यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृष्टिः, स्त्री, (वृष + क्तिन् ।) मेघाज्जलबिन्दुपत- नम् । तत्पर्य्यायः । वर्षम् २ । इत्यमरः ॥ गोघृतम् ३ परामृतम् ४ वर्षणम् ५ । इति शब्दरत्नावली ॥ तत्कारणं यथा, -- “अमृतादित्रये यत्र भवन्ति सर्व्वखेचराः । तदा वृष्टिः क्रमाज्ज्ञेया धृत्यर्कवसुवासरैः ॥” इति स्वरोदयः ॥ * ॥ अपि च । “ब्रुवन्तु परमार्थञ्च किमिन्द्राद्वृष्टिरेव च । सूर्य्याद्धि जायते तोयं तोयात् शस्यानि शाखिनः ॥ तेभ्योऽन्नानि फलान्येव तेभ्यो जीवन्ति जीविनः । सूर्य्यग्रस्तञ्च नीरञ्च काले तस्मात् समुद्भवः । सूर्य्यो मेघादयः सर्व्वे विधात्रा ते निरूपिताः ॥ यत्राब्दे यो जलधरो गजश्च सागरो मरुत् । शस्याधिपो नृपो मन्त्री विधात्रा ते निरू- पिताः ॥ जलाढकानां शस्यानां तृणानाञ्च निरूपितम् । अब्देऽब्देऽस्त्येव तत् सर्व्वं कल्पे कल्पे युगे युगे ॥ हस्ती समुद्रादादाय करेण जलमीप्सितम् । दद्याद्घनाय तद्दद्याद्वातेन प्रेरितो घनः । स्थाने स्थाने पृथिव्याञ्च काले काले यथोचितम् ॥ ईश्वरेच्छयाविर्भूतं तूर्णं भूतं प्रतिबन्धकम् । भूतं भव्यं भविष्यञ्च महत् क्षुद्रञ्च मध्यमम् । धात्रा निरूपितं कर्म्म केन तात निवार्य्यते ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २१ अः ॥ आसन्नवृष्टिसूचकानि यथा, -- “मयूराः स्तनयित्नूनां शब्देन हृषिता मुहुः । केकायन्ति प्रतिवने सततं वृष्टिसूचकाः ॥ मेघोत्सुकानां मधुरश्चातकानां मनोहरः । श्रूयतामतिमत्तानां वृष्टिसन्निधिसूचकः ॥ गगने शक्रचापेन कृतं साम्प्रतमास्पदम् । धारासारशरैस्तापं छेत्तुं प्रति यथोद्गतः ॥” इति कालिकापुराणे १५ अध्यायः ॥ * ॥ मेघैरन्तरिता वृष्टीः कुर्व्वन्तीति वचः सताम् ॥ गाङ्गमाश्वयुजे मासि प्रायो वर्षति वारिदः । सर्व्वथा तज्जलं देयं तथैव चरके वचः ॥ स्थापितं हैमने पात्रे राजते मृण्मयेऽपि वा । शाल्यन्नं येन संसिक्तं भवेदक्लेदिवर्णवत् ॥ तत् गाङ्गं सर्व्वदोषघ्नं ज्ञेयं सामुद्रमन्यथा । तत्तु सक्षारलवणं शुक्रदृष्टिबलापहम् ॥ विस्रञ्च दोषलं तीक्ष्णं सर्व्वकर्म्मसु गर्हितम् । सामुद्रं त्वाश्विने मासि गुणैर्गाङ्गवदादिशेत् ॥ यतोऽगस्त्यस्य विप्रर्षेरुदयात् सकलं जलम् । निर्म्मलं निर्व्विषं स्वादु शुक्रलं स्याददोषलम् ॥” * अतएवाह । “फुत्कारविषवातेन नागानां व्योमचारिणाम् । वर्षासु सविषं तोयं दिव्यमप्याश्विनं विना ॥” इति भावप्रकाशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृष्टि स्त्री।

वर्षम्

समानार्थक:वृष्टि,वर्ष,हायन,वत्स

1।3।11।1।1

वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ। धारासम्पात आसारः शीकरोऽम्बुकणाः स्मृताः॥

अवयव : वातप्रक्षिप्तजलकणः,जलकणः

सम्बन्धि2 : वृष्टिविघातः,वर्षोपलः

वैशिष्ट्यवत् : वर्षोपलः

 : महावृष्टिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्

सम्पाद्यताम्
 
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृष्टि¦ स्त्री वृष--क्तिन्।

१ वर्षणे अमरः। कर्मणि क्तिन्। मेघादिभिः

२ सिच्यमाने जले। तत्कारणं यथा
“ब्रुवन्तु परमार्थञ्च किमिन्द्राद्वृष्टिरेव च। सूर्य्याद्वि-[Page4957-a+ 38] जायते तोयं तोयात् शस्यानि शाखिनः। तेभ्योऽ-न्नानि फलान्येव तेभ्यो जीवन्ति जीविनः। सूर्य्यग्रस्तञ्चनीरञ्च काले तस्मात् समुद्भवः। सूर्य्यो मेघादयः सर्वेविधात्रा ते नियोजिताः। यत्राव्दे यो जलधरो गजश्चसागरोमरुत्। शस्याधिपो नृपो मन्त्री विधात्रा तेनिरूपिताः। जलाढकानां सस्यानां तृणानाञ्च निरू-पितम्। अव्देऽव्देऽस्त्येव तत् सर्वं कल्पे कल्पे युगेयुगे। हस्ती समुद्रादादाय करेण जलमीप्सितम्। दद्याद्वनाय तद्दद्याद्वातेन प्रेरितो घनः। स्थाने स्थानेपृथिव्याञ्च काले काले यथोचितम्। ईश्वरेच्छयावि॰र्भूतं पूर्णं तत्प्रतिवन्धकम्। भूतं भव्यं भविष्यञ्च म-हत् क्षुद्रञ्च मध्यमम्। धात्रा निरूपितं कर्म केन तात!निवार्य्यते” ब्रह्मवै॰ जन्म॰

२१ अ॰।
“अग्नौ प्रास्ताहुतिःसम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिः वृष्टे-रन्नं ततः प्रजा” गीता। आसंन्नवृष्टिसूचकानि यथा
“मयूराः स्तनयित्नूनां शब्देन हृषिता मुहुः। केका-यन्ति प्रतिबने सततं वृष्टिसूचकाः। मेघोत्सुकानांमधुरश्चातकानां मनोहरः। श्रूयतामतिमत्तानां वृष्टि-सन्निधिसूचकः। गगने शक्रचापेन कृतं साम्प्रतमा-स्पदम्। धारासारशरैस्तापं छेत्तुं प्रति यथोद्गतः” कालिकापु॰

१५ अ॰।

शब्दसागरः

सम्पाद्यताम्
 
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृष्टि¦ f. (-ष्टिः)
1. Rain.
2. A shower in general. E. वृष् to sprinkle, aff. क्तिन् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृष्टिः [vṛṣṭiḥ], f. [वृष्-क्तिन्]

Rain, a shower of rain; आदित्या- ज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः Ