वृक्ष
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृक्ष, ङ वृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) सप्तमस्वरी । ङ, वृक्षते वरं कन्या । इति दुर्गादासः ॥
वृक्षः, पुं, (व्रश्च छेदने + “स्नुव्रश्चिकृत्यृषिभ्यः कित् ।” उणा० ३ । ६६ । इति सः । स च कित् । “वृक्ष वरणे । अतोऽच्यावृणोतीति वृक्ष इति सिद्धे प्रपञ्चार्थं व्रश्चिग्रहणम् ।” इति तट्टीकाया- मुज्ज्वलदत्तः ।) स्थावरयोनिविशेषः । गाछ इति भाषा । तत्पर्य्यायः । महीरुहः २ शाखी ३ विटपी ४ पादपः ५ तरुः ६ अनोकहः ७ कुटः ८ सालः ९ पलाशी १० द्रुः ११ द्रुमः १२ आगमः १३ । इत्यमरः ॥ अगच्छः १४ विष्टरः १५ मही- रुट् १६ कुचिः १७ स्थिरः १८ कारस्करः १९ नगः २० अगः २१ कुटारः २२ । इति शब्द- रत्नावली ॥ विटपः २३ कुजः २४ वनस्पतिः २५ अद्रिः २६ शिखरी २७ कुठः २८ । इति जटा- धरः ॥ कुञ्जः २९ क्षितिरुहः ३० अङ्घ्रिपः ३१ भूरुहः ३२ भूजः ३३ महीजः ३४ धरणीरुह ३५ क्षितिजः ३६ शालः ३७ । इति राज- निर्घण्टः ॥ तस्य षड्जातिर्यथा, -- “कुरण्ट्याद्या अग्रबीजा मूलजास्तूत्पलादयः पर्व्वयोनय इक्ष्वाद्याः स्कन्धजाः सल्लकीमुखाः । शाल्यादयो बीजरुहाः संमूर्च्छजास्तृणादयः । स्युर्व्वनस्पतिकायस्य षडेते मूलजातयः ॥” इति हेमचन्द्रः ॥ “संस्वेदजापि विज्ञेया वृक्षगोपशुजन्तवः ।” इत्यग्निपुराणम् ॥ भद्रप्रदवृक्षा यथा, -- श्रीभगवानुवाच । “आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः । शिविरस्य यदीशाने पूर्व्वे पुत्त्रप्रदस्तरुः ॥ सर्व्वत्र मङ्गलार्हश्च तरुराजो मनोहरः । रसालवृक्षः पूर्ब्बस्मिन् नृणां सम्पत्प्रदस्तथा ॥ शुभप्रदश्च सर्व्वत्र सुरकारो निशामय ॥ विल्वश्च पनसश्चैव जम्बीरो वदरी तथा । प्रजाप्रदश्च पूर्ब्बस्मिन् दक्षिणे धनदस्तथा ॥ अथ वृक्षारोपणनक्षत्रादि । शतभिषा मूलं विशाखा मृगशिरः उत्तरफल्गुनी उत्तराषाढा उत्तरभाद्रपत् रोहिणी हस्ता पुष्यः रेवती च ॥ * ॥ राजमार्त्तण्डे । “प्राजेशश्रवणोत्तरादितिमघामार्त्तण्डतिष्या- श्विनी- पौष्णानुष्णमरीचयः शतभिषा स्वातिर्विशाखा तथा । जिवार्केन्दुसितेन्दुनन्दनदिने वारे स्थिरस्योदये शस्यानां वपने भवन्ति लवने शस्ते तिथौ रोपणे ॥ * ॥ हेमाम्भसा वृक्षवीजं स्नातो मन्त्रेण रोप- येत् । वसुधेति सुशीतेति पुण्यदेति धरेति च । नमस्ते सुभगे नित्यं द्रुमोऽयं वर्द्धतामिति ॥” * ॥ अथ वृक्षप्रतिष्ठानक्षत्राणि । पूष्यः अश्विनी ज्येष्ठा पूर्ब्बफल्गुनी धनिष्ठा मृगशिरः स्वाती आर्द्रा मघा रोहिणी मूलं हस्ता रेवती अनुराधा श्रवणा पुनर्व्वसुश्च । यथा हि । “पुष्याश्विशक्रभगदैवतवासवेषु चन्द्रानिलेशमघरोहिणिमूलहस्ते । पौष्णानुराधहरिभेषु पुनर्व्वसौ च कार्य्याभिषेकतरुभूतपतिप्रतिष्ठा ॥” * ॥ अथ विहिततिथ्यादिः । भविष्ये । “प्रतिपच्च द्वितीया च तृतीया पञ्चमी तथा । दशमी त्रयोदशी चैव पौर्णमासी च कीर्त्तिता ॥ सोमो बृहस्पतिश्चैव शुक्रश्चैव तथा बुधः । एते सौम्यग्रहाः प्रोक्ताः प्रतिष्ठायागकर्म्मणि ॥” इति ज्योतिस्तत्त्वम् ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृक्ष पुं।
