यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरुद्धः, त्रि, (वि + रुध + क्तः ।) विरोधविशिष्टः । यथा । विरुद्धधर्म्मसमवाये भूयसां स्यात् सधर्म्मकत्वम् । इति जैमिनीसूत्रम् ॥ “विरुद्धं गुरुवाक्यस्य यदत्र भाषितं मया । तत् क्षन्तव्यं बुधैरेव स्मृतितत्त्वबुभुत्सया ॥ स्मृतितत्त्वे प्रमादाद्यद्विरुद्धं बहुभाषितम् । गुणलेशानुरागेण तच्छोध्यं धर्म्मदर्शिभिः ॥” इति तिथ्यादितत्त्वम् ॥ (दशममनोर्ब्रह्मसावर्णेः देवतान्यतमः । यथा, भागवते । ८ । १३ । २२ । “हविष्मान् सुकृतः सत्यो जयो मूर्त्तिस्तदा द्विजाः । सुवासना विरुद्धाद्या देवाः शम्भुः सुरेश्वरः ॥” क्ली, विचाराङ्गीयदोषविशेषः । यथा । “विरुद्धं नाम यद्दृष्टान्तसिद्धान्तसमयैर्विरुद्धं तत्र दृष्टान्तसिद्धान्तावुक्तौ । समयः पुनर्यथायुर्वेदिक समयो याज्ञियसमयो मोक्षशास्त्रिकसमय इति । तत्रायुर्व्वेदिकसमयः चतुष्पादसिद्धिः । आलभ्या पशव इति याज्ञियसमयः । सर्व्वभूतेष्वहिंसेति मोक्षशास्त्रिकसमयस्तत्र स्वसमयविपरीतमुच्य- मानं विरुद्धमिति ॥” इति चरके विमान- स्थानेऽष्टमेऽध्याये ॥)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरुद्ध¦ त्रि॰ वि + रुध--क्त। विरोधयुक्ते

२ हेत्वाभासभेदे
“अनैकान्तो विरुद्धश्चेत्याद्रिना विभज्य
“यः साध्यवति नै-यास्ति स विरुद्ध उदाहृतः” भाषा॰ लक्षितः।
“एवकारेणसाध्यवत्त्वावच्छेदेन हेत्वभाव इति सूचितम् तथा{??}साध्यव्यापकाभावप्रतियागित्वं तदर्थः सि॰ मुक्ता॰” गातम



४७ सू॰ अन्यथा लाक्षता यथा
“सिद्धान्तमभ्युपेत्य[Page4918-a+ 38] तद्विरोधी विरुद्धः”
“तं (सिद्धान्तं) विरुणद्धीति तद्वि-रोधी अभ्युपगतं सिद्धान्तं व्याहन्तीति। यथा सोऽयंविकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात् अपेतोऽप्यस्तिविनाशप्रतिषेधात् न नित्यो विकार उपपद्यते इत्येवहेतुव्यक्तेरपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तेनविरुध्यते। कथं? व्यक्तिरात्मलाभः अपायः प्रच्युतिःयद्यात्मलाभात् प्रच्युतो विकारोऽस्ति नित्यत्वप्रतिषेधीनीपपद्यते यत् व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत्खलु नित्यत्वमिति। नित्यत्वप्रतिषेधो नाम विका-रस्यात्मलाभप्रच्युतेरुपपत्तिः। यद् आत्मलाभात्प्रच्यवते तदनित्यं दृष्टं यदस्ति न तदात्मलाभात् प्रच्य-वते। अस्तित्वं चात्मलाभात् प्रच्युतिरिति तद्विरद्धावेतौ न सह सम्भवतः। स चाय हेतुर्यत्सिद्धान्तमाश्रित्यप्रवर्त्तते तमेव व्याहन्तीति” वा॰ भा॰। वृत्तौ त्विदमन्यथा व्याख्यातं यथा
“क्रमप्राप्तं विरुद्धंलक्षयति सिद्धान्तमिति अत्र च सिद्धान्तं साध्यं प्रति-ज्ञायां हि सिद्धस्य पक्षस्यान्ते साध्यमभिधीयते तथा चसाध्यमभ्युपेत्य उद्दिश्य प्रयुक्तस्तद्विरोधी साध्याभाव-व्याप्त इति फलितार्थः। यथा वह्निमान् ह्रदत्वादिति। एतस्य साध्याभावानुमितिसामग्रीत्वेन साध्यानुमितिप्रतिबन्धो दूषकतावीजम्। न च सत्प्रतिपक्षाविशेषःतत्र हेत्वन्तरं साध्याभावसाधकम्। इह तु हेतुरेवसाध्याभावसाधकः साध्यसाधकत्वेन त्वयोपन्यस्त इत्य-शक्तिविशेषोन्नायकत्वेन विशेषात्”। इदञ्च नासङ्कीर्ण-विरुद्धोदाहरणम् व्यमिचारादेः सत्त्वात्। किन्तु उपाधेय-सङ्कुरेऽप्युपाधेरसङ्करादित्युक्तेरस्य दूषकतावीजसत्त्वा-च्चोदाहरणत्वं वोध्यम्।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरुद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Opposed, hindered.
2. Reverse, contrary, oppo- site.
3. Inconsistent, (in argument,) incongruous, a nonsequitur.
4. Opposed in quality. as sweet with sour, &c.
5. Disagreeing with each other, (as articles of medicine or food.)
6. Hostile, ad- verse.
7. Excluded, disqualified.
8. Surrounded, blockaded.
9. Proving the reverse, as a He4tu, (in logic.) E. वि before रुध् to stop, aff. क्त |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरुद्ध [viruddha], p. p.

Hindered, checked, opposed, obstructed.

Blocked up, confined or shut up.

Besieged, blockaded.

Opposed to, inconsistent with, incongruous, inconsistent.

Contrary, opposite, opposed in quality.

Contradictory, proving the reverse, (as a hetu in Logic); साध्याभावव्याप्तो हेतुर्विरुद्धः Tarka K.; e. g. शब्दो नित्यः कृतकत्वात् T. S.

Hostile, adverse, inimical.

Unfavourable, unpropitious.

Prohibited, forbidden (as food).

Wrong, unfawful, improper.

Excluded.

Uncertain, doubtful.

द्धम् Opposition, contrariety, hostility; स्वर्गे निवासे राजेन्द्र विरुद्धं चापि नश्यति Mb.18.1.11.

Discord, disagreement. -Comp. -धी a. Evil-minded, wicked.-भोजनम् Unwholesome meal. -मतिकृत् m. a fault or defect in composition; विपरीतार्थधीर्यस्मात् विरुद्धमतिकृन्मतम्.-रूपकम् a figure of speech in which an object compared to another object is not quite similar; अक्रिया चन्द्रकार्याणामन्यकार्यस्य च क्रिया । अत्र सन्दिश्यते यस्माद्विरुद्धं नाम रूपकम् ॥ Kāv.2.84.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरुद्ध/ वि-रुद्ध mfn. opposed , hindered , restrained , arrested , kept back R. Ka1lid. etc.

विरुद्ध/ वि-रुद्ध mfn. surrounded , blockaded W.

विरुद्ध/ वि-रुद्ध mfn. forbidden , prohibited Mn. MBh. etc.

विरुद्ध/ वि-रुद्ध mfn. doubtful , uncertain , precarious , dangerous MBh. R.

विरुद्ध/ वि-रुद्ध mfn. hostile , adverse , at variance or at enmity with( instr. gen. , or comp. ) MBh. Ka1v. etc.

विरुद्ध/ वि-रुद्ध mfn. unpleasant , disagreeable , odious or hateful to( comp. ) R. Katha1s.

विरुद्ध/ वि-रुद्ध mfn. disagreeing (as food) Bhpr.

विरुद्ध/ वि-रुद्ध mfn. contrary , repugnant , contrasted , reverse , inconsistent or incompatible with , excluded from( gen. instr. , or comp. ) Ka1tyS3r. Mn. MBh. etc.

विरुद्ध/ वि-रुद्ध m. pl. N. of a class of gods under the tenth मनुPur.

विरुद्ध/ वि-रुद्ध n. opposition , hostility , repugnance MW.

विरुद्ध/ वि-रुद्ध n. ( scil. रूपक)a figure of speech in which an object compared to another object is said to lack its functions and to possess others not properly belonging to it( e.g. " the moon of thy face does not rise in the sky , but only takes away my life ") Ka1vya7d. ii , 84

विरुद्ध/ वि-रुद्ध n. N. of wk. on न्याय

"https://sa.wiktionary.org/w/index.php?title=विरुद्ध&oldid=504457" इत्यस्माद् प्रतिप्राप्तम्