यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषणम्, क्ली, (विशिष्यतेऽनेनेति । वि + शिष + ल्युट् ।) विशेष्यधर्म्मः । स तु गुणादिः । यथा । नीलोत्पलमित्यादि । विशिष्यते सम्बुध्यते अनेन । छत्रेण छात्रमद्राक्षीदिति । भेदयति अन्यपदार्थं पृथक् करोति इति भेदकम् । नाम्ना शिवः गोत्रेण गार्ग्यः । विशेषणं दृष्टमेव भेदयति । भेदकन्तु अदृष्टमेव भेदयति । इति विशेषण- भेदकयोर्भेदः । इति मुग्धबोधटीकायां दुर्गा- दासः ॥

"https://sa.wiktionary.org/w/index.php?title=विशेषणम्&oldid=167139" इत्यस्माद् प्रतिप्राप्तम्