यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेष्यः, त्रि, (विशिष्यते गुणादिभिरिति । वि + शिष + ण्यत् ।) धर्म्मिपदार्थः । स च द्रव्यादिः । विशिष्यते यः । घटपटादिः । भासमान- वैशिष्ट्यानुयोगी । अस्य लक्षणं यथा । भास- मानवैशिष्ट्यानुयोगित्वं अस्ति च घट इति ज्ञाने घटादौ तत् तत्र हि भासमानवैशिष्ट्यं घटघटत्वयोः सम्बन्धस्तदनुयोगित्वस्य घटादौ सत्त्वात् । अनुयोगित्वमपि स्वरूपसम्बन्धविशेषः प्रतियोगित्वमनुयोगित्वञ्चातिरिक्तपदार्थ इत्य- प्येकदेशिनः । इति कणादः ॥

"https://sa.wiktionary.org/w/index.php?title=विशेष्यः&oldid=167147" इत्यस्माद् प्रतिप्राप्तम्