यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभागः, पुं, (वि + भज + घञ् ।) भागः । अस्य पर्य्यायः अंशशब्दे द्रष्टव्यः ॥ अस्य लक्षणं यथा । “एकदेशोपात्तस्यैव भूहिरण्यादावुत्पन्नस्य स्वत्वस्य विनिगमनाप्रमाणाभावेन वैशेशिक- व्यवहारानर्हतया अव्यवस्थितस्य गुटिकापाता- दिना व्यञ्जनं विभागः । विशेषेण भजनं स्वत्वज्ञापनं वा विभागः ।” इति दायभागः ॥ अपि च । “विभागोऽर्थस्य पित्र्यस्य पुत्त्रैर्यत्र प्रकल्प्यते । दायभाग इति प्रोक्तं तद्विवादपदं बुधैः ॥” इति नारदवचनम् ॥ पूर्ब्बस्वामिस्वत्वोपरमे सम्बन्धाविशेषात् सम्ब- न्धिनां सर्व्वधनप्रसूतस्य स्वत्वस्य गुटिकापाता- दिना प्रादेशिकस्वत्वव्यवस्थापनं विभागः ॥ * ॥ अपि च । कात्यायनः । “जीवद्विभागे तु पिता नैकं पुत्त्रं विशेषयेत् । निर्भाजयेत् न चैवैकमकस्मात् कारणं विना ॥” उक्तकारणशून्ये तु नारदः । “व्याधितः कुपितश्चैव विषयासक्तचेतनः । अयथाशास्त्रकारी च न विभागे पिता प्रभुः ॥” निवृत्तरजस्कायामेव मातरि पितामहधन- विभागमाह बृहस्पतिः । “पित्रोरभावे भ्रातॄणां विभागः संप्रदर्शितः । मातुर्निवृत्ते रजसि जीवतोरपि शस्यते ॥” अन्यच्च । याज्ञवल्क्यः । “विभागश्चेत् पिता कुर्य्यादिच्छया विभजेत् सुतान् । ज्येष्ठं वा श्रेष्ठभागेन सर्व्वेवा स्युः समांशिनः ॥” अपि च देवलः । “अविभक्तविभक्तानां कुल्यानां वसतां सह । भूयो दायविभागः स्यादाचतुर्थादिति स्थितिः ॥” विष्णुः । पितृविभक्ता विभागानन्तरोत्पन्नस्य विभागं दद्युरिति । “गोत्रभागविभागार्थे सन्देहे समुपस्थिते । गोत्रजैश्चापरिज्ञाते कुलं साक्षित्वमर्हति ॥” इति शङ्खवचनम् ॥ इति दायतत्त्वम् ॥ सामान्यधर्म्मावच्छिन्नानामेव बहूनां परस्पर- विरुद्धतद्व्याप्यधर्म्मप्रकारेण प्रतिपादनं हि वि- भागः । इति श्राद्धविवेकटीकायां श्रीकृष्ण- तर्कालङ्कारः ॥ * ॥ न्यायमते चतुर्व्विंशतिगुणान्त- र्गतगुणविशेषः । स त्रिविधः । यथा, -- “शब्दाहेतुर्द्वितीयः स्यात् विभागोऽपि त्रिधा भवेत् । एककर्म्मोद्भवस्त्वाद्यो द्वयकर्म्मोद्भवः परः ॥ विभागजस्तृतीयः स्यात्तृतीयोऽपि द्बिधा भवेत् । हेतुमात्रविभागोत्थहेत्वहेतुविभागजः ॥” इति भाषापरिच्छेदः ॥ * ॥ विभक्तप्रत्ययकारणं विभागं निरूपयति विभाग इति एककर्म्मेति । उदाहरणन्तु । श्येनशैल- विभागादिकं पूर्व्ववत् बोध्यं तृतीयो विभागजः कारणमात्रविभागजन्यः कारणाकारणविभाग- जन्यश्चेति आद्यस्तावत् यत्र कपालकर्म्म ततः कपालद्वयविभागस्ततो घटारम्भकसंयोगनाश- स्ततो घटनाशः ततस्तेन एककपालविभागेन सकर्म्मणः कपालस्य देशान्तरविभागो जन्यते तत उत्तरदेशसंयोगः ततः कर्म्मनाश इति । न च तेन कर्म्मणैव कथं देशान्तरविभागो न जन्यते इति वाच्यं एकस्य कर्म्मण आरम्भक- संयोगप्रतिद्बन्द्विविभागजनकत्वस्यानारम्भकसं- योगप्रतिबन्धिविभागजनकत्वविरोधात् अन्यथा विकसत्कमलकुट्मलभङ्गप्रसङ्गात् तस्माद्यदीदं अनारम्भकसंयोगप्रतिद्वन्द्बिविभागं जनयेत्तदा आरम्भकसंयोगप्रतिबन्धिविभागं न जनयेत् । न च कारणविभागेनैव द्रव्यनाशात् पूर्व्वं कुतो देशान्तरविभागो न जन्यते इति वाच्यं आर- म्भकसंयोगप्रतिबन्धिविभागवतः अवयवस्य सति द्रव्ये देशान्तरविभागासम्भवात् यत्र हस्त- क्रियया हस्ततरुविभागः ततः शरीरेऽपि विभक्तप्रत्ययो भवति तत्र च शरीरतरुविभागे हस्तक्रिया न कारणं व्यधिकरणत्वात् शरीरे तु क्रिया नास्ति अवयविकर्म्मणो यावदवयवकर्म्म- नियतत्वात् । अतस्तत्र कारणाकारणविभागेन कार्य्याकार्य्यविभागो जन्यते इति अतएव विभागो गुणान्तरं अन्यथा शरीरे विभक्ताविभक्त- प्रत्ययो न स्यात् अतः संयोगनाशेन विभागो नान्यथासिद्धो भवति । इति सिद्धान्तमुक्ता- वली ॥ (“सामान्यधर्म्मावच्छिन्नानामेव वस्तूनां परस्परविरुद्धतद्व्याप्यधर्म्मप्रकारेण प्रतिपाद- नम् ॥” यथा द्रव्यत्वधर्म्मावच्छिन्नानां क्षित्या- दीनां परस्परविरुद्धेन क्षितित्वजलत्वादिना अथ द्रव्यत्वव्याप्येन विशेषेण तथा प्रतिपादनं नवधा द्रव्यविभागः ॥ यागः । यथा, ऋग्वेदे । ५ । ७७ । ४ । “यो भूयिष्ठं नासत्याभ्यां विवेष च निष्ठं पित्त- ररते विभागे ।” “यो यजमानो विभागे हविर्व्विभागवति यागे ।” इति तद्भाष्ये सायणः ॥”)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभाग¦ पु॰ वि + भज--भावे घञ्।

