संस्कृतम्

सम्पाद्यताम्
  • वायुः, वातः, समीरणः, व्योमन्, वायुकोषः, अनिलः, पवनः, मारुतः।
  • वायुः नाम पवनं, वातायनम्।

आकारन्त पुल्लिम्ग

  • अत्र वातायणं अस्ति।
  • पवनसुतः नाम हनुमन्तः।
  • विहंगं पवने कूर्दनं गच्छति।
  • पवनवाहनं अपि अस्ति।

यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायुः, पुं, (वातीति । वागतिगन्धनयोः + “कृवा- पाजिमिस्वदिसाध्यशूभ्य उण् ।” उणा० १ । १ । इति उण् । “आतो युक्चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।) उत्तरपश्चिमकोणाधिपतिः । वाति यः । वातास इति भाषा । स च पञ्चभूतान्तर्गतभूतविशेषः । तद्विशेषविवरणं यथा । वायवः प्राणापानव्यानोदानसमानाः ॥ प्राणो नाम प्राग्गमनवान् नासाग्रस्थानवर्त्ती । अपानो नाम अवाग्गमनवान् पाय्वादिस्थान- वर्त्ती । व्यानो नाम विश्वग्गमनवानखिलशरीर- वर्त्ती । उदानः कण्ठस्थानीय ऊर्द्ध्वगमनवानुत्- क्रमणवायुः । समानः शरीरमध्यगताशित- पीतान्नादिसमीकरणकरः । समीकरणन्तु परि- पाककरणं रसरुधिरशुक्रपुरीषादिकरणम् ॥ केचित्तु नागकूर्म्मकृकरदेवदत्तधनञ्जयाख्याः पञ्चान्ये वायवः सन्तीत्याहुः । नत्र नागः उद्गिरणकरः । कूर्म्मः निमीलनादिकरः । कृकरः क्षुधाकरः । देवदत्तः जृम्भणकरः । धनञ्जयः पोषणकरः । एतेषां प्राणादिष्वन्त- र्भावात् प्राणादयः पञ्चैवेति केचित् ॥ इदं प्राणादिपञ्चकं आकाशादिगतरजोऽंशेभ्यो मिलितेभ्य उत्पद्यते । इदं प्राणादिपञ्चकं कर्म्मेन्द्रियसहितं सत् प्राणमयकोशो भवति । अस्य क्रियात्मकत्वेन रजोऽशकार्य्यत्वम् । एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्त्तृ- रूपः । मनोमय इच्छाशक्तिमान् करणरूपः । प्राणमयः क्रियाशक्तिमान् कार्य्यरूपः । इति वेदान्तसारः ॥ तत्पर्य्यायः । श्वसनः ३ स्पर्शनः ३ मातरिश्वा ४ सदागतिः ५ पृषदश्वः ६ गन्ध- वहः ७ गन्धवाहः ८ अनिलः ९ आशुगः १० समीरः ११ मारुतः १२ मरुत् १३ जगत्प्राणः १४ समीरणः १५ नभस्वान् १६ वातः १७ पवनः १८ पवमानः १९ प्रभञ्जनः २० । इत्य- मरः ॥ अजगत्प्राणः २१ खश्वासः २२ वाहः २३ धूलिध्वजः २४ फणिप्रियः २५ वातिः २६ नभःप्राणः २७ भोगिकान्तः २८ स्वकम्पनः २९ अक्षतिः ३० कम्पलक्ष्मा ३१ शसीनिः ३२ आवकः ३३ हरिः ३४ । इति शब्दरत्नावली ॥ वासः ३५ सुखाशः ३६ मृगवाहनः २७ सारः प्रस्यन्दनं चोद्वहनं पूरणञ्च विरेचनम् । धारणञ्चेति पञ्चैताश्चेष्टाः प्रोक्ता नभस्वतः ॥ क्रुद्धः स कुरुते रोगान् प्रायशः सर्व्वदेहगान् । युगपत् कुपिता एते देहं भिन्द्युरसंशयम् ॥” देहं भिन्नं कुर्य्युर्मारयेयुरित्यर्थः । इति भाव- प्रकाशः ॥ * ॥ (असुरविशेषः । यथा, हरि- वंशे । २ । ८५ । “दीर्घजिह्वोऽर्कनयनो मृदुचापो मृदुप्रियः । वायुर्गरिष्ठो नमुचिः शम्बरोविजयो महान् ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायुः [vāyuḥ], [वा उण् युक् च Uṇ.1.1]

Air, wind; वायुर्विधूनयति चम्पकपुष्परेणून् K. R.; आकाशात्तु विकुर्वाणात् सर्वगन्धवहः शुचिः । बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः ॥ Ms.1.76. (There are seven courses of wind one above the other: आवहः प्रवह- श्चैव संवहश्चोद्वहस्तथा । विवहाख्यः परिवहः परावह इति क्रमात् ॥).

The god of wind, the deity supposed to preside over wind, (who is the regent of the north-west quarter).

A life-wind or vital air, of which five kinds are enumerated: प्राण, अपान, समान, व्यान and उदान.

Morbid affection or vitiation of the windy humour.

Breathing, breath.

A mystical N. of the letter य.-Comp. -अधिक a. gouty; Buddh. -आस्पदम् the sky, atmosphere. -कुम्भः a part of the elephant's face in the middle of Pratimāna; Mātaṅga L.1.1. -केतुः dust. -कोणः the north-west. -गण्डः flatulence (caused by indigestion). -गति a. swift as wind, very fleet. -गीतa. ('sung by the wind') universally known; अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः Ms.9.42.

गुल्मः a hurricane, storm.

a whirl-pool.

गोचरः the range of the wind.

the north-west. -ग्रन्थिः a swelling caused by the disturbance of the air in the body. -ग्रस्तa.

affected by wind, flatulent.

gouty. -जातः, -तनयः, -नन्दनः, -पुत्रः, -सुतः, -सूनुः epithets of Hanumat or Bhīma. -दारः, -दारुः a cloud. -दिश् the north-west. -देवम् the lunar mansion स्वाति. -निघ्न a. affected by wind, crazy, mad, frantic. -निवृत्तिः f.

a lull, calm.

cure of windy distempers (such as gout &c.). -परमाणुः a primary aerial atom. -पुराणम् N. of one of the 18 Purāṇas.

फलम् hail.

the rain-bow.-भक्षः, -भक्षणः, -भुज् m.

one who feeds only on air (as an ascetic).

a snake; cf. पवनाशन. -भूत a. going everywhere at will. -मण्डलम् a whirl-wind. -मरुल्लिपिः (मरुत् + लिपिः) a particular mode of writing. -मार्गः the atmosphere. -रुग्ण a. broken down by wind; फुल्ला- सनाग्रविटपानिव वायुरुग्णान् R.9.63. -रोषा night. -वर्त्मन् m., n. the sky, atmosphere. -वाहः smoke.

वाहनः N. of Viṣṇu.

of Śiva. -वाहिनी a vein, an artery, a vessel of the body. -वेग, -सम a. swift as wind. -सखः, -सखिःm. fire. -स्कन्धः the region of the wind.

"https://sa.wiktionary.org/w/index.php?title=वायुः&oldid=504253" इत्यस्माद् प्रतिप्राप्तम्