वृत्ति
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृत्तिः, स्त्री, (वृत + क्तिन् ।) जीविका । इत्यमरः ॥ (यथा, मनौ । ४ । २५९ । “एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती ॥”) विवरणम् । (यथा, कातन्त्रे । “सूत्रस्यार्थ- विवरणं वृत्तिः ॥”) कौशिक्यादिः । प्रवर्त्तनम् । इति मेदिनी ॥ (यथा, शाकुन्तले । ४ । “उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं वाष्पं कुरु स्थिरतया विरतानुबन्धम् ॥”) विधृतिः । इति धरणिः ॥ * ॥ कौशिक्यादि- वृत्तयो यथा, -- “शृङ्गारे कौशिकी वीरे सात्वत्यारभटी पुनः । रसे रौद्रे च वीभत्से वृत्तिः सर्व्वत्र भारती । चतस्रो वृत्तयो ह्येताः सर्व्वनाट्यस्य मातृकाः ॥” इति साहित्यदर्पणे ६ परिच्छेदः ॥ वृत्तिहरणे दोषा यथा, -- श्रीनारायण उवाच । “स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः । स कृतघ्न इति ज्ञेयः फलं तत् शृणु भूमिप ! ॥ यावन्तो रेणवः सिक्ता विप्राणां नेत्रबिन्दुभिः । तावद्वर्षसहस्रञ्च शृतपोते स तिष्ठति ॥ तप्ताङ्गारञ्च तद्भक्ष्यं पानञ्च तप्तमूत्रकम् । तप्ताङ्गारे च शयनं ताडितो यमकिङ्करैः ॥ तदन्ते च महापापी विष्ठायां जायते कृमिः । षष्टिवर्षसहस्राणि देवमानेन भारते । ततो भूमिविहीनश्च प्रजाहीनश्च मानवः । दरिद्रः कृपणो रोगी शूद्रो निन्द्यस्ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४९ अध्यायः ॥ (व्यवहारः । यथा, मनौ । २ । २०५ । “गुरोर्गुरौ सन्निहिते गुरुवद्बृत्तिमाचरेत् ॥” वर्त्ततेऽस्मिन्निति व्युत्पत्त्या । आधेयः । यथा, व्याप्तिपञ्चके । १ । “साध्याभाववदवृत्तित्वम् ।” यथा च भाषापरिच्छेदे । “सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते । स पक्षस्तत्र वृत्तित्वज्ञानदनुमितिर्भवेत् ॥” चित्तस्यावस्थाविशेषः । यथा, पातञ्जले । २ । “योगश्चित्तवृत्तिनिरोधः ॥” चित्तवृत्तिप्रकारास्तु तत्रैव द्रष्टव्याः ॥ * ॥ व्यापारः । यथा, सांख्य- तत्त्वकौमुद्याम् । ५ । “अर्थसन्निकृष्टस्य इन्द्रियस्य वृत्तौ सत्यां तमो- ऽभिभवे यः सत्त्वसमुद्रेकः ॥” युक्तार्थः । यथा, कातन्त्रव्याकरणादौ । “कारकप्रतियोगिभ्यां यद्यदन्यदपेक्षते । अपेर्ब्बहुलवाचित्वाद्वृत्तिस्तत्र तु नेष्यते ॥”)
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृत्ति स्त्री।
जीवनोपायः
समानार्थक:आजीव,जीविका,वार्ता,वृत्ति,वर्तन,जीवन
2।9।1।2।4
ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः। आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने॥
: परचित्तानुवर्त्तनम्, कर्षणम्, तण्डुलादियाचितः, वाणिज्यम्, ऋणसम्बन्धिकालान्तरद्रव्येण_लोकजीविका
पदार्थ-विभागः : वृत्तिः
वृत्ति स्त्री।
वेष्टनसम्भक्तिः
समानार्थक:वर,वृत्ति
3।2।8।2।8
ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥
पदार्थ-विभागः : , गुणः, शब्दः
वृत्ति स्त्री।
कैशिक्याद्याः
समानार्थक:वृत्ति
3।3।73।1।2
प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः। सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः॥
पदार्थ-विभागः : , पौरुषेयः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृत्ति¦ स्त्री॰ वृत--क्तिन्।
१ वर्त्तने
२ स्थितौ
३ विवरणे चमेदि॰। करणे क्तिन्
४ जीविकायाम् अमरः।