१ भागे पूर्वस्वामिस्वत्वना-शोत्तरं तत्सम्बन्धाधोनजातस्वत्वस्य

२ व्यञ्जले व्यापारभेदेदायभागादि। सामान्यधर्मयुतानां{??}डनां परस्परविरु-{??}तद्व्याप्यधर्म प्रकारेणा

५ प्रतिपादने श्रीकृष्णः। वैशे-मिकोक्ते

४ गुणभेदे तल्लक्षणविभागादि कणा॰ सू॰। वृ॰दर्शितं यथा
“एतेन विभागो व्याख्यातः” कणा॰ सू॰।
“विभागेसंयोगोत्पत्तिप्रकारमतिदिश{??}ह संयोगवद्विमागो-ऽप्यन्यतरकर्मज

१ उभयकर्मजो

२ विभागज{??}

३ श्येनकर्म-णास्थाणुश्येनविभागः

१ संयुक्तवोर्मल्वयोर्मे{??}योर्वा कर्मम्यांतदुभयविभागः

२ सचायं कर्मो{??}त्त्यव्यहितचाणोत्पत्तिकःअपेक्षणीयान्तराभावात तदुक्तं
“संयोगविमागयोरन-पेक्षकारणं कर्म इति विभागे जननीये{??}मयः” सं-[Page4914-a+ 38] योगे च जननीये पूर्वसंयोगनाशश्चापेक्षणीय इति चेन्नस्वोत्पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षत्वस्य कर्मणो निर-पेक्षत्वात्। विभागज

