यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराट्, [ज्] पुं, (विशेषेण राजते इति । राज दीप्तौ + क्विप् ।) क्षत्त्रियः । इत्यमरः ॥ स्थूल- शरीरसमष्ट्युपहितचैतन्यम् । इति वेदान्त- सारः ॥ * ॥ (ब्रह्मणो विराड्मूर्त्तिवर्णनं यथा, शङ्करविजये ६ प्रकरणे । “व्यूहमूर्त्तिर्विराट् चतुर्द्दशलोकात्मकः । तस्य ब्रह्माण्डकर्परपर्य्यन्त- माकाशः शिरः, चन्द्रसूर्य्यौ नेत्रे, प्रागादिदिशः श्रोत्रे, अन्तरीक्षलोको घ्राणं, मेरुः पृष्ठवंशः, शिखरत्रयं भुजकण्ठाः, प्रत्यन्तपर्वताः पृष्ठपार्श्व- वक्षांसि, उपपर्वताः शाल्मल्यादीनि, समुद्रा रक्तं, लता स्नायूनि, तृणवृक्षाः रोमाणि, भूमिः कुक्षिः, द्वीपा वलयः, भूरेखा रोमराजिः, भूमध्यप्रदेशो वस्तिः, शेषः शिश्नं, दिग्दन्ति- पङ्क्तिर्नितम्बोरुभागः, अतलादिसप्तकं कटि- पादान्तरालः, कूर्म्मः पादौ इति ॥” * ॥) महा- विराजुत्पत्तिर्यथा, -- श्रीनारायण उवाच । “अथ डिम्बो जले तिष्ठन् यावद्वै ब्रह्मणो वयः । ततः स काले सहसा द्विधा भूतो बभूव ह ॥ तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः । क्षणं रोरूयमानश्च स्तनन्धः पीडितः क्षुधा ॥ पितृमातृपरित्यक्तो जलमध्ये निराश्रयः । ब्रह्माण्डसंघनाथो यो ददर्शोर्द्ध्वमनाथवत् ॥ स्थूलात् स्थूलतमः सोऽपि नाम्ना देवो महा- विराट् । परमाणुर्यथा सूक्ष्मात् परः स्थूलात्तथाप्यसौ ॥ तेजसा षोडशांशो यः कृष्णस्य परमात्मनः । आधारोऽसंख्यविश्वानां महान् विष्णुश्च प्राकृतः । प्रत्येकं लोमकूपेषु विश्वानि निखिलानि च । तस्यापि तेषां संख्याञ्च कृष्णो वक्तुं न हि क्षमः ॥ संख्या चेद्रजसाभस्ति विश्वानां न कदाचन । ब्रह्मविष्णुशिवादीनां तथा संख्या न विद्यते ॥ प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः । पातालाद्ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्त्तितम् ॥ अत ऊर्द्ध्वे च वैकुण्ठो ब्रह्माण्डाद्वहिरेव च । स च सत्यस्वरूपश्च शश्वन्नारायणो यथा ॥ अत ऊर्द्ध्वञ्च गोलोकः पञ्चाशत्कोटियोजनात् । स्वर्गं मर्त्यञ्च पातालं त्रिलोकं सचराचरम् । एवं सर्व्वं लोमकूपे विश्वं प्रत्येकमेव च ॥ प्रतिविश्वे क्षुद्रविराट् ब्रह्मविष्णुशिवादयः । इत्येवं कथितं वत्स श्रीकृष्णकीर्त्तनं परम् ॥ सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३ अध्यायः ॥ स्वायम्भुवमनुः । यथा, -- “गतेषु तेषु सृष्ट्यर्थं प्रणामावनतामिमाम् । उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् ॥ सम्बभूव तया सार्द्धमतिकामातुरो विभुः । सलज्जां चकमे देवः कमलोदरमन्दिरे ॥ यावदन्दशतं दिव्यं यथान्यः प्राकृतो जनः । ततः कालेन महता ततः पुत्त्रोऽभवन्मनुः ॥ स्वायम्भुव इति ख्यातः स विराडिति नः श्रुतम् । तद्रूपगुणसामान्यादधिपूरुष उच्यते ॥ वैराजा यत्र ते जाता बहवः शंसितव्रताः । स्वायम्भुवा महाभागा सप्त सप्त तथापरे ॥ स्वारोचिषाद्या सर्व्वे ते ब्रह्मतुल्याः स्वरूपिणः । औत्तमिप्रमुखास्तद्वद्येषां त्वं सप्तमोऽधुना ॥” इति मात्स्ये ३ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराज् पुं।