५ कौशि-कीसात्त्वतीभारत्यारभट्याख्ये नाटकरचनामैदे
“शृङ्गारेकौशिकी, वीरे सात्त्वत्यारभटी पुनः। रसे रौद्रे चपीभत्से वृत्तिः सर्वत्र भारती। चतस्रो वृत्तयो ह्येताःसर्वनाढ्यस्य मातृकाः” सा॰ द॰।
६ वेदान्तोक्ते अन्तःकरणादेःपरिणामभेदे च। अन्तःकरणवृत्तिस्यारूपप्रयोजनादिकंवेदा॰ प॰ दर्शितं यथा तडागोदकं छिद्रा{??}र्गत्य यथा कुल्या-त्मना केदारान् प्रविश्य तद्वदेव चतुष्केणाद्याकारं भवतितथा तैजसमप्यन्तःकरणं चक्षुरादि द्वारा घटादिविषय-देशं गत्वा घटादिविषयाकारेण परिणमते स एवपरिणामो वृत्तिरित्युच्यते। अनुमित्यादिस्थले तु अन्मः-करणस्य स वह्न्यादिदेशगमनं वह्यादेश्चक्षुराद्यसन्निक-र्षात्”{??}प॰। इन्द्रियजन्यवृत्तिश्च आवरणभङ्गार्था सम्ब-न्धार्था इति मतद्वैधं यथोक्तं तत्रैव
७ प॰।
“सा चा-न्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं मतम् तथा हिअविद्योपहितचैतन्यस्य जीवत्वपक्षे थठाढ्यषिष्ठानचैतन्यस्यजीवरूपतया जीवस्य सवेदा घटभानप्रसक्तौ घटाद्यव-च्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थापदवाच्यमभ्युपगन्तव्यम्। एव सति न सर्वदा घटादेर्भाम-प्रसङ्गः। अनावृतचैतन्तस्यैव भानप्रयोजकत्वात् तस्यचावरणस्य सदातनत्वे कदाचिदपि घटभानं न स्या-दिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं न चैतन्यमात्रं तद्भा-सकस्य तदनिवर्त्तकत्वास् नापि वृत्त्युपहितचैतन्थं परो-क्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवत्तिविशे-पस्य तदुपहितचैतसास्य वा आवरणभञ्जकत्वमित्यावरणामिभवार्धा वृत्तिरित्युच्यते। सम्बन्धार्षा कृत्तिरित्यपरमतम्।{??}विद्योपा धकोजीवोऽपरिच्छन्नः स च[Page4947-b+ 38] घटादिप्रदेशे विद्यमानोऽपि घटाद्यपरोक्षवृत्तिविरहदशायांन घटादिमवभासयति घटादिना समं तस्य सम्बन्धा-भावात् तत्तदाकारवृत्तिदशायां तु भासयति तदो सम्य-न्धसत्त्वात”। अतएवोक्तं
“बुद्धिवृत्तिचिदाभासौ द्वावेतौव्याप्लुतो घटम्। तत्राज्ञानं धिया नश्येत् आभासात्तुघटः स्फुरेत्” इदञ्च प्रथमताभिप्रायम् अन्तःकरणवृलीनांभेदादिकं पातञ्जलादिदर्शितप्रन्तःकरणशब्दे
१९
५ पृ॰ दृश्यम्।
“ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता” ये॰ सा॰। विप्रस्यजीविक रूपवृत्तिहरणे दोषो यथा
“स्वदत्तां परदत्तां वाब्रह्मवृत्तिं हरेत्तु यः। स कृतघ्न इति ज्ञेयः फलं तत् शृणुभूमिप!। यावन्तोरेणवः सिक्ता विप्राणां नेत्रविन्दुभिः। तावद्वर्षसहस्रञ्च घृतपाके स तिष्ठति। तप्ताङ्गारश्च तद्-भक्ष्यं पानञ्च तप्तमूत्रकम्। तप्ताङ्गारे च शयनं ता-ड्यते यमकिङ्करैः। तदन्ते च महापापी विष्ठायां जायतेकृमिः। षष्टिवर्षसहस्राणि देवमानेन भारते। ततोभूमिविहीनश्च प्रजाहीनश्च मानवः। दरिद्रः कृपणीरोगी शूद्रो निन्द्यस्ततः शुचिः” ब्रह्मवै॰ प्र॰
४९ अ॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृत्ति¦ f. (-त्तिः)
1. Livelihood, profession, means of acquiring subsistence.
2. Style or character of dramatic representation, or composition, considered to be of four sorts, viz:--Kau4si4ki4, which exhibits love or passion; Bha4rati4, which appears to implies declamation es- pecially; Sa4twati4, of which the subject is virtue and heroism, and A4rbhatti4, which treats of magic, delusion, wrath and battle.