वृक्षः
समानार्थक:वृक्ष,महीरुह,शाखिन्,विटपिन्,पादप,तरु,अनोकह,कुट,शाल,पलाशिन्,द्रुद्रुम,अगम,नग,अग,शिखरिन्,अद्रि,विष्टर,धव
2।4।5।1।1
वृक्षो महीरुहः शाखी विटपी पादपस्तरुः। अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः॥
अवयव : शाखा,प्रधानशाखा,तरुमूलम्,शाखामूलम्,वृक्षकोमलत्वक्,वृक्षत्वक्,काष्ठम्,पत्रम्,वृक्षफलम्,पुष्पादिबन्धनम्,अपक्वफलम्,शुष्कफलम्,पुष्पम्
सम्बन्धि2 : वृक्षादिदैर्घ्यः,वृक्षविस्तारः
: देववृक्षः, द्वारस्तम्भोपरिस्थितदारुः, पुष्पाज्जातफलयुक्तवृक्षः, विनापुष्पं_फलितवृक्षः, यथाकालम्_फलधरः, ऋतावपि_फलरहितसस्यः, फलसहितवृक्षः, प्रफुल्लितवृक्षः, शाखापत्ररहिततरुः, सूक्ष्मशाखामूलयुतवृक्षः, स्कन्धरहितवृक्षः, पिप्पलवृक्षः, कपित्थः, उदुम्बरः, कोविदारः, सप्तपर्णः, राजवृक्षः, जम्भीरः, वरणः, पुन्नागः, निम्बतरुः-वकायिनी, तिनिशः, आम्रातकः-अम्बाडा, मधूकः, जलजमधूकः, पीलुः, पर्वतपीलुः, अङ्कोलः, पलाशः, वेतसः, शिग्रुः, अरिष्टः-रीढा, बिल्ववृक्षः, प्लक्षः, वटवृक्षः, श्वेतलोध्रः, आम्रवृक्षः, गुग्गुलुवृक्षः, शेलुवृक्षः, प्रियालवृक्षः, काश्मरीवृक्षः, बदरीवृक्षः, विकङ्कतः, नारङ्गी, तिन्दुकः, कटुतिन्दुकः, मुष्ककवृक्षः, तिलकवृक्षः, झावुकः, कुम्भी, रक्तलोध्रः, पार्श्वपिप्पलः, कदम्बः, भल्लातकी, कपीतनवृक्षः, अम्लिकावृक्षः, जीवकः, सालवृक्षः, अर्जुनवृक्षः, क्षीरिका, इङ्गुदी, भूर्जवृक्षः, शाल्मलिः, करञ्जवृक्षः, रोहितकवृक्षः, खदिरः, दुर्गन्धिखदिरः, श्वेतखदिरः, एरण्डः, शमीवृक्षः, मयनफलवृक्षः, देवदारुवृक्षः, पाटला, प्रियङ्गुवृक्षः, शोणकः, आमलकी, विभीतकी, हरीतकी, सरला, कर्णिकारः, लिकुचः, पनसवृक्षः, कदुम्बरी, निम्बः, शिंशपा, शिरीषः, चम्पकः, बकुलः, अशोकः, दाडिमः, चाम्पेयः, अरणिः, कुटजः, करमर्दकः, तमालः, सिन्दुवारः, हस्तिकर्णाभपत्रः, धातकी, नन्दिवृक्षः, त्वक्पत्रम्, तालवृक्षः, नालिकेरः, क्रमुकवृक्षः, खर्जुरवृक्षः, केतकवृक्षः, रक्तचन्दनः, दन्तिका
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृक्ष¦ वरणे भ्वा॰ आत्म॰ सक॰ सेट्। वृक्षने अवृक्षिष्ट।
वृक्ष¦ पु॰ व्रश्च--क्स। व्रश्चनेऽपि जायमाने द्रुमे। ह्रस्वार्थे कन्। वृक्षक ह्रस्ववृक्षे।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृक्ष¦ m. (-क्षः) A tree in general. E. वृक्ष् to cover, (to shade,) aff. घञ्; or व्रश्च् to cut and क्स Una4di aff.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृक्षः [vṛkṣḥ], [व्रश्च्-क्स Uṇ.3.66]
A tree; आत्मापराधवृक्षाणां फलान्येतानि देहिनाम्.
A tree bearing visible flowers and fruit; अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥ Ms.1.47.
Wrightia Antidysenterica (Mar. इंद्रजव, कुडा). -Comp. -अङ्घ्रिः the root of a tree.
अदनः a carpenter's chisel.
the fig-tree.
the Piyāla tree.-अधिरूढः [also वृक्षाधिरूढम्, वृक्षाधिरूढिः f.] a kind of embrace by women resembling the climbing of trees by creepers [बाहुभ्यां कण्ठमालिङ्ग्य मामिनी कान्त उत्थिते । अङ्कमा- रोहते यस्य वृक्षारूढः स उच्यते Nārāyaṇa's com. on N.7.97.]; क्रमोद्गता पीवरताधिजङ्घं वृक्षाधिरूढं विदुषी किमस्याः N.7.97; वल्ली पुरन्ध्रिपटलं घटिताभिरामवृक्षाधिरूढकमुपैति परामभिख्याम् Haravijaya 5.33. -अम्लः the hog-plum. (-म्लम्) the fruit of the tamarind tree; वृक्षाम्लमाममम्लोष्णं वातघ्नं कफ- पित्तलम् । पक्वं तु गुरु संग्राहि कटुकं तुवरं लघु ॥ Bhāva P.-आमयः Lac, resin. -आरोपकः the planter of a tree; Ms.3.163. -आलयः a bird.
आवासः a bird.
an ascetic. -आश्रयिन् m.
a kind of small owl.
a bird.-उत्पलः the Karṇikāra tree. -औकस् m. an ape. -कुक्कुटः a wild cock. -खण्डम् a grove or clump of trees. -गुल्मa. covered with trees and shrubs; Ms.7.192. -गृहः a bird. -चरः a monkey. -छाया the shade of a tree. (-यम्) thick shade, the shade of many trees. -तक्षकः a wood-feller. -धूपः turpentine. -नाथः the fig-tree.-निर्यासः gum, resin; Ms.5.6. -पाकः the fig tree.-भवनम् the hollow of a tree. -भिद् f. an axe. -भेदिनिm.
a carpenter's chisel. -मर्कटिका a squirrel. -वाटिका = वाटी a garden, grove of trees. -शः a lizard. -शायिका a squirrel. -संकटम् a forest-thicket.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृक्ष m. ( ifc. f( आ). ; prob. connected with 2. बृह्, " to grow " , or with 1. बृह्, " to root up " , or with व्रस्च्, as " that which is felled ") a tree , ( esp. ) any tree bearing visible flowers and fruit(See. Mn. i , 47 ; but also applied to any tree and other plants , often = wood See. comp. ) RV. etc.
वृक्ष m. the trunk of a tree RV. i , 130 , 4
वृक्ष m. a coffin AV. xviii , 2 , 25
वृक्ष m. the staff of a bow RV. AV.
वृक्ष m. a frame(See. comp. )
वृक्ष m. Wrightia Antidysenterica Sus3r.
वृक्ष m. a stimulant L.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
VṚKṢA(S) : (TREES). It is stated in Vālmīki Rāmā- yaṇa, Araṇya Kāṇḍa, Sarga 14, Stanza 29, as follows about the origin of Vṛkṣas (trees).
Prajāpati Kaśyapa married Analā, the daughter of Dakṣa. Trees yielding good fruits were given birth to by Analā.
_______________________________
*2nd word in left half of page 881 (+offset) in original book.
Vedic Index of Names and Subjects
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Vṛkṣa is the ordinary term for tree' in the Rigveda[१] and later.[२] In the Atharvaveda[३] it denotes the coffin made from a tree, no doubt by hollowing it out. The Ṣaḍviṃśa Brāhmaṇa[४] refers to the portent of a tree secreting blood.
Vedic Rituals Hindi
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृक्ष पु.
उगाया गया पौधा अथवा वृक्ष, का.श्रौ.सू. 2.1.14।