम् । ‘इदं चतुर्विधं वाद्यं वादित्रादिद्विनामकम् ।’ वाद्यमितिसमस्तं प्रथमान्तं विशेष्यपदं इति कलिङ्गादयः । फलतो न विशेष्यः ।” इति तट्टी- कायां भरतः ॥ * ॥ अथ वाद्यानि । “तालेन राजते गीतं तालो वादित्रसम्भवः । गरीयस्तेन वादित्रं तच्चतुर्विधमुच्यते ॥ ततं शुषिरमानद्धं घनमित्थं चतुर्व्विधम् । ततं तन्त्रीगतं वाद्यं वंश्याद्यं शुषिरं तथा ॥ चर्म्मावनद्धमानद्धं घनं तालादिकं मतम् ॥” * ॥ तत्र ततं यथा, -- “अलावणी ब्रह्मवीणा किन्नरी लघुकिन्नरी । विपञ्ची वल्लकी ज्येष्ठा चित्रा ज्योषवती जया ॥ हस्तिका कुब्जिका कूर्म्मी शारङ्गी परिवादिनी । त्रिशवी शतचन्द्री च नकुलौष्ठी च ढंसवी ॥ औडम्बरी पिनाकी च निबन्धः शुष्कलस्तथा । गदावारणहस्तश्च रुद्रोऽथ शरमण्डलः । कपिलासो मधुस्यन्दी घोणेत्यादि ततं भवेत् ॥” अलावणी यथा, -- “कनिष्ठिका परिधर्द्धिमध्यच्छिद्रेण संयुतः । दशयष्टिमितो दण्डः खादिरो वैणवोऽथवा ॥ अधःकरभवानूर्द्ध्वे छत्रावल्याभिशोभितः । नवाङ्गुलादधश्छिद्रोपरि चन्द्रार्द्धसन्निभाम् ॥ निवेश्य चुम्बिकां भद्रालावुखण्डं निवेशयेत् । द्वादशाङ्गुलविस्तारं दृढपक्वं मनोहरम् ॥ तुम्बिकावेधमध्येन दण्डच्छिद्रे तु निर्म्मिताम् । अलावुमध्यगां डौवीं कृत्वा स्वल्पान्तु काष्ठि- काम् ॥ तथा संवेष्ट्य तन्मध्ये काष्ठिकां भ्रामयेत्ततः । यथा स्यान्निश्चलालाबुर्ब्बन्धश्च करभोपरि ॥ पञ्चाङ्गुलिषु संत्यज्यालावुं स्वल्पाञ्च बन्धयेत् । केशान्तनिर्म्मिता पट्टमयी सूत्रकृताथवा ॥ समाः सूक्ष्मा दृढा तत्र तन्त्री देया विचक्षणैः । एतल्लक्षणसंयोग्यान्यालावणी प्रकीर्त्तिता ॥ बिन्दुना न समुपेतं तुम्बं निःक्षिप्य वक्षसि ॥ मध्यमानामिकाभ्याञ्च वाद्या दक्षिणपाणिना ॥ तारे मद्रे च घोषे च त्रिस्थाने बिन्दुरिष्यते । तुम्बीमूलं समुत्पत्य वामाङ्गुष्ठेन धारयेत् ॥ ततस्ताभिस्तु सर्व्वाभिः स्वरव्यक्तिर्विधीयते । त्रिस्वरो दक्षिणः पाणिर्वामस्तत्र चतुःस्वरः ॥ अलावण्यां स्थिता ज्ञेयाः सप्तषड्जादयः स्वराः । रागव्यक्तिर्यथा रागे भवेत् षड्जादिभेदतः ॥ तोषितो भगवान् विष्णुर्ददात्यभिमतं फलम् ॥ देवकर्म्मणि सक्तानां तेषां संस्मृतिसंस्तवैः । तोषितोऽभिमतान् कामान् प्रयच्छति जना- र्द्दनः ॥” इति वह्निपुराणे क्रियायोगनामाध्यायः ॥ देवप्रतिष्ठायां वाद्यविधिर्यथा, -- “ततः प्रासादे स्थाप्योऽहं गीतवादित्रमङ्गलैः । सर्व्वगन्धांस्ततो गृह्य इमं मन्त्रमुदाहरेत् ॥” इति वाराहे शैलार्च्चास्थापनाध्यायः ॥ देवताविशेषगृहे वाद्यविशेषनिषेधो यथा । योगिनीतन्त्रे । “शिवागारे झल्लकञ्च सूर्य्यागारे च शङ्खकम् । दुर्गगारे वंशीवाद्यं माधुरीञ्च न वादयेत् ॥” झल्लकं कांस्यनिर्म्मितकरतालम् । मत्स्यपुराणे ॥ “गीतवादित्रनिर्घोषं देवस्याग्रे च कारयेत् । विरिञ्चेश्च गृहे ढक्कां घण्टां लक्ष्मीगृहे त्यजेत् ॥ घण्टा भवेदशक्तस्य सर्व्ववाद्यमयी यतः ॥” इति तिथ्यादितत्त्वम् ॥
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वाद्यम् [vādyam], [वद्-णिच् यत्]
A musical instrument; ततं वाद्यं तु देवानां गन्धर्वाणां च शौषिरम् । आनद्धं राक्षसानां तु किंनराणा घनं विदुः ॥ Saṅgītadāmodara.
The sound of a musical instrument; श्रोत्रेषु संमूर्च्छति रक्तमासां गीतानुगं वारिमृदङ्ग- वाद्यम् R.16.64 (वाद्यध्वनिः Malli.). -द्यः, -द्यम् An instrumental music. -Comp. -करः, -धरः a musician.
भाण्डम् a band of music, a number of musical instruments.
a musical instrument.