यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधवा, स्त्री, (विगतो धवो भर्त्ता यस्याः ।) मृत- भर्त्तृका । तत्पर्य्यायः । विश्वस्ता २ । इत्यमरः ॥ जालिका ३ रण्डा ४ यतिनी ५ यतिः ६ । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । १० । ४० । २ । “को वां शयुत्रा विधवेव देवरं मर्यं न योषा कृणुते सधस्थ आ ॥”) तस्याः कर्त्तव्याकर्त्तव्यानि यथा । विष्णुः । “मृतेभर्त्तरि ब्रह्मचर्य्यं तदन्वारोहणं वा इति ।” ब्रह्मचर्य्यं मैथुनवर्ज्जनं ताम्वूलादिवर्ज्जनञ्च । यथा, प्रचेताः । “ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् । यतिश्च ब्रह्मचारी च विधवा च विवर्ज्जयेत् ॥” अभ्यञ्जनं आयुर्वेदोक्तं पारिभाषिकम् । स्मृतिः । “एकाहारः सदा कार्य्यो न द्वितीयः कदाचन । पर्य्यङ्कशायिनी नारी विधवा पातयेत् पतिम् ॥ गन्धद्रव्यस्य सम्भोगो नैव कार्य्यस्तया पुनः । तर्पणं प्रत्यहं कार्य्यं भर्त्तुः कुशतिलोदकैः ॥” एतत्तु तर्पणं पुत्त्रपौत्त्राद्यभाव इति मदनपारि- जातः ॥ “वैशाखे कार्त्तिके माघे विशेषनियमञ्चरेत् । स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः ॥” इति शुद्धितत्त्वम् ॥ * ॥ अपि च । “ब्राह्मणी पतिहीना या भवेन्निष्कामिनी सदा । एकभक्ता दिनान्ते सा हविष्यान्नरता सदा ॥ न घत्ते दिव्यवस्त्रञ्च गन्धद्रव्यं सुतैलकम् । स्रजञ्च चन्दनञ्चैव शङ्खसिन्दूरभूषणम् ॥ त्यक्त्वा मलिनवस्त्रा स्यान्नित्यं नारायणं स्मरेत् । नारायणस्य सेवाञ्च कुरुते नित्यमेव च ॥ तन्नामोच्चारणं शश्वत् कुरुतेऽनन्यभक्तितः । पुत्त्रतुल्यञ्च पुरुषं सदा पश्यति धर्म्मतः ॥ मिष्टान्नं न च भुङ्क्ते सा न कुर्य्याद्बिभवं व्रजम् । एकादश्यां न भोक्तव्यं कृष्णजन्माष्टमीदिने ॥ श्रीरामस्य नवम्याञ्च शिवरात्रौ पवित्रया । अघोरायाञ्च प्रेतायां चन्द्रसूर्य्योपरागयोः ॥ भ्रष्टद्रव्यं परित्याज्यं भुज्यते परमेव च । ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारिणाम् । सन्न्यासिनाञ्च गोमांसं सुरातुल्यं श्रुतौ श्रुतम् ॥ रक्तशाकं मसूरञ्च जम्बीरं पर्णमेव च । वर उच्यते । विधवा विधातृका भवति विधव- नाद्बा विधावनाद्वेति चर्म्मशिरा अपिवा धव इति मनुष्यनाम तद्वियोगाद्विधवा देवरो दीव्यतिकर्म्मा मर्य्यो मनुष्यो मरणधर्म्मा योषा यौतेराकुरुते सहस्थाने इति ॥” इति तद्भाष्ये सायणः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधवा स्त्री।

