यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रयः, पुं, (विक्रयणमिति । वि + क्री + “एरच् ।” ३ । ३ । ५६ । इति अच् ।) विक्रयणक्रिया । वेचा इति भाषा ॥ तत्पर्य्यायः । विपणः २ । इत्य- मरः ॥ विपणनम् ३ पणनम् ४ । इति शब्द- रत्नावली ॥ व्यवहारः ५ पणाया ६ । इति जटाधरः ॥ अस्य विहिताविहितनक्षत्राणि यथा, -- “गोवधोऽयाज्यसंयाज्यपारदार्य्यात्मविक्रयाः । तडागारामदाराणामपत्यस्य च विक्रयः । भृताच्चाध्ययनादानमपण्यानाञ्च विक्रयः ॥” इत्यादि मानवे ११ अध्याये उपपातकमध्ये गणितम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रय पुं।

विक्रयः

समानार्थक:विपण,विक्रय

2।9।83।1।2

विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु। विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रय¦ पु॰ वि + क्री--अच्। मूल्यग्रहणेन परस्वत्वापादकेव्यापारे अमरः। विक्रये विहिताविहितनक्षत्राणि यथा
“यमाहिशक्रा-ग्निहुताशपूर्वा नेष्टाः क्रये विक्रयणे प्रशस्ताः। पौष्णाग्निचित्राशतविन्दुवाताः क्रये हिता वि क्रयणे निषिद्धाः”। ज्योतिः सारः। क्रयविक्रयनिर्णयो यथा
“मूल्यं दास्या-मीति नियमं कृत्वा ग्रहणादपि क्रयसिद्धिः। तथाच वि-वादचिन्तामणौ कात्यायनः
“पण्यं गृहीत्वा यो मूल्य-मदत्त्वैव दिशं व्रजेत्। ऋतुत्रयस्योपरिष्टात् तद्धनंवृद्धिमाप्नुयात्”। अतएव वृहस्पतिः
“गृहक्षेत्रादिकंक्रीत्वा तुल्यमूल्याक्षरान्वितम्। पत्रं कारयते यत्तुक्रय-लेख्यं तदुच्यते”। क्रयविक्रये समयविशेषाभ्यन्तरे पश्चा-त्तापादसिद्धिः। यथाह मनुः
“क्रीत्वा विक्रीय वा कि-ञ्चित् यस्येहानुशयो भवेत्। सोऽन्तर्दशाहे तद्द्रव्यंदद्याच्चैवाददीत वा”। एतद्याज्ञवल्क्योक्तेतरपरम्। यथा याज्ञवल्क्य
“दशैकपञ्चसप्ताहमासत्र्यहार्द्ध-सासिकम्। वीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परी-क्षणं। अत्र वृहस्पतिः
“अतोऽर्वाक् पण्यदोषस्तु यदिसंजायते क्वचित्। विक्रेतुः प्रतिदेयन्तत् क्रेता मूल्य-मवाप्नुयात्”। अतस्तद्द्रव्यपरीक्षणकालात्। कात्या-यनः
“अविज्ञातन्तु यत् क्रीतं दुष्टं पश्चाद्विभावितम्। क्रेत्रा तत् स्वामिने देयं पण्यं कालेऽन्यथा न तु”। कांले प्रागुक्तपरीछाकालाभ्यन्तरे। परी{??}ते तु वृह-[Page4892-b+ 38] स्पतिः
“परीक्षेत स्वयं पण्यं अन्येषाञ्च प्रदर्शयेत। परीक्षितं बहुमत गृहीत्वा न पुनस्त्यजेत्”। अत्र विशेष-यति नारदः
“क्रीत्वा मूल्येन यो द्रव्यं दुषक्रीतं म-न्यते क्रयी। विक्रेतुः प्रतिदेयं तत् तस्मिन्नेवाह्न्य-विक्षतम्। द्वितीयेऽह्नि ददत् क्रेता मूल्यात्त्रिंशांश-माहरेत्। द्विगुणन्तु तृतीयेऽह्नि परतः क्रेतुरेव तत्”। आहरेत् दद्यात् विक्रेत्रे इति शेषः। द्विगुणं त्रिंशा-शस्य। याज्ञवल्क्यः
“राजदैवोपघातेन पण्ये दोष-मुपागते। हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः”। नारदः
“उपहन्येत वा पण्यं दह्येतापह्रियेत वा। विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः। दीयमानंन गृह्णाति क्रीतं पण्यन्तु यः क्रयी। स एवास्य भवेद्दोषोविक्रेतुर्योऽप्रयच्छतः” प्राय॰ त॰।
