यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारम्, क्ली, (वार्य्यतेऽनेनेति । वृ + णिच् + घञ् ।) मदिरापात्रम् । इति हेमचन्द्रः ॥

वारः, पुं, (वारयति व्रियते वेति । वृ + णिच् + अच् । वृ + घञ् वा ।) समूहः । अवसरः । इत्यमरः ॥ (यथा, महाभारते । १ । १६१ । ७ । “एकैकश्चापि पुरुषस्तत्प्रयच्छति भोजनम् । स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥”) सूर्य्यादिवासरः । द्बारः । हरः । कुब्जवृक्षः । क्षणः । इति मेदिनी । रे, ६५ ॥ * ॥ अथ वाराणां संज्ञा । “चरः सौम्यो गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः । शनिश्च दारुणो ज्ञेयो भौम उग्रः शशी समः ॥ चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यं मृदुध्रुवैः । दारुणोग्रैश्च योद्धव्यं क्षत्त्रियैर्जयकाङ्क्षिभिः ॥ नृपाभिषेकोऽग्निकार्य्यं सूर्य्यवारे प्रशस्यते । सोमे तु लेपयानञ्च कुर्य्याच्चैव गृहादिकम् ॥ सैनापत्यं शौर्य्ययुद्धं शस्त्राभ्यासः कुजे तथा । सिद्धिकार्य्यञ्च मन्त्रश्च यात्रा चैव बुधे स्मृता ॥ पठनं देवपूजा च वस्त्राद्याभरणं गुरौ । कन्यादानं गजारोहः शुक्रे स्यात् समयः स्त्रियाः । स्थाप्यं गृहप्रवेशश्च गजबन्धः शनौ शुभः ॥” इति गारुडे ६२ अध्यायः ॥ सावनदिनवद्वारप्रवृत्तिः सूर्य्योदयावधिरेव । सूर्य्यसिद्धान्ते । “सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा । मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिताः ॥” अत्र दिनाधिपस्य रव्यादेर्भोग्यं दिनं वाररूपं सावनगणनोक्तं व्यवहारोऽपि तादृगेव । तिथि- विवेकेऽपि । भवतु वारयोगे व्यस्ततिथेर्ग्रहणं तस्य दिनद्वयेऽसम्भवादित्युक्तम् । सावनदिन- माह सूर्य्यसिद्धान्तः । “उदयादोदयं भानोर्भौमसावनवासराः ॥” भौमेति पित्रादिदिनव्यावृत्त्यर्थम् । यत्तु रेखा- पूर्ब्बपरयोरित्यादिना ज्योतिषे वारप्रवृत्तिरुक्ता तज्ज्योतिःशास्त्रोक्तकालहोरादिज्ञापनार्थमिति ज्योतिस्तत्त्वे बहुधा विवृतम् । “नैवास्तमनमर्कस्य नोदयः सर्व्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः ॥” इति विष्णुपुराणात् सूर्य्यदर्शनयोग्यकालादेव वारघटककर्म्मसु स एव कालः । इति ज्योति- स्तत्त्वम् ॥ * ॥ अथ शोभनवाराः । “रविः सोमो मङ्गलश्च बुधो जीवः सितः शनिः । एतेषां नामतो वारा विख्याताः सर्व्वकर्म्मसु ॥ सितेन्दुबुधजीवानां वाराः सर्व्वत्र शोभनाः । भानुभूसुतमन्दानां शुभकर्म्मसु केष्वपि ॥” इति ज्योतिःसागरः ॥ अथ वारवेला । “कृतमुनियमशरमङ्गल- रामर्त्तुषु भास्करादियामार्द्धे । प्रभवति हि वारवेला न शुभाशुभकार्य्यकरणाय ॥” अथ कालवेला । “कालस्य वेला रवितः शराक्षि- कालानलागाम्बुधयो गजेन्दू । दिने निशायामृतुवेदनेत्र- नगेषु रामा विधुदन्तिनौ च ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ तयोर्व्वर्ज्यत्वं यथा, -- “रवौ वर्ज्यं चतुःपञ्च सोमे सप्तद्वयं तथा । कुजे षष्ठद्वयञ्चैव बुधे बाणतृतीयकम् ॥ गुरौ सप्ताष्टकं चैव त्रिचत्वारि च भार्गवे । शनावाद्यञ्च षष्ठञ्च शेषञ्च परिवर्ज्जयेत् ॥ * ॥ रवौ षष्ठं विधौ वेदं कुजवारे द्वितीयकम् । बुधे सप्त गुरौ पञ्च भृगुवारे तृतीयकम् । शनावाद्यं तथा चान्त्यं रात्रौ कालं विवर्जयेत् ॥” इति सारसंग्रहः ॥ * ॥ अथ स्त्रीणां प्रथमरजस्वलायां वारफलम् । “आदित्ये विधवा नारी सोमे चैव पतिव्रता । वेश्या मङ्गलवारे च बुधे सौभाग्यमेव च ॥ बृहस्पतौ पतिः श्रीमान् शुक्रे पुत्त्रवती भवेत् । शनौ बन्ध्या तु विज्ञेया प्रथमस्त्री रजस्वला ॥” इति मथुरेशकृतसारसंग्रहः ॥ (बालः । यथा, ऋग्वेदे । २ । ४ । ४ । “वियोभरिभ्रदोषधीषु जिह्वा मत्यो न रथ्यो दोधवीति वारान् ॥” “रथ्यो रथार्होऽत्योन वाजी यथा वारान् दंश- वारणसाधनान् बालान् दोधवीति कम्पयति ।” इति तद्भाष्ये सायणः ॥ वरणीये, त्रि, । यथा, ऋग्वेदे । १ । १२८ । ६ । “विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्बारान् वृण्वति ॥” “वारं सर्व्वैर्वरणीयम् ॥” इति तद्भाष्ये सायणः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार पुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

2।5।39।2।5

समूहे निवहव्यूहसंदोहविसरव्रजाः। स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः॥

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वार पुं।

अवसरः

समानार्थक:प्रस्ताव,अवसर,काण्ड,पर्याय,वार,अन्तर

3।3।162।1।1

निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ। गुरू गीर्पतिपित्राद्यौ द्वापरौ युगसंशयौ॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार¦ पु॰ वृ--घञ्।

१ सङ्घे

२ अवसरे अमरः। स्वयोग्यकाले(पाला)
“वारोऽ{??}राजस्वसुः” सा॰

३ प॰।

४ द्वारे

५ शिवे

६ कुब्जवृक्षे

७ क्षणे मेदि॰। वार् + सघे अण्।

८ जलसघेन॰ सूर्य्यादिग्रहाधिकृते

९ दिने पु॰ यथा रविवारः रवि-स्यामिकं दिनम्। तदानयनञ्च सू॰ सि॰
“मन्दादधः क्रमेण स्यश्चतुर्था दिवसाधिपाः। वर्षाधिपतयस्तद्वत् तृतीयाश्च प्रकीर्त्तिताः। ऊर्ध्वक्रमेणशशिनो मामानामधिपाः स्मृताः। होरेशाः सूर्य्यतनया-दधोऽधःक्रमतस्तथा। ” सू॰
“शनेः मकाशादधःकक्षा-क्रमेण चतुर्थसङ्ख्याका ग्रहा दिनाधिपतया वारेश्वराभवन्ति। यथा शनिरविचन्द्रभौमबुधगुरुशका इति। वर्षस्व षष्ट्यधिकशतत्रयदिनात्मकस्य स्वामिनस्तद्वन्म-[Page4881-b+ 38] न्दादधः क्रमेण तृतीयसङ्ख्यका ग्रहा उक्ताः। चःसमुच्चयार्थे। तत्क्रमश्च यथा शनिभौमशुक्रचन्द्रगुरु-सूर्य्यबुधा इति। चन्द्रात् सकाशादूर्द्धकक्षाक्रमेणग्रहा मासानां त्रिंशद्दिनात्मकानां स्वामिनः जथिताः। तत्क्रमश्च चन्द्रबुधशुक्ररविभौमगुरुशनथ इति। शनेःसकाशादधोथः क्रमतः अधःक्रमेण होरेशाः
“होरेतिलग्नं भगणस्व चार्धम्” इत्युक्तलग्नार्द्धभागात्मकहो-राणां दिने द्वादश रात्रौ द्वादशेत्यहोरात्रे चतुर्विंशति-होराणामित्यर्थः। होरा सार्धद्विनाडिका। इतिषष्टिघटिकात्मकेऽहोरात्रे चतुर्विंशतिहोराणामित्यन्ये स्वामिनस्तथा मासेश्वरवदव्यवहिताः कथिताः। यथा तत्क्रमः शनिगुरुभौमरविशुक्रबुधचन्द्रा इति। अत्र शनेः सर्वोर्द्धस्यत्वाच्चन्द्रस्य सर्बाधः स्थत्वात् ताभ्वा-मध ऊर्ध्वक्रमः क्रमेणोक्तः अन्यग्रहस्यावधित्वाभ्युप-गमे विनिगमनाविरहापत्तेः। न तु शनेराणा-वधित्वेन सृष्ट्यादौ दिनवर्षहोराणां स्वामित्वं नवा चन्द्रस्याद्यावधित्वेन सृष्ट्यादौ मासेशत्वं पूर्व-खण्डोक्तानीततदीशैर्विरोधापत्तेः। अत्रोपपत्तिः। हो-रारूपलग्नानां क्रान्तिवृत्तेऽधाक्रमेण मेषादीनां सम्भवा-दूर्ध्वकक्षातोऽधः क्रमेण होरेशत्वं युक्तम्। एवमहो-रात्रे चतुर्विंशतिर्होराः। सप्ततष्टास्त्रयो होरेसागताः चतुर्थो होरेशो द्वितीयवि{??}प्रारम्भे स एव प्रथन-होरेशत्वाद् द्वितीयदिने होरेशः। एवमुत्तरत्रापि। एव-मेतद्वारक्रमेण सावनवर्षे त्रयो वारा अधिका इति पूर्व-वर्षेशादग्रिमवर्षेशाऽधःकक्षाक्रमेण तृतीय उत्तरोत्तरम्। एवं सावनमासे द्वौ वारौ वारक्रमेण मासेश्वरस्याधिका-विति कक्षोर्ध्वक्रमे वारक्रमेणैकान्तरितत्वात् कक्षो-र्ध्वक्रमेण मासेश्वर उत्तरोत्तरमित्युपपस्रं मन्दादि-त्यादि श्लोकदृयम” र{??}वाथः। वारप्रवृत्तिश्च दृशभेदात् भिन्नकालीना यथोक्तं सि॰ चि॰
“अर्कोदयादूर्ध्वमधश्च ताभि प्राच्यां प्रतीच्यां दिशि तत्-प्रवृत्तिः। ऊर्ध्वं तथाऽधश्च कलाभिराभीरयाषुदग्दक्षिण-गोलमात्रे” मू॰।
“प्राच्या ताभिर्घटीभिर्दनवारप्रवृत्ति-रर्कोदयादूध्वम् भवति प्रतीच्यां तु तस्मादधः। यतोलङ्कोदये वारादि अतएव च वारादुत्तरगोचस्थे चरो-र्ध्वघटिकामिरूर्ध्वम् यतस्तदा उ{??}ण्डलं क्षितिजा-दूर्ध्वम्। दक्षिणे त्वधः अतस्तत्रीदयादधः वारप्रवृत्तिः” प्रमिता॰।
“जगति तमोभूतेऽस्मिन् मृष्ट्यादौ भास्करादितिः[Page4882-a+ 38] सृष्टैः। यस्माद्दिनपवृत्तिर्दिनवारोऽर्कोदयात् तस्मत्”। श्रीपतिरपि
“सृष्टेर्मुखे ध्वान्तमयेऽपि विश्वे ग्रहेषुसृष्टेष्विनपूर्वकेषु। दिनप्रवृत्तिस्तदधीश्वरस्य वारस्यतस्मादुदयप्रवृत्तिः। लङ्कोदग्याम्यसूत्रात् प्रथम{??}परतःपूर्वदेशे च पश्चात् अध्वोत्थाभिर्घटीभिः सवितुरुदयतोवासरे वा प्रवृत्तिः। ज्ञेया सूर्य्योदयात् प्राक् चरगकल-भवैश्चामुभिर्याम्यगोले पश्चात् तैः सौस्यगोले युतिवियुति-वशाच्चोभयोः स्पष्टकालः”। अन्योऽप्याह
“केचिद्वारंसवितुरुदयात् प्राहुरन्ये दिनार्द्धात् भानोरर्द्धास्तमयसमयादूचिरे केचिदेवम्। वारस्यादिं यवननृपतिर्दिङ्मुह्रर्त्ते निशाया लाटाचार्य्यः कथयति पुनश्चार्द्धरात्रे स्वतन्त्रे”। एवं मतभेदे व्यवस्था मलमा॰ उक्ता यथा
“द्वोतिथ्यन्तावेकवारे यत्र स स्यात् दिनक्षयः” कूर्मपु॰
“एकस्मिन् सावने त्वह्नि तिथीनां त्रितयं यदा। तदा दिनक्षयः प्रोक्तस्तत्र साहस्रिकं फलम्” वसिष्ठः। कौर्मपुराणवासिष्ठवचनैकवाक्यतया सावनदिनवत् वारप्र-वृत्तिः सूर्य्योदयावधिरेव मूर्य्यसि॰
“सूतकानां परिच्छेदोदिनमासाव्दपास्तथा। मध्यमग्रहभुक्तिश्च सावनेन प्रकी-र्त्तिता”। अत्र दिनाधिपस्य रव्यादेर्भाग्यं दिनं वार-रूपं सावनगणनयोक्तम् यत्तु
“रेखापूर्वापरयोः इत्या-दिना ज्यातिषे वारप्रवृत्तिरुक्ता तत् ज्योतिषशास्त्रोकालहोराज्ञानार्थम्”। वाराणां कृत्यविशेषविधा-नार्थं संज्ञाभेदा यथा
“चरः सौम्यो गुरुः क्षिप्रोमृदुः शुक्रो रविर्ध्रुवः। शनिश्च दारुणो ज्ञेयो भौमउग्रः शशी समः। चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यंमृदुध्रुवैः। दारुणोग्रैश्च योद्धव्यं क्षत्त्रियैर्बुद्धका-ङ्क्षिभिः”। इति सामान्यतोऽभिधाय
“नृपाभिषेको-ऽग्निकार्य्यञ्च सूर्य्यवारे प्रशस्पते। सोमे तु लेपयानंच कुर्य्याच्चैव गृहादिकम्। सैमापत्यं शौर्य्ययुद्धंशस्त्राभ्यासः कु{??} तथा। सिद्धिकार्य्यञ्च गन्त्रञ्च यात्रांचौ बुधे तथा। पठनं देवपूला च वस्त्र द्याभरणं गुरौ। कन्यादानं गजारोहः शुक्रे स्यात् समयः स्त्रिया। स्थाप्यं गृहप्रवेशश्च गजबन्ध शगौ शुभः” गरुडपु॰

६२ अ॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार¦ m. (-रः)
1. A multitude, a quantity, a flock or herd, a heap.
2. Occasion, opportunity.
3. A day of the week.
4. A moment.
5. A name of S4IVA.
6. A door-way, a gate.
7. Achyranthes aspera.
8. A cover.
9. A turn.
10. The opposite bank of a river. n. (-रं)
1. A vessel for holding spirituous liquor.
2. Bile.
2. Water. Adv. A time, as वारं बारं many a time, repeatedly, often: see वारम्बारं। E. वृ to cover, to choose, &c., aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारः [vārḥ], [वृ-घञ्]

That which covers, a cover.

A multitude, large number; as in वारयुवति; ते स्ववारं समा- स्थाय वर्त्मकर्मणि कोविदाः Rām.2.8.5.

A heap, quantity.

A herd, flock; वारी वारैः सस्मरे वारणानाम् Śi.18. 56.

A day of the week; as in बुधवार, शनिवार.

Time, turn; शशकस्य वारः समायातः Pt.1; अप्सरावारपर्यायेण V.5; R.19.18; often used in pl. like the English 'times'; बहुवारान् 'many times', कतिवारान् 'how many times'.

An occasion, opportunity.

A door, gate.

The opposite bank of a river.

N. of Śiva.

Ved. A tail.

रम् A vessel for holding spirituous liquor.

A mass of water (जलसंघ). -Comp. -अङ्गना, -नारी, -युवति f., योषित् f., -वधू, -वनिता, विलासिनी, -सुन्दरी, -स्त्री 'a woman of the multitude', a common woman, harlot, courtezan, prostitute; Ratn.1. 26; Ś. Til.16.

कीरः a wife's brother (according to Trik. Medinī spells with ब).

the submarine fire.

a hair-dresser or comb.

a louse.

a courser.

a carrier, porter; (these meanings are given in Medinī). -बु(बू)षा the plantain tree. -मुख्या the chief of a number of harlots.

बा (वा) णः, णम् Armour, a coat of mail; अगमत् कैतकं रजः । तद्योधवारबाणानामयत्न- पटवासताम् R.4.55; Śi.15.118; धुन्वाना जगृहुर्बाणान् वारबाण- विदारणान् Parṇāl.5.68.

a variety of blanket; Kau. A.2.11. -योगः powder.

वाणिः a piper, player on a flute.

a musician.

a year.

a judge. (-णिःf.) a harlot. -वाणी a harlot.

वृषा corn.

the plantain tree. -वेला a time or period of the day when no act is performed; कृतमुनियमशरमङ्गलरामर्तुषु भास्करादि- यामार्धे । प्रभवति हि वारवेला न शुभा शुभकार्यचरणाय ॥ Jyotistattvam.

सेवा harlotry, prostitution.

a number of harlots.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार m. (earlier form of वालSee. )the hair of any animal's tail ( esp. of a horse's tail , = ?) RV.

वार mn. sg. and pl. a hair-sieve ib.

वार m. (fr. 1. वृ)keeping back , restraining (also mfn. ifc. = difficult to be restrained TBr. ; See. दुर्-व्)

वार m. anything which covers or surrounds or restrains , a cover MW.

वार m. anything which causes an obstruction , a gate , door-way W.

वार m. anything enclosed or circumscribed in space or time , esp. an appointed place( e.g. स्व-वारं समा-स्था, to occupy one's proper place) R.

वार m. the time fixed or appointed for anything( accord. to some fr. 2. वृ, to choose) , a person's turn MBh. Ka1v. etc. (often , esp. with numerals , = times e.g. वरांस् त्रीन्or वर-त्रयम्, three times ; भूरिभिर् वारैःor भूरि-वारान्or बहु-वारम्or वारं वारम्or वारं वारेण, many times , often , repeatedly)

वार m. the turn of a day (under the regency of a planet) , a day of the week (they are आदित्य- , सोम- , मङ्गल- , बुध- , गुरु- , शुक्र- , and शनि- वार; See. IW. 178 n. 1 ) Gan2it. Ya1jn5. Sch. Ka1v. etc. (See. दिनand दिवस-व्)

वार m. a moment , occasion , opportunity W.

वार m. a multitude , quantity(See. बाण-व्)

वार m. an arrow L.

वार m. Achyranthes Aspera L.

वार m. N. of शिवL.

वार n. a vessel for holding spirituous liquor L.

वार n. a partic. artificial poison L.

वार m. (fr. 2. वृ)choice(See. वारे-वृत)

वार m. anything chosen or choice or exquisite , goods , treasure RV. (often ifc. ; See. अशस्त-, ऋधद्-, दाति-व्etc. )

वार m. N. of a poet Cat.

"https://sa.wiktionary.org/w/index.php?title=वार&oldid=504255" इत्यस्माद् प्रतिप्राप्तम्