विधवा

समानार्थक:विश्वस्ता,विधवा

2।6।11।2।3

स्वैरिणी पांसुला च स्यादशिश्वी शिशुना विना। अवीरा निष्पतिसुता विश्वस्ताविधवे समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधवा¦ स्त्री विगतो धवो यस्याः। मृतपतिकायां स्त्रियाम्अमरः। विधवाधर्माश्च शु॰ त॰ उक्ता यथा विष्णुस॰
“मृते भर्तरिब्रह्मचर्य्यं तदन्वारोहणं वा”। ब्रह्मचर्य्यं मैथुनवर्जनंताम्बूलादिवर्जनञ्च यथाह प्रचेताः
“ताम्बूलाभ्यञ्जनं चैवकांस्यपात्रे च भोजनम्। यतिश्च ब्रह्मचारी च विधवाच विवर्जयेत्”। कभ्यञ्जनमायुर्वेदोक्तम्” रघु॰। का-शीख॰ विस्तरेण

४ अ॰ उक्ता यथा
“अनुयाति न भर्त्तारं यदि दैवात् कदाचन। तथापिशीलं संरक्ष्यं शीलभङ्गात् पतत्यधः। तद्वैगुण्यादपिस्वर्गात् पतिः पतति नान्यथा। तस्याः पिता च माताच भ्रातृवर्गस्तथैव च। पत्यौ मृते च या योषिद्वै-धव्यं पालयेत् क्वचित्। सा पुनः प्राप्य भर्त्तारंस्वर्गभोगान् समश्नुते। विधवाकवरीबन्धो भर्तृबन्धायजायते। शिरसो वपनं तस्मात् कार्य्यं विधवया सदा। एकाहारः सदा कार्य्यो न द्वितीयः कदाचन। त्रिरात्रंपञ्चरात्रं वा पक्षव्रतमथापि वा। मासोपवासं कुर्य्याद्वा चान्द्रायणमथापि वा। कृच्छ्रं पराकं वा कुर्य्यात्तप्तकृच्छ्रमथापि वा। यवान्नैर्वा फलाहारैः शाका-हारैः पयोव्रतैः। प्राणयात्रां प्रकुर्वीत यावत् प्राणःस्वयं व्रजेत्। पर्य्यङ्कशायिनी नारी विधवा पातयेत्पतिम्। त{??}द्भूशयनं कार्य्यं पतिसौख्यसमीहया। नैवाङ्गोद्वर्त्तनं कार्य्यं स्त्रिया विधवया क्वचित्। गन्ध-द्रव्यस्य सम्भोगोनैव कार्य्यस्तया पुनः। प्रत्यहं तर्पणंकार्य्यं भर्तुः कुशतिलोदकैः। तत्पितुस्तत्पितुश्चापिनामगोत्रादिपूर्वकम्। विष्णोस्तु पूजनं कार्य्यं पति-सुद्ध्या न चान्यथा। पतिमेव सदा ध्यायेद्विष्णुरूपधरंपरम्। यद् यदिष्टतमं लोके यच्च पत्युः समीहितम्। तत्तद्गुणवते देयं पतिप्रीणनकाम्यया। वैशाखे कार्त्तिकेमाघे विशेषनियमांश्चरेत्। स्नानं दानं तीर्थयात्रांविष्णोर्नामग्रहं मुहुः। वैशाखे जलकुम्भांश्च कार्त्तिकेवृतदीपकाः। माघे तिलेन्धनोत्सर्गः स्वर्गलोके मही-यते। प्रपा कार्य्या च वैशाखे देवे देया गलन्तिका। उपानद्व्यजनं चापि सूक्ष्मवासांसि चन्दनम्। स-कर्पूरन्तु ताम्बूलं पुष्पदानं तथैव च। जलपात्राण्यने-कानि तथा पुष्पगृहाणि च। पानानि च विचित्राणि[Page4906-b+ 38] द्राक्षारम्भाफलानि च। देयानि द्विजमुख्येभ्यः पतिर्मेप्रीयतामिति। ऊर्जे यवागूमश्नीयाटेकान्नमथ वा पुनः। वृन्ताकं शूरणञ्चैव शूकशिम्बीञ्च वर्जयेत्। कार्त्तिकेवर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु। कार्त्तिके वर्जयेत् कांस्यंकार्त्तिके चापि सन्धितम्। कार्त्तिके मौननियमे घण्टांचारुं प्रदापयेत्। पत्रभोजी कांस्यपात्रं घृतं पूर्णं प्र-यच्छति। भूमिशव्याव्रते देया शय्या श्लक्ष्णा सतूलिका। फलत्यागे फलं देयं रसत्यागे च तद्रसः। धान्यत्यागे चतद्धान्यमथ वा शालयः स्मृताः। धेनुं दद्यात् प्रयत्नेनसालङ्कारां सकाञ्चनाम्। एकतः सर्वदानानि दीप-दानं तथैकतः। कार्त्तिके दीपदानस्य कलां नार्हन्तिषोडशीम्। किञ्चिदभ्युदिते सूर्य्ये माघस्नानं समाचरेत्। यथाशक्त्या च नियमान्माघे स्नानं समाचरेत्। पक्वा-न्नैर्भोजयेद्विप्रान् यतीनपि तपस्विनः।{??}ड्डुकैःफाणितैश्चापि वटकेण्डरिकादिभिः। घृतपक्वंः सम-रिचैः शुचिकर्पूरवासितैः। गर्भे शर्करया पूर्णैर्नेत्रा-नन्दैः सुगन्धिभिः। शुष्केन्धनानां भारांश्च दद्याच्छीताप-नुत्तये। कञ्चुकं तूलगर्भञ्च तूलिकां सूपवीतिकाम्। म-ञ्जिष्ठारूपवासांसि तथा तूलवतीं पटीम्। ऊर्णामयानिवासांसि यतिभ्योऽपि प्रदापयेत्। जातीफललवङ्गैश्चताम्बूलानि वहून्यपि। कम्बलानि च चित्राणि नि-र्वातानि गृहाणि च। मृदुलाः पादरक्षाश्च सुगन्ध्यु-द्वर्त्तनानि च। घृतकम्बलपूजाभिर्महास्नानपुरःसरम्। संस्नाप्य शाम्भवं लिङ्गं पूजयेद् दृढभक्तितः। कृष्णा-गुरुप्रभृतिभिर्गर्भागारे प्रधूपनैः। तूलवर्त्तिप्रदीपैश्च नै-येद्यैर्विविधैस्तथा। भर्तृस्वरूपो भगवान् प्रीयतामितिचोच्चरेत्। एवंविधैश्च विधवा विविधैर्नियमैर्व्रतैः। वै-शाखान् कार्त्तिकान् माघानेवमेवातिवाहयेत्। नाधि-रोहेदनड्वाहं प्राणैः कण्ठगतैरपि। कञ्चुकं न परी-दध्याद्वासो न विकृत वसेत्। अपृष्ट्वातु सुतान् कि-ञ्चिन्न कुर्य्याद् भर्तृतत्परा। एवं चर्य्यापरा नित्यं वि-धवापि शुभा मता। इति धर्मसमायुक्ता विधवापि पति-व्रता। पतिलोकानवाप्नोति न भवेत् क्वापि दुःखिता”। व्रह्मवै॰ ज॰ ख॰