3. Style in general.
4. Gloss, comment, explanation, expo- sition.
5. Being, abiding, staying.
6. Seizing, stopping, withhold- ing, restraining.
7. Circumference of a wheel or circle.
8. State, condition.
9. Behaviour, action, course of action, conduct.
10. Action, engagement, operation.
11. Respectful treatment.
12. Wages, hire.
13. Revolving, turning round.
14. A complex forma- tion, (in gram.)
15. The connotative power of a word; (these are three, viz:--अभिधा, लक्षणा and व्यंजना |) E. वृत् to be, aff. क्तिन् |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृत्तिः [vṛttiḥ], f. [वृत्-क्तिन्]
Being, existence.
Abiding, remaining, attitude, being in a particular state; as in विरुद्धवृत्ति, विपक्षवृत्ति &c.
State, condition; त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान् Śiva-mahimna 27.
Action, movement, function, operation; शतैस्तमक्ष्णामनिमेषवृत्तिभिः R.3.43; Ku.3.73; उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिम् (बाष्पम्) Ś.4. 15.
Course, method; विनयवारितवृत्तिः Ś.2.12.
Conduct, behaviour, course of conduct, mode of action; कुरु प्रियसखीवृत्तं सपत्नीजने Ś.4.18; Me.8; वैतसी वृत्तिः, बकवृत्तिः &c.
Profession, occupation, business, employment, mode of leading life (often at the end of comp.); आश्रमांश्च यथासंख्यमसृजत् सहवृत्तिभिः Bhāg.3.12.41; वार्धके मुनिवृत्तीनाम् R.1.8; Ś.5.6; Pt.3.126.
Livelihood, maintenance, means of subsistence or livelihood; oft. in com.; सिंहत्वमङ्कागतसत्त्ववृत्तिः R.2.38; Ś.7.12; स्वयं- विशीर्णद्रुमपर्णवृत्तिता Ku.5.28; (for the several means of subsistence, see Ms.4.4-6.)
Wages, hire.
Cause of activity.
Respectful treatment; ब्रह्मचारिणः... आचार्ये प्राणान्तिकी च वृत्तिः Kau. A.1.3; त्रिष्वप्रमाद्यन्नेतेषु त्रील्लँोकांश्च विजेष्यसि । पितृवृत्या त्विमं लोकं मातृवृत्त्या तथा परम् ॥ Mb.12.18.8.
Gloss, commentary, exposition; सद्वृत्तिः सन्निबन्धना Śi.2.112; काशिकावृत्तिः &c.
Revolving, turning round.
The circumference of a wheel or circle.
(In gram.) A complex formation requiring resolution or explanation.
The power or force of a word by which it expresses, indicates, or suggests a meaning; (these are three अभिधा, लक्षणा and व्यञ्जना q. q. v. v.); general character or force of a word; भ्रमयत भारती त उरुवृत्तिभिरुक्थजडान् Bhāg.1.87.36.
A style in composition (these are four; कौ(कै)शिकी, भारती, सात्वती and आरभटी q. q. v. v.); शृङ्गारे कैशिकी वीरे सात्वत्यारभटी पुनः । रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती । चतस्रो वृत्तयो ह्येताः सर्वनाठ्यस्य मातृकाः ॥ S. D.
Customary allowance.
Manner of thinking. -Comp. -अनुप्रासः a kind of alliteration; see K. P.9. -अर्थम् ind. for the sake of subsistence; यो$ध्यापयति वृत्यर्थमुपाध्यायः स उच्यते Ms.2.141. -उपायः a means of subsistence; यजनाध्यापन- प्रतिग्रहा ब्राह्मणस्यैव वृत्त्युपायाः ŚB. on MS.12.4.36; सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि Ms.1.2. -कर्षित a. badly off or distressed for want of livelihood; क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्षितौ [विमृयात्] Ms.8.411. -चक्रम् the wheel of state; स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते Pt.1.81.-छेदः deprivation of the means of subsistence. -पक्षः (Mīmāṁsā) the case of a complex formation; वृत्तिपक्षे च समासस्य नित्यत्वात् ŚB. on MS.1.6.4. -भङ्गः, -वैकल्यम् want of a livelihood; वृत्तिभङ्गान्महीपालं त्यक्त्वा यान्ति सुसेवकाः Pt.1.153. -भाज् a. doing usual things (good and evil); कर्तृता तदुपलम्भतो$भवद्वृत्तिभाजि करणे यथ- र्त्विजि Śi.14.19. -मूलम् provision for maintenance.-लाभः (in phil.) ascertainment of the concurrent.-हेतुः = वृत्तिमूलम् q. v.; न लोकवृत्तं वर्तेत वृत्तिहेतोः कथंचन Ms.4.11. -स्थ a.
being in any state or employment.
well-conducted, of good behaviour. (-स्थः) a lizard, chameleon.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वृत्ति f. rolling , rolling down (of tears) S3ak. iv , 5 ; 14
वृत्ति f. mode of life or conduct , course of action , behaviour , ( esp. ) moral conduct , kind or respectful behaviour or treatment (also v.l. for वृत्त) Gr2S3rS. Mn. MBh. etc.
वृत्ति f. general usage , common practice , rule Pra1t.
वृत्ति f. mode of being , nature , kind , character , disposition ib. Ka1v.
वृत्ति f. state , condition Tattvas.
वृत्ति f. being , existing , occurring or appearing in( loc. or comp. ) La1t2y. Hariv. Ka1v. etc.
वृत्ति f. practice , business , devotion or addiction to , occupation with (often ifc. " employed about " , " engaged in " , " practising ") MBh. Ka1v. etc.
वृत्ति f. profession , maintenance , subsistence , livelihood (often ifc. ; See. उञ्छ-व्; वृत्तिं-कृor कॢप्[ Caus. ] with instr. , " to live on or by " ; with gen. , " to get or procure a maintenance for " ; only certain means of subsistence are allowed to a Brahman See. Mn. iv , 4-6 ) S3rS. Mn. MBh. etc.
वृत्ति f. wages , hire , Pan5cav.
वृत्ति f. working , activity , function MaitrUp. Kap. Veda7ntas. etc.
वृत्ति f. mood (of the mind) Veda7ntas.
वृत्ति f. the use or occurrence of a word in a partic. sense( loc. ) , its function or force Pa1n2. Sa1h. Sch. on Ka1tyS3r. etc.
वृत्ति f. mode or measure of pronunciation and recitation (said to be threefold , viz. विलम्बिता, मध्यमा, and द्रुताSee. ) Pra1t.
वृत्ति f. (in gram.) a complex formation which requires explanation or separation into its parts (as distinguished from a simple or uncompounded form e.g. any word formed with कृत्or तद्धितaffixes , any compound and even duals and plurals which are regarded as द्वंद्वcompounds , of which only one member is left , and all derivative verbs such as desideratives etc. )
वृत्ति f. style of composition ( esp. dram. style , said to be of four kinds , viz. 1. कैशिकी, 2. भारती3. सात्वती, 4. आरभटी, qq.vv. ; the first three are described as suited to the शृङ्गार, वीर, and रौद्ररसs respectively , the last as common to all) Bhar. Das3ar. etc.
वृत्ति f. (in rhet. )alliteration , frequent repetition of the same consonant (five kinds enumerated , scil. मधुरा, प्रौ-ढा, पुरुषा, ललिता, and भद्रा) Das3ar. , Introd.
वृत्ति f. final rhythm of a verse (= or v.l. for वृत्तSee. )
वृत्ति f. a commentary , comment , gloss , explanation ( esp. on a सूत्र)
वृत्ति f. N. of the wife of a रुद्रBhP.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--means of living by ऋत, अमृत, मृत प्रमृत and सत्यामृत or सत्यानृत; never by श्ववृत्ति। भा. VII. ११. १८-20.
(II)--transformation of जयादेवस् in the seven epochs of Manu. Br. III. 4. १२, ३७.