"ई" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
 
अर्थनिवेशः
पङ्क्तिः ७:
 
ई दीर्घ ईकारः । चतुर्थस्वरवर्णः । अस्योच्चारणस्थानं तालु । (स च दीर्घः द्विमात्रत्वात् त्रिमात्राश्रय- त्वात् प्लुतश्च भवति ।) (विस्तृतिस्त ह्रस्वैकारे द्रष्टव्या ।) “ईकारं परमेशानि स्वयं परमकुण्डली । ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं सदा ॥ पञ्चदेवमयं वर्णं पीतविद्युल्लताकृतिम् । चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा” ॥ इति कामधेनुतन्त्रम् । (वङ्गीयभाषायां ।) तस्य लेखनप्रकारो यथा । “ऊर्द्ध्वाधः कुञ्चिता मध्ये त्रिकोणाधोगता पुनः । अधोगता कोणशीर्षा कुञ्चिता दक्षतः शुभा ॥ शीर्षाद्दक्षे कोणयुता कुञ्चितोर्द्ध्वगता पुनः । चन्द्रसूर्य्याग्निरूपा सा मात्राशक्तिः प्रकीर्त्तिता” ॥ इति वर्णेद्धारतन्त्रम ॥ * ॥ अस्य नामानि यथा, -- “ई स्त्रीमूत्तिर्म्महामाया लोलाक्षी वामलोचनम् । गोविन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः ॥ विष्णुर्लक्ष्मीः प्रहासश्च वाग्विशुद्धः परापरः । कालोत्तरीयो भेरुण्डा रतिश्च पौण्ड्रवर्द्धनः ॥ शिवोत्तमः शिवा तुष्टिश्चतुर्थी विन्दुमालिनी । वैष्णवी वैन्दवी जिह्वा कामकला सनादका ॥ पावकः कोटरः कीर्त्तिर्मोहनी कालकारिका ॥ कुचद्वन्द्वं तर्ज्जनी च शान्तिस्त्रिपुरसुन्दरी” ॥ इति तन्त्रोक्तवर्णाभिधानम् ॥ (मातृकान्यासेऽस्य वामचक्षुषि स्थानम् । यथा, मातृकान्यासधृत- मन्त्रे । “इं नमो दक्षिणचक्षुषि ईं नमो वाम- चक्षुषि ।)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
 
ई, ल, कान्तौ । गतौ । व्याप्तौ । क्षेपे । प्रजने । खादने । इति कविकल्पद्रुमः ॥ (अदां-परं-सकं- अकं च-अनिट् ।) कान्तिरिच्छा । प्रजनो गर्भ ग्रहणं इत्यर्थः । ल एति गौः गर्भं गृह्णाति इत्यर्थः । “न हि तरणिरुदीते दिक् पराधीनवृत्तिः” । इति गणकृता नित्यत्वादात्मनेपद । धातुरयं कै- श्चिन्न मन्यते । इति दुर्गादासः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/ई" इत्यस्माद् प्रतिप्राप्तम्