८३ अ॰ अश्चिद्विशेष उक्तो यथा
“ब्राह्मणी पतिहीना या भयेन्निष्क्रामणी सदा। एक-भक्ता दिनान्ते सा हविष्यान्नरता सदा। न धत्ते दिव्य-वस्त्रञ्च गन्धद्रव्यं सु{??}इलकम्। स्नजञ्च चन्दनं चैव शङ्खंसिन्दूरभूषणम्।{??}क्त्वा मलिनवस्त्रा स्यात् नित्यं नारा-[Page4907-a+ 38] यणं स्मरेत्”।
“पुत्रतुल्यञ्च पु{??}षं सदा पश्यति धर्मतः। मिष्टान्न न च भुङ्क्ते मा न कुर्य्याद्विभव व्रजम्। एका-{??} न भोक्तवं कृष्णजन्माष्टमीदि{??}। श्रीरामस्य{??}वम्याञ्च शिवरात्रौ पावित्रया। अधोरायाञ्च प्रेतायांचन्द्रसूर्य्योपरागयोः। भृष्टद्रव्यं परित्याज्यं भुज्यते पर-मेव च। ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारि-चाम्। सन्यासिनां च गोमाससुरातुल्यं श्रुतौ श्रुतम्। रक्तशाकं मसूरञ्च जम्बीरं पर्णमेव च। अलाबूर्वर्तुला-{??}रा वर्जनीया यतेरपि। पर्य्यङ्कशायिनी नारी विधवापातयेत् पतिम्। यानस्यारोहणं कृत्वा विधवा नरकंव्रजेत्। न कुर्य्यात् केशसंस्कार गात्रमस्कारमेव च। कशाषली जटारूपा न क्षौरं तीर्थकं विना। तैलाभ्यङ्गंन कुर्वीत न हि पश्यति दर्पणम्। मुखञ्च परपुंसां चयात्रा नृत्यं महोत्सवम्। नर्त्तकं गायकञ्चैव सुवेशंपुरुषं शुभम्”।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधवा¦ f. (-वा) A widow. E. वि privative, धव a husband.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधवा [vidhavā], [विगतो धवो यस्याः सा] A widow; सा नारी विधवा जाता गृहे रोदिति तत्पतिः Subhāṣ. -Comp. -आवेदनम् marrying a widow. -गामिन् m. one who has sexual intercourse with a widow.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधवा f. ( accord. to some fr. वि+ धवSee. 2. धव, p.513) a husbandless woman , widow (also with नारी, योषित्, स्त्रीetc. ) RV. etc.

विधवा f. bereft of a king(a country) R. [ cf. Gk. ? ; Lat. vidua ; Goth. widuwo7 ; Germ. wituwa , witewe , Witwe ; Angl.Sax. wuduwe , widewe ; Eng. widow.]

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIDHAVĀ A : woman whose husband is dead. In ancient India, it was ordained how a widow should live. It was allowed for a widow to get a son by her younger brother-in law to continue the family line in case the death of her husband occurred before the couple had children. The procedure about this is given in Manusmṛti, Chapter 9.

“He who goes to accept the widow with the permission of great people, should besmear his body with ghee and go to her bed in the night in a dark room. She should have only one son in this manner. After she has become pregnant, they should behave to each other as a teacher and a younger brother-in-law.”


_______________________________
*2nd word in right half of page 847 (+offset) in original book.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vidhavā denotes ‘widow’ as the ‘desolate one,’ from the root vidh, ‘be bereft.’ The masculine vidhava is conjectured by Roth[] in a difficult passage of the Rigveda,[] where the received text presents the apparent false concord vidhantaṃ vidhavām, in which he sees a metrical lengthening for vidhavam, ‘the sacrificing widower.’ Ludwig in his version takes vidhantam as equivalent to a feminine, while Delbrück[] prefers ‘the worshipper and the widow.’ Possibly ‘the widower and the widow’ may be meant; but we know nothing of the mythological allusion in question, the feat being one of those attributed to the Aśvins, and the natural reference to Ghoṣā as ‘husbandless’ being rendered unlikely because their feat in regard to her has already been mentioned a few verses before in the same hymn.[] The word Vidhavā is not of common occurrence.[]

  1. St. Petersburg Dictionary, s.v.;
    so also Grassmann.
  2. x. 40, 8.
  3. Die indogermanischen Verwandtschaftsnamen, 443.
  4. x. 40. 5.
  5. Rv. iv. 18, 12;
    x. 40, 2;
    Ṣaḍviṃśa Brāhmaṇa, iii. 7;
    Nirukta, iii. 15.
"https://sa.wiktionary.org/w/index.php?title=विधवा&oldid=504371" इत्यस्माद् प्रतिप्राप्तम्