क्षत्रियः

समानार्थक:मूर्धाभिषिक्त,राजन्य,बाहुज,क्षत्रिय,विराज्,राजन्,नाभि

2।8।1।1।5

मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्. राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥

पत्नी : क्षत्रियपत्नी

 : राजा

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराज्¦ पु॰ विशषेण राजते क्विप्।

१ क्षत्रिये ब्रह्माण्डा-त्मकस्थूलदेहाभिमानिनि

२ आदिपुरुषे

३ छन्दोभेदे च। वेदे द्वाभ्यामक्षराभ्यां गायत्र्यादीनां समष्टावधिकत्वे विराट्छन्दो भवति छन्दःशब्दे

२९

७८ पृ॰ कात्यायनवाक्यं दृ-श्यम्।
“समष्टिरूपस्थूलशरीराभिमानी चेतनः विराट्-संज्ञो वेदान्तादौ प्रसिद्धः तस्योत्पत्तिः तद्रूपञ्च भागव-तादौ दृश्यम्। अच्। विराजोऽपि समष्टिस्थूलाभिमा-निनि चेतने।

४ स्वायम्भवमनौ च।
“ततः कालेन महतातस्य पुत्रोऽभवन्मनुः। स्वायम्भुव इति ख्यातः सविवाडितिः नः श्रुतम्” मत्स्यपु॰

३ अ॰।
“मानवे तु स्वाय-म्भुवस्य विराट्पुत्रत्वमभिहितम्। यथा
“द्विधा कृत्वा-त्मनो देहमर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी नाभ्यांस विराजमसृजत् प्रभुः। तपस्त्वप्त्वाऽसृजद् यन्तु सस्वयं पुरुषो विराट्। तं मां वित्तास्य सर्वस्य स्वष्टारंद्विजसत्तमाः!”।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराज् [virāj], 1 U.

To shine, glitter; शाखिनो$न्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः Bv.1.88.

To appear or look like; तदन्तरे सा विरराज धेनुः R 2.2.

To be eminent or illustrious. -Caus. To brighten, illuminate, irradiate.

विराज् [virāj], a.

Splendid, excellent; मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनाम् Bhāg.1.43.17.

A ruler, chief. -m.

Beauty, splendour.

A man of the Kṣatriya or warrior tribe; विराडायुषो$र्घमथात्यगात् Bhāg.4.27.6.

The first progeny of Brahman; cf. Ms.1.32; तस्मात् विराडजायत Ṛv.1.9.5 (where विराज् is represented as born from Puruṣa.)

The body.

(In Vedānta phil.) N. of 'intellect' considered as ruling over the aggregate of bodies.

The universe (ब्रह्माण्ड); नानावीर्याः पृथग्भूता विराजं जनयन्ति हि Bhāg.1.3.15. f.

N. of a Vedic metre.

Excellence, dignity. -Comp. -सुतः (विराट्सुतः)) a class of deceased ancestors; विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः Ms. 3.195.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराज्/ वि--राज् m. (for 2. See. s.v. )king of birds BhP.