“न्यासं कृत्वापरत्राधिं कृत्वा बाधिं करोति च। विक्रयं वा क्रियातत्र पश्चिमा बलवत्तरा”। न्यासं कृत्वा आधिं करोतिआधिं कृत्वा वा विक्रयं करोति। विक्रयपदं सत्त्वध्वंसकत्वात् दानं लक्षयति तत्र परा क्रिया सिद्धेत्यर्थः। एवञ्च विक्रेतृदात्रोर्मरणादिना आध्यनुद्धारे विक्रयदानेतत्कर्त्तृतुल्यस्वत्वजननात् तत्र तत्क्रेतृप्रतिग्रही-तृभ्यामाध्युद्धारः कार्य्यः इति। न चं
“स्थावरस्यसमस्तस्य गोत्रसाधारणस्य च। नैकः कुर्य्यात् क्रयंदानं परस्परमतं विना। विभक्ता अविभक्ता वासपिण्डाः स्थावरे समाः। एको ह्यनीशः सर्वत्र दानाधमनविक्रये” इति व्यासवचनाभ्यामेकस्य दानबन्धक-विक्रयानधिकारः इति वाच्यं यथेष्टविनियोगार्हत्वरूपस्यस्वत्वस्य द्रव्यान्तर इवात्राप्यविशेषात् वचनञ्च स्वामित्वेनदुर्वृत्तपुरुषगाचरविक्रयादिना कुटुम्बविरोधादधर्म-ज्ञापनार्थनिषेधकं न तु विक्रयाद्यनिष्पत्त्यर्थमिति” दाय-भागः। एवञ्च
“स्थावरे विक्रयो नास्ति कुर्य्यादाधि-मनुज्ञया” इति स्थावरस्य केवलविक्रयप्रतिषेधात् एवं
“भूमिं यः प्रतिगृह्णातीत्यादिवचने दानप्रशंसादर्श-नाच्च विक्रयेऽपि कर्त्तव्ये सहिरण्यमुदकं दत्त्वा दान-रूपेण स्थावरविक्रय इति” विज्ञानेश्वरः। वस्तुतस्तुस्थावरविक्रयनिषेधः अविभक्तस्थावरविषयः। तत्रापियदि विक्रयं विना अवस्थितिर्न भवति तदा विक्रयः क-र्त्तव्यः। पूर्वपुरुषार्जितनष्टोद्धारे विशेषयति मिताक्ष-रायाम्
“स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम्। असम्भूय सुतान्{??}र्वान् न दानं न च॰ विक्रयः” इ-[Page4893-a+ 38] यादि। अस्यापवादमाह
“एकोऽपि स्थावरे कुर्य्याद्-दानाधमनविक्रयम्। आषत्काले कुटुम्बार्थे धर्मार्थे चविशेषतः” दायतत्त्वे रघु॰। द्रव्यविशेषविक्रयनिषेधोयथा स्मृतिः
“विक्रीणन् मद्यमांसानि ह्यभक्ष्यस्य चभक्षणम्। कुर्वन्नगग्यागमनं शूद्रः षतति तत्क्षणात्। कपिलाक्षीरपानेन ब्राह्मणीगमनेन च। वेदाक्षरवि-चारेण शूद्रश्चाण्डालतां व्रजेत्” कालिकापु॰।
“विक्रयंसर्ववस्तूनां कुर्वन् शूद्रो न दोषभाक्। मधु चर्म सुरांलाक्षां त्यक्त्वा मांसञ्च पञ्चमम्” मनुः।
“सद्यः पततिलौहेन लाक्षया लवणेन च। त्रहेण शूद्रो भवति ब्रा-ह्मणः क्षीरविक्रयात्। अशक्तौ भेषजस्यार्थे यज्ञहेतो-स्तथैव च। यद्यवश्यन्तु विक्रेयास्तिला घान्येन तत्समाः” आह्नि॰ त॰।
“गवां विक्रयकारी च गवां गोष्ठे क्रमि-र्भवेत्” इति यमवचनम्।
“गोबधोऽयाज्यसंयाज्यपा-रदार्य्यात्मविक्रयाः। तडामारामदाराणामपत्यस्य च वि-क्रयः। भृताच्चाध्ययनादानमपण्यानाञ्च विक्रयः” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रय¦ m. (-यः) Sale, selling, vending. E. वि before, क्री to buy, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रयः [vikrayḥ], 1 Sale, selling; यासां नाददते शुल्कं ज्ञातयो न स विक्रयः Ms.3.54.

The selling price; Ms.7.127.

The market; विक्रयाद्यो धनं किंचिद् गृह्णीयात् कुलसंनिधौ Ms.8. 21. -Comp. -अनुशयः rescission of a sale; Ms.8.5.-पत्रम् a bill of sale, sale-deed. -वीथिः market.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रय/ वि-क्रय etc. See. below.

विक्रय/ वि-क्रय m. sale , selling , vending AV. etc.

"https://sa.wiktionary.org/w/index.php?title=विक्रय&oldid=504304" इत्यस्माद् प्रतिप्राप्तम्