३ स्तु विभागो द्विविधः कारणमात्रविभागजकारणाकारणविभाग

१ भदात् कारणाकारण-विभागजकार्य्याकार्य्यविभाग

२ भेदाच्च तत्र कारणमात्रविभागात् कारणाकारणावभागो यथा कपालद्वयविभा-गात् कपालाकाशविभागः

१ कारणाकारणविभागाच्चकार्य्याकार्य्यविभागो

२ यथाऽङ्गुलीतरुविभागाद्धस्ततरुवि-भागस्ततः शरीरतरुविभाग इति। ननु विभान एव-न प्रमाणं संयोगाभाव एव विभागव्यवहारादिति चेन्नसंयोगाभावोऽत्यन्ताभावश्चेत् गुणकर्मणोरपि विभागव्यव-हारप्रसङ्गात् द्रव्ययोर्वर्त्तमानः संयोगात्यन्ताभावो वि-भक्तप्रत्ययहेतुरिति चेन्नाबयवायवविनोरपि प्रसङ्गात्अकार्य्यकारणभूतयोर्द्रव्ययोरिति चेत् यिन्ध्यहिमवतो-रपि स्यात् भ्वत्येव तत्रेति चेन्न भ्रान्तस्य गुणकर्मणो-रपि भावात् अभ्रान्तमधिकृत्य व्यवहारस्य चिन्त्यमानत्वात्संयोगविनाशा विभाग इति चेत् एकतरसंयोगिनाशेननष्टे संयोगे तद्व्यवहारप्रसङ्गात् संयोगिनोर्विद्यमान-योरिति चेत् एकसंयोगनाशानन्तरं पुनः संयुक्तयोःकुवलामलकयोः संयोगदशायामपि विभक्तप्रत्ययप्रसङ्गात्यावत्संयोगनाशस्तथेति चिदेकसंयोगनाशे तदभाव-प्रसङ्गात् तत्र यावदर्थाभावात्। तस्मादस्ति विभागोऽर्थान्तरम् स च गुणः विरोधिगुणान्तरनाश्यः विरोधिनंसमानाधिकरणं गुणमन्तरेण सत्याश्रये गुणनाशानुपपंत्तेःकमव संयोगनाशकं स्यादिति चेन्न विरोधिनो गुणस्यगुणनाशकत्वात्। किञ्च यत्राङ्गुलीहस्तभुजशरीराणांस्वस्वकर्मणा तरुसंयोगस्तत्राङ्गुलीमात्रे समुत्पन्नेन वर्म-णाऽङ्गुलीतरुसंयोगनाशसम्भवेऽपि हस्ततरुमुजतरुशरीर-तरुर्सयोगानामनाशप्रसङ्गात् हस्तादीनामक्रियत्वात् अ-ङ्गुलीकर्मणश्च व्याधकरणत्वात् व्यधिकरणस्यापि कर्मणःसंयोगनाशकत्वे क्वचिदप्युत्पन्नेन कर्मणा युगपदेव सर्व-संयोगनाशापत्तः। त्वन्मते तत्र का गतिरिति चेत् अङ्गुलोतरुविभागेन जनिती हस्ततरुविभागो हस्ततरुसंयोग-नाशक इत्यभ्युपगमात्। व्यधिकरणेनाङ्गुलीकर्मणैव ह-स्ततरुसंयोगनाशोऽस्तु न चातिप्रसङ्गः आश्रयाश्रितपरम्परासंयोगस्यैव व्यधिकरणकर्मनाष्ट्यत्वाभ्युपगमा-दिति सर्वज्ञेन यदुक्तं तदपि न युक्तं विरोधिनः स-मानाधिकरणस्यैव सर्वत्र नाशक{??}नुभवा{??} वाधकमन्यरेण[Page4914-b+ 38] तत्परित्यागामुपपत्तेः। शब्दविभागौ च विभागकाव्यौतत्र विभागस्य शब्दासमबायिकारणत्वं न मृष्यामहे न हिवंशे पाट्यमाने दले च चरणयन्त्रणाबष्टब्धे दला-न्तरे चोपरिकृष्यमाणे यः शब्दोजायते तत्र दलाकाश-विभागादन्य दसमवायिकारणं पश्यामः। न च दवदहनदह्यमानस्फुटद्वेणुचीत्कारे विभागातिरिक्तमसमवा-यिकारणं पश्यामः। कारणाकारणविभागाच्च कार्य्या-कार्य्यविभागमनुमन्यामहे कथमन्यथा स्वस्वकर्मजनिताङ्गु-लीतरुसंयोगभुजतरुसंयोगशरीरतरुसंयोगानामङ्गुलीमा-त्रोत्पन्नकर्मणाऽङ्गुलीतरुविभागे सति अङ्गुलीतरुसंयोम-नाशे सत्यपि हस्ततरुसंयोगादीनां नाशः तत्र हिविभागजविभागपरम्परैव तत्तत्संयोगनाशिकेत्युक्तत्वात्कारणद्वयविभागपूर्वके तु कारणाकारणविभागे न संप्र-त्ययः यतोवंशदले यदुत्पन्नं कर्म तेन दलान्तरविभाग-वदाकाशादिविभागस्यापि जननसम्भवात् यावद्भिः समंतद्दलं संयुक्तमासीत् तावद्भिस्तत्कर्मणा विभागस्य दर्श-नात् नह्यङ्गुल्य