विराज्/ वि- P. A1. -राजति, ते, to reign , rule , govern , master( gen. or acc. ) , excel( abl. ) RV. AV. Br. ; to be illustrious or eminent , shine forth , shine out( abl. ) , glitter ChUp. Mn. MBh. etc. ; to appear as( nom. ) MBh. : Caus. -राजयति, (rarely ते)cause to shine forth , give radiance or lustre , brighten , illuminate MBh. R. etc.

विराज्/ वि-राज् mfn. (for 1. See. p. 949 , col. 3) ruling far and wide , sovereign , excellent , splendid RV.

विराज्/ वि-राज् mfn. a ruler , chief. king or queen (applied to अग्नि, सरस्वती, the Sun etc. ) ib. AV. VS. Br. MBh.

विराज्/ वि-राज् f. excellence , pre-eminence , high rank , dignity , majesty TS. Br. S3rS.

विराज्/ वि-राज् mf. the first progeny of ब्रह्मा(according to Mn. i , 32 etc. , ब्रह्माhaving divided his own substance into male and female , produced from the female the male power विराज्, who then produced the first मनुor मनुस्वायम्भुव, who then created the ten प्रजा-पतिs ; the BhP. states that the male half of ब्रह्माwas मनु, and the other half शत-रूपा, and does not allude to the intervention of विराज्; other पुराणs describe the union of शत-रूपाwith विराज्or पुरुषin the first instance , and with मनुin the second ; विराज्as a sort of secondary creator , is sometimes identified with प्रजा-पति, ब्रह्मा, अग्नि, पुरुष, and later with विष्णुor कृष्ण, while in RV. x , 90 , he is represented as born from पुरुष, and पुरुषfrom him ; in the AV. viii , 10 , 24 ; xi , 8 , 30 , विराज्is spoken of as a female , and regarded as a cow ; being elsewhere , however , identified with प्रा-ण) IW. 22 etc.

विराज्/ वि-राज् m. (in वेदान्त) N. of the Supreme Intellect located in a supposed aggregate of gross bodies(= वैश्वानर, q. v.) , वेदान्तs.

विराज्/ वि-राज् m. a warrior(= क्षत्रिय) MBh. BhP.

विराज्/ वि-राज् m. the body MW.

विराज्/ वि-राज् m. a partic. एका-हPan5cavBr. Vait.

विराज्/ वि-राज् m. N. of a son of प्रिय-व्रतand काम्याHariv.

विराज्/ वि-राज् m. of a son of नरVP.

विराज्/ वि-राज् m. of बुद्धL.

विराज्/ वि-राज् m. of a son of राधाMW.

विराज्/ वि-राज् m. of a district ib.

विराज्/ वि-राज् f. a particular Vedic metre consisting of four पादs of ten syllables each (and therefore also a symbolical N. of the number " ten " ; in RV. x , 130 , 5 this metre is represented as attaching itself to मित्रand वरुण, and in AitBr. i , 4 विराज्is mystically regarded as " food " , and invocations are directed to be made in this metre when food is the especial object of prayer ; in prosody विराज्is applied to any metre defective by two syllables RPra1t. )

विराज्/ वि-राज् f. pl. N. of partic. bricks (40 in number) VS. S3Br.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराज् न.
स्विष्टकृत् के लिए ‘पुरोनुवाक्या’ के रूप में ‘पे्रद्धो अगन्े------’ एवं याज्या के रूप में ‘इमो अगन्े-----’ के प्रयोग के लिए पारिभाषिक नाम (मै.सं. 4.1०.1); मा.श्रौ.सू. 5.1.1.39; आप.श्रौ.सू. 2.1.3०; का.श्रौ.सू. 5.13.2; एक वैदिक छन्द का नाम जिसमें चार पाद एवं प्रत्येक पाद में 1० अक्षर होते हैं, द्रा.श्रौ.सू. 27.5.3।

"https://sa.wiktionary.org/w/index.php?title=विराज्&oldid=504451" इत्यस्माद् प्रतिप्राप्तम्