"व" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) अर्थनिवेशः
पङ्क्तिः ४०:
 
वः, पुं, (वानमिति । वा + भावे घः ।) सान्त्व- नम् । (वाति गच्छतीति । वाल गमने + कः ।) वायुः । वरुणः । इति मेदिनी । वे, १ ॥ बाहुः । मन्त्रणम् । कल्याणम् । बलवान् । वसतिः । वरुणालयः । इति शब्दरत्नावली ॥ शार्द्दूलः । वस्त्रम् । शालूकः । वन्दनम् । इति नानैकाक्षरकोषः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
 
वम्, व्य, (उ + अ + म् ।) शिवपूजान्ते कपोल- वाद्यविशेषः । तत्तु उकाराकारमकारात्मकं शिवप्रणवस्वरूपम् । यथा, -- “डिम् डिम् डिम् डिम् डिडिम् डिम् डिडिमरु डमरुं वादयन् सूक्ष्मनादं वम् वम् वम् वम् ववम् वम् भ्रमितदशशिरा- स्तालमानेन नृत्यन् । कर्पूरासिक्तभस्मापटितपटुजटालम्बिरुद्राक्ष- मालो मायायोगी दशास्यो रघुरमणपुरः प्राङ्गणे प्रादुरासीत् ॥” इति रामलीलामृतकाव्यम् ॥ * ॥ वरुणबीजम् । यथा । नासापुटौ धृत्वा वमिति वरुणबीजस्य चतुःषष्टिवारजपेन कुम्भकं कृत्वा तस्मात् ललाटस्थचन्द्राद्गलितसुधया मातृका- वर्णात्मिकया समस्तं देहं विरचय्य लमिति पृथ्वीबीजस्य द्वात्रिंशद्वारजपेन दहं सुदृढं विचिन्त्य दक्षिणेन वायुं रेचयेत् । इति भूत- शुद्धिप्रकरणे तन्त्रसारः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/व" इत्यस्माद् प्रतिप्राप्तम्