सुत्पन्नेन कर्मणाऽङ्गुल्यन्तरावभागवदा-काशादिदेशेभ्योऽपि विभागा न जन्यन्ते। कमकलदलेचोत्पन्नेन कर्मणा दलान्तरविभागवदाकाशादिदेशेभ्योवा न विभागा आरभ्यन्ते द्रव्यारम्भकसंयोगाविरोधिनःशतमपि विभामानेकं कर्मारमताम्। यत्तु कर्म द्रव्यार-म्भकसंयोगविरोधिनं विभागमारभते न तत् द्रव्यारम्भक-सयोगाविरोधिनमपि यच्च द्रव्यारम्भकसयोगाविरोधिनंतद् द्रव्यारम्भकसंयोविरोधिनमिति व्रूमः। कुत एतदितिचेत् कार्य्यवैचित्र्येण कारणवैचित्र्यस्यावश्यकत्वात्। ननुकर्मणि वैचित्र्यमावश्यकं तथाचैकं कर्म द्रव्यारम्भकसं-योगविरोधिनं विभागं जनयतु यथा विकसत् कमल-कुद्मलादावपरञ्च द्रव्यारम्भकसंयोगविरोधिनमविरोधिन-ञ्चोभयमिति मैवं कार्य्यविरोधो हि कारणवैचित्र्यकल्प-नामूलं स च विरोघः एकस्य द्रव्यारम्भकसंयोगप्रतिद्वणि-त्वेन अपरस्य तु तदप्रतिद्वन्द्वित्वेनेति तथैव वैचित्र्यस्यापिकल्पनौचित्यात् तच्चेदं वशदले वर्त्तमानं कर्म दलद्वयवि-भागमात्रं जनयति स च विभागोऽग्रे आकाशादिदेशाद्वि-भागं द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विनं विभागमारभते तस्यच निरपेक्षस्य विभागजनने कर्मत्वापत्तिरिति द्रव्यनाशवि-शिष्टं कालमपेक्षते। ननु तदानीमपि कर्मैव तज्जनयतुअतीतकालत्वात् विभागजनने कर्मण स्वोत्पत्त्यमन्तरएव काले नत्वेवं विभागेन जनिते विभागान्तरे कर्म[Page4915-a+ 38] प्रदेशान्तरसंयोगमपि न जनयेत्, न संयोगजननं प्रति-कर्मणोऽनतीतकालत्वात् अन्यथा कर्म न नश्येदेव तस्यो-त्तरसंयोगमात्रनाश्यत्वात्। सोऽयं विभाग उत्तरसंयोगनाश्यः क्षणत्रयस्थायी क्वचिदाश्रयनाशनाश्यः तद्-यथा तन्तोरवयवेऽंशौ कर्म तदनन्तरमंशुद्वयविभागस्तदैव{??}न्त्वन्तरे कर्म ततोऽंशुद्वयविभागेन{??}न्त्वारम्भकसंयोग-नाशस्तन्तुकर्मणा च विभागस्ततो द्रव्यारम्भकसंयोगना-शात्तन्तुकर्मणो नाशस्तन्नाशाच्च तन्त्वन्तरकर्मजन्यविभाग-नाशः। नन्वेवं तन्त्वन्तरोत्पन्नस्य कर्मणो न नाशः स्या-द्विनाशकाभावात्, उत्तरसंयोगेन हि तन्नाश्येत विभागेच नष्टे नोत्तरसंयोग इति चेन्न तन्तौ यत् कर्मो-त्पन्नं तेन यथा विनश्यदवस्थतन्तोर्विभागो जनि-तस्तथा तदंशोरपि विभागो जननीयः सोऽप्यार-म्भकसंयोगविरोध्येव तेनांशुतन्तुविमागेन तन्त्वाकाश-विभागस्ते न चोत्तरसयोगस्तेन ततः कर्मनाशः। यद्वा-यत्र तन्तौ यदा कर्म तदांशावपिं तदैव कर्म तच्च कर्म-विनश्यद{??}स्थतन्तुतदवयवाकाशादिदेशाद्युगपदेव विभा-गानारभते सर्वेषां विभागानामारम्भकसंयोगविरोधि-त्वात् तथा च कारणसंशुरकारणञ्चाकाशादि तद्विभागात्कार्य्यस्य तन्तोरकार्य्येणाकाशादिना यो विभाग उत्पन्न-स्तदन न्तरोत्पत्तिकेन संयोगेन तन्तुसमवेतस्य कर्मणोविनाश इति। क्वचिद्द्वाभ्यां तद् यथा तन्तुवीरणयोःसंयोगे सति तन्त्ववयवेऽंशौ कर्म वीरणे च कर्मेत्येकःकालः अंशुकर्मणाऽंश्वन्तरविभागस्तेन च संयोगस्यतन्त्वारम्भकस्य विनाशः वीरणकर्मणा च तन्तुवीरण-विभागस्तन्तुवीरणसंयोगनाशश्च तन्त्वारम्भकसंयोगनाशा-नन्तरं तन्तुनाशस्तन्तुवीरणसंयोगनाशानन्तरं वीरणस्यप्रदेशान्तरसंयोगस्ताभ्यामाश्रयनाशसंयोगाभ्यां विभाग-नाशः” उप॰ वृत्तिः। कर्मणि घञ्।

५ अंशे खण्डे च।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभाग¦ m. (-गः)
1. Part, portion, share.
2. The share or portion of an inheritance.
3. Partition of inheritance.
4. (In arithmetic.) The numerator of a fraction.
5. Separation, disjunction, (considered as a Gun4a in Nya4ya Phil. E. वि implying variously, भाग a portion.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभागः [vibhāgḥ], 1 Division, partition, apportionment (as of inheritance); समस्तत्र विभागः स्यात् Ms.9.12,21; Y. 2.114.

The share of an inheritance.

A part or share in general.

Division, separation, disjunction (regarded in Nyāya phil. as a Guṇa); Ku.2.4; तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः Bg.3.28.

The numerator of a fraction.

A section.

Arrangement.-Comp. -कल्पना, -भावना allotment of shares; विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः Y.2.149. -धर्मः the law of inheritance; Ms.1.115. -पत्रिका a deed of partition.-भाज् m. one who shares in a property already distributed; विभक्तेषु सुतो जातः सवर्णायां विभागभाक् Y.2.122.-रेखा partition-line, boundary between.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभाग/ वि-भाग m. distribution , apportionment RV. AitBr.

विभाग/ वि-भाग m. partition of patrimony , law of inheritance (one of the 18 titles or branches of law) Mn. Ya1jn5. etc. (See. IW. 261 )

विभाग/ वि-भाग m. a share , portion , section , constituent part of anything Ya1jn5. MBh. etc.

विभाग/ वि-भाग m. division , separation , distinction , difference Nir. Gr2S3rS. etc. ( एन, separately , singly , in detail ; See. also योग-व्)

विभाग/ वि-भाग m. disjunction ( opp. to सं-योगand regarded in न्यायas one of the 24 गुणs) IW. 68

विभाग/ वि-भाग m. (in arithm. ) the numerator of a fraction Col.

विभाग/ वि-भाग m. N. of शिवR.

विभाग/ वि-भाग m. ( ifc. )according to BhP.

"https://sa.wiktionary.org/w/index.php?title=विभाग&oldid=504417" इत्यस्माद् प्रतिप्राप्तम्