वासुदेव
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वासुदेवः, पुं, (वसुदेवस्यापत्यमिति । वसुदेव + “ऋष्यन्धकवृष्णिकुरुभ्यश्च ।” ४ । १ । ११४ । इति अण् । यद्वा, सर्व्वत्रासौ वसत्यात्मरूपेण विश्वम्भरत्वादिति । वस् + बाहुलकात् उण् वासुः । वासुश्चासौ देवश्चेति कर्म्मधारयः । अस्य नामनिरुक्तिस्तु परतो ज्ञेया ।) श्रीकृष्णः । इत्यमरः ॥ तत्पर्य्यायः । वसुदेवभूः २ । इति हेमचन्द्रः ॥ सव्यः २ सुभद्रः ४ वासुभद्रः ५ षडङ्गजित् ६ षड्बिन्दुः ७ प्रश्निशृङ्गः ८ प्रश्नि- भद्रः ९ गदाग्रजः १० मार्जः ११ वभ्रुः १२ लोहिताक्षः १३ परमाण्वङ्गकः १४ । इति शब्दमाला ॥ अन्यत् कृष्णशब्दे द्रष्टव्यम् ॥ श्रीकृष्णशरीरस्य नित्यत्वं यथा, -- श्रीसनत्कुमार उवाच । “भद्रं वो मुनयः शश्वत्तपसां फलमीप्सितम् । कृष्णस्य कुशलप्रश्नं शिवबीजस्य निष्फलम् ॥ साम्प्रतं कुशलं वश्च दर्शनं परमात्मनः । भक्तानुरोधाद्देहस्य परस्य प्रकृतेरपि ॥ निर्गुणस्य निरोहस्य सर्व्वबीजस्य तेजसः । भारावतारणायैव चाविर्भूतस्य साम्प्रतम् ॥ श्रीकृष्ण उवाच । शरीरधारिणश्चापि कुशलप्रश्नमीप्सितम् । तत्कथं कुशलप्रश्नं मयि विप्र न विद्यते ॥ सनत्कुमार उवाच । शरीरे प्राकृते नाथ सन्त्रतञ्च शुभाशुभम् । नित्यदेहे क्षेमबीजे शिवप्रश्नमनर्थकम् ॥ श्रीभगवानुवाच । यो यो विग्रहधारी च स च प्राकृतिकः स्मृतः । देहो न विद्यते विप्र तां नित्यां प्रकृतिं विना ॥ सनत्कुमार उवाच । रक्तबिन्दूद्भवा देहास्ते च प्राकृतिकाः स्मृताः । कथं प्रकृतिनाथस्य बीजस्य प्राकृतं वपुः ॥ सर्व्वबीजस्य सर्व्वादिर्भवांश्च भगवान् स्वयम् । सर्व्वेषामवताराणां प्रधानं बीजमव्ययम् ॥ कृत्वा वदन्ति वेदाश्च नित्यं नित्यं सनातनम् । ज्योतिःस्वरूपं परमं परमात्मानमीश्वरम् ॥ मायया सगुणञ्चैव मायेशं निर्गुणं परम् । प्रवदन्ति च वेदाङ्गास्तथा वेदविदः प्रभो ॥ श्रीकृष्ण उवाच । साम्प्रतं वासुदेवोऽहं भक्तवीर्य्याश्रितं वपुः । कथं न प्राकृतो विप्र शिवप्रश्नमभीप्सितम् ॥ सनत्कुमार उवाच । वासः सर्व्वनिवासश्च विश्वानि यस्य लोमसु । तस्य देवः परं ब्रह्म वासुदेव इतीरितः ॥ वासुदेवेति तन्नाम वेदेषु च चतुर्षु च । पुराणेष्वितिहासेषु यात्रादिषु च दृश्यते ॥ रक्तवीर्य्याश्रितो देहः कृते वेदे निरूपितः । साक्षिणो मुनयश्चात्र धर्म्मः सर्व्वत्र एव हि ॥ साक्षिणो मम वेदाश्च रविचन्द्रौ च साम्प्रतम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८७ अध्यायः ॥ तस्य नामव्युत्पत्तिः । “सर्व्वत्रासौ समस्तञ्च वसत्यत्रेति वै यतः । शुक्लवस्त्रधरं देवं प्रमाणाद्वामनं सदा । ईषद्धाससमायुक्तं त्रिलोकेशं त्रिविक्रमम् । चिन्तयेद्वरदं देवं सर्व्वकामफलप्रदम् ॥” इति कालिकापुराणे ८२ अध्यायः ॥ * ॥ तस्योत्पत्तिर्यथा, -- “ततस्तु दशमे मासि विधौ ब्रह्मर्क्षसङ्गते । अष्टम्यामर्द्धरात्रौ च तस्यां जातो जनार्द्दनः ॥ इन्दीवरदलश्यामः पद्मपत्रायतेक्षणः । चतुर्भुजः सुन्दराङ्गो दिव्याभरणभूषितः ॥ श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः । वमुदेवस्य जातोऽसौ वासुदेवः सनातनः ॥ इति पाद्मोत्तरखण्डे ६० अध्यायः ॥ * ॥ तस्य चतुर्धा मूर्त्तिर्यथा, -- “एकांशेन जगत् कृत्स्नं व्याप्य नारायणः स्यितः । चतुर्द्धावस्थितो व्यापी सगुणो निर्गुणोऽपि वा ॥ एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवामला । वासुदेवाभिधाना सा गुणातीता सुनिष्कला ॥ द्बितीया कालसंज्ञान्या तामसी शेषसंज्ञिता । निहन्ति सकलांश्चान्ते वैष्णवी परमा तनुः ॥ सत्त्वोद्रिक्ता तृतीयान्या प्रद्युम्नेति च संज्ञिता । जगत् स्थापयते सर्व्वं सा विष्णुप्रकृतिर्ध्रुवा ॥ चतुर्थी वासुदेवस्य मूर्त्तिर्ब्राह्मी सुसंज्ञिता । राजसी चानिरुद्धाख्या प्राद्युम्नी सृष्टि- कारिका ॥ यः स्वपित्यखिलं हत्वा प्रद्युम्नेन सह प्रभुः । नारायणाख्यो ब्रह्मासौ प्रजासर्मकरो हि सः ॥ या सा नारायणतनुः प्रद्युम्नाख्या मुनीश्बराः । तया संमोहयेद्विश्वं सदेवासुरमानुषम् ॥ सैव सर्व्वजगत्सूतिः प्रकृतिः परिकीर्त्तिता । वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः ॥ प्रधानं पुरुषः कालस्तद्वत् त्रयमनुत्तमम् । वासुदेवात्मकं नित्यमेतत् विज्ञानमुच्यते ॥ एकवेदं चतुष्पादं चतुर्द्धा पुनरच्युतः । विभेद वासुदेवोऽसौ प्रद्युम्नो हरिरव्ययः ॥” इति कूर्म्मपुराणे ४८ अध्यायः ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वासुदेव पुं।
विष्णुः
समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्
1।1।20।2।3
उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः। पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः॥
पत्नी : लक्ष्मी
जनक : वसुदेवः
सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः
वैशिष्ट्यवत् : विष्णुलाञ्छनम्
जन्य : कामदेवः
सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः
पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वासुदेव¦ पु॰ वसुदेवस्यापन्यम् अण।
१ विष्णौ अमरः। अन्यापि तन्न मनिरुक्तिः विष्णुपु॰ दर्शिता यथा
“सर्व-त्रामो समस्त च वसत्यत्रेति वै यतः। ततः स वासु-देवेति विद्वद्भिः परिण्ठ्यते”। विष्णुस॰ भाष्ये तु द्विधापठितयोः वासदेवशब्दयोर्द्विधा व्युत्पत्तिर्दर्शिता तत्र प्र-थम वसुदेवापत्यरूपार्थिका द्वितीया यथा
“वसति वासंगच्छति वा वासुः दीव्यति क्रीडति जिगीषते व्यव-हरति द्योतते स्तूयते मुमुक्षुभिर्वा गच्छतीति वा देवः। वासुश्चास्रौ देवश्च वामदेवः। छादयामि जगद्विश्वं भूत्या(मायया) सूर्य्य इवांशुभिः। सर्वभूताधिवासश्च वासु-देवस्ततः स्मृतः”
“वसनात् सर्वभूतानां वासुत्वाद् दवयो-नितः। वासुदेवस्ततो ज्ञेयो योगिभिस्तत्त्ववादिभिः” भा॰उ॰। स च चतुर्व्यूहस्य नारायणाख्यस्य परमात्मनःअशभेदः इति वैष्णवामन्यन्ते
“एकांशेन जगत् कृतस्नं व्याप्य नारायणः स्थितः। चतुर्द्धावस्थितो व्यापो सगुणो निर्गुणोऽपि वा। एका-भगवतोमूर्त्तिर्ज्ञानरूपा शिवाऽमला। वासुदेवाभिधाना सागुणातीता सुनिष्कला। द्वितीया कालसंज्ञान्या तामसीशेषसंज्ञिता (सङ्कर्षणाख्य)। निहन्ति सकलांश्चान्तोवैष्ण-वी परमा तनः। सत्त्वाद्रका तृतीयाऽन्या पद्युम्नेनि चसंज्ञिता। जगत् स्थापयते सर्वं सा विष्णुप्रकृतिर्ध्रवा। चतुर्यी वासुदेवस्य मूर्त्तिर्ब्राह्मी सुसंज्ञिता। राजसी चा-निरुद्धाख्या प्राद्युम्नी सृष्टिकारिका। यः स्वपित्यखिलंहृत्वा प्रद्युन्मेन सह प्रभुः। नारायणाख्यो ब्रह्मासौप्रजासर्गकरो हि सः। या सा नारायणतनुः प्रद्यु-म्लाख्या मुनीश्वराः!। तया संमोहयेद्विश्वं सदेवासुर-मानुषम्। सैव सुर्वजगत् सूते{??}कृतिः परिकीर्त्तिता। वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः। प्रधानंपुरुषः कालस्तद्वद् त्रयमनुत्तमम्। वासुदेवात्मकं नित्य-मेतत विज्ञानमुच्यते” कूर्मपु॰
४८ अ॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वासुदेव¦ m. (-वः)
1. KRISHN4A.
2. A descendent of Vasude4va, the general appellation of a class of persons peculiar to the Jainas. E. वसुदेव the father of the deity, and अण् patronymic aff.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वासुदेवः [vāsudēvḥ], [वसुदेवस्यापत्यम् अण्]
Any descendant of Vasudeva.
Particularly, Kṛiṣṇa.
The sage Kapila; वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम् Mb.3.17.32.-वी Asparagus Racemosus (Mar. शतावरी).
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वासुदेव/ वासु--देव See. below.
वासुदेव m. (fr. वसु-द्) patr. of कृष्णTA1r. etc. ( RTL. 111 )
वासुदेव m. of a king of the पुण्ड्रs Hariv.
वासुदेव m. N. of a class of beings peculiar to the जैनs L.
वासुदेव m. a horse L.
वासुदेव m. N. of various kings and authors (also with आचार्य, दीक्षित, शर्मन्, शास्त्रिन्etc. ) Inscr. Cat.
वासुदेव n. N. of an उपनिषद्
वासुदेव mf( ई)n. relating to (the god) कृष्णNr2isUp.
वासुदेव mf( ई)n. written or composed by -V वासुदेवCat.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--another name for कृष्ण (s.v.) equal to नारायण in qualities; value of भक्ति towards: His immanence in the Universe: worshipped in the Kaliyuga by the righteous; फलकम्:F1: भा. X. 8. १४ and १९; I. 2. 7-३४; XII. 2. २२ and ३८. Br. I. 2. ३७; वा. 1. १४८; २३. २१८; Vi. II. १२. ४४-7; १५. ३५; IV. १३. १०५; V. १७. १५; १८. ५८; ३७. २८; ३८. 9. VI. 3. ४१; 5. ७६, ८०.फलकम्:/F Manu takes the fish to be; फलकम्:F2: M. 1. २६; 2. १६; ४५. १८; ५२. २०-22; ६९. 7; Vi. I. 2. १२; 4. १८; ११. ५५; १९. २४.फलकम्:/F requested by the gods to vanquish हिरण्यकशिपु; created शुष्करेवती to vanquish the Asuras; फलकम्:F3: M. १६१. २९-31; १७९. ३५-6.फलकम्:/F the presiding deity of planets; फलकम्:F4: M. २३०. 9; २४२. १६.फलकम्:/F as a son of Aditi; फलकम्:F5: Ib. २४४. ३५-42; २४५. २०-36; २४८. ४६.फलकम्:/F Incon of gifts pleasing to; फलकम्:F6: Ib. २५८. 9; २७४. 5; २८५. १६.फलकम्:/F eternal and real; फलकम्:F7: Vi. III. 8. २४, ३२; IV. 4. ८०; VI. 7. ५६.फलकम्:/F numerous sons of; फलकम्:F8: M. ४७. २०-21; वा. ९६. ४५, २४४; १११. २१.फलकम्:/F got the divine chariot. फलकम्:F9: Ib. ९३. २७.फलकम्:/F
(II)--an author on architecture. M. २५२. 3.
(III)--a वम्शवीर. वा. ९७. 1.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Vāsudeva : m. (pl.): Designation of Vṛṣṇis in general.
_______________________________
*3rd word in left half of page p861_mci (+offset) in original book.
Mahabharata Cultural Index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Vāsudeva : m. (pl.): Designation of Vṛṣṇis in general.
_______________________________
*3rd word in left half of page p861_mci (+offset) in original book.