यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वापी, स्त्री, (वापि + कृदिकारादिति ङीष् ।) दीघिका । इत्यमरः । १ । १० । २८ ॥ उप्यते पद्मादिकं अस्याम् । वाप्यां वापिरपि स्मृता । इति द्विरूपकोषः ॥ इति तट्टीकायां भरतः ॥ * ॥ तस्या लक्षणं यथा । नव्यवर्द्धमानधृतो वशिष्ठः । शतेन धनुर्भिः पुष्करिणी । त्रिभिः शतै- र्दीर्घिका । चतुर्भिर्द्रोणः । पञ्चभिस्तडागः । द्रोणाद्दशगुणा वापी । तेन चतुर्द्दिक्षु पञ्चत्रिंश- द्धस्तान्यूनतायां द्वादशशतहस्तान्तरान्यूनत्वेन दीर्घिका । चतुर्द्दिक्षु चत्वारिंशद्धस्तान्यूनतायां षोडशशतहस्तान्तरान्यूनत्वेन द्रोणः । चतु- र्द्दिक्षु त्रिंशदधिकशतहस्तान्यूनतायां षोडश- सहस्रहस्तान्तरान्यूनत्वेन वापी । इति जला- शयोत्सर्गतत्त्वम् ॥ * ॥ तत्खननफलं यथा, -- “यो वापीमथवा कूपं देशे वारिविवर्ज्जिते । खानयेत् स दिवं याति बिन्दौ बिन्दौ शतं समाः ॥” इति कल्पतरौ वायुपुराणम् ॥ तज्जलगुणाः । “याप्यं गुरु कटु क्षारं पित्तलं कफवातजित् ।” इति राजवल्लभः ॥ तत्खनने दिङ्निषेधो यथा, -- “वापीकूपतडागं वा प्रासादं वा निकेतनम् । न कुर्य्याद्वृद्धिकामस्तु अनलानिलनैरृते ॥ आग्नेय्यां मनसस्तापो नैरृते क्रूरकर्म्मकृत् । वायव्यां बलवित्तञ्च पीयमाने जले प्रिये ॥ स्थानस्य पावके भागे वापीकूपतडागकम् । अग्निदाहं सदा कुर्य्यात् समानुषचतुष्पदाम् ॥ नैरृते पीयमानन्तु आत्मना दुःखितो भवेत् । कन्यापि तज्जलं पीत्वा पतिं गृह्णाति कामतः ॥ इति देवीपुराणे नन्दाकुण्डप्रवेशाध्यायः ॥ तत्करणफलं यथा, -- शर्म्मिल उवाच । “तडागोदकवापीनां कृतानामिह यत् फलम् । विशेषेण पितृश्रेष्ठ वक्तुमर्हस्यशेषतः ॥ यम उवाच । धर्म्मस्यार्थस्य कामस्य यशसश्च द्बिजोत्तम । तडागं सुप्रभूताम्बु परमायतनं स्मृतम् ॥ देवताः पितरो नागा गन्धर्व्वा यक्षराक्षसाः । पशुपक्षिमनुष्याश्च संश्रयन्ति जलाशयम् ॥ कृत्स्नं तारयते वंशं पश्य खाते जलाशये । गावः पिबन्ति पानीयं मनुष्याः पशवस्तथा ॥ शरदृतौ तडागेषु सलिलं यस्य तिष्ठति । अग्निष्टोमफलं तस्य प्रवदन्ति मनीषिणः ॥ येषां शिशिरकाले तु पानीयं प्रतितिष्ठति । वाजपेयातिसत्राभ्यां फलं बिन्दन्ति मानवाः ॥ वसन्ते चैव ग्रीष्मे तु सलिलं यस्य तिष्ठति । राजसूयाश्वमेधाभ्यां स फलं समुपाश्नुते ॥ तडागं सर्व्वसत्त्वानां जीवनन्तु दिवानिशम् । तस्मात् सर्व्वात्मना वत्स तडागमिह कार- येत् ॥ कृत्स्नं हि तारयेद्बंशं पुरुषस्य न संशयः । सावतारः कृतः कूपः सम्प्रभूतजलस्तथा ॥ यस्य स्वादुजलं कूपे पिबन्ति सततं जनाः । स नरो विरजो लोके देववद्दिवि मोदते ॥ पीत्वैवेक्षुरसं क्षीरं दधि मधु सुरासवम् । तावत् पिपासा नापैति यावत्तोयं न पीयते ॥ जीवन्ति चान्नरहिता दिवसानि बहून्यपि । तृषितस्तोयरहितो दिनमेकं न जीवति ॥ तस्माद्ददाति यो नित्यं पानीयं प्राणिनामिह । स ददाति नरः प्राणान् माभूत्ते ह्यत्र संशयः ॥ प्राणदानात् परं नाम नान्यद्दानं हि विद्यते । तस्माद्वापीश्च कूपांश्च तडागानि च कार- येत् ॥ सवृक्षाणि ह विप्रर्षे यदीच्छेत् श्रियमात्मनः । शुष्कं परनिपानन्तु यः कारयति शक्तितः । सन्तारयति भूयोऽपि द्विगुणं तस्य वै फलम् ॥” इति वह्निपुराणे तडागवृक्षप्रशंसानामाध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वापी स्त्री।

वापी

समानार्थक:वापी,दीर्घिका

1।10।28।2।4

पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः। वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वापी f. any pond (made by scattering or damming up earth) , a large oblong pond , an oblong reservoir of water , tank , pool , lake Mn. MBh. etc. (See. क्रीडा-व्)

वापी f. a partic. constellation VarBr2S.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--the construction of small ponds at the auspicious time; the same prescription for excavating तडागस् (tanks). M. ५८. 1, ५१.
(II)--one of the ten पीठस् for images with two mekhalas. M. २६२. 6, 8. [page३-190+ ३५]
 
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Vāpī  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 19, 13; all the rivers listed here are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).

_______________________________
*3rd word in right half of page p439_mci (+offset) in original book.

Mahabharata Cultural Index

"https://sa.wiktionary.org/w/index.php?title=वापी&oldid=446419" इत्यस्माद् प्रतिप्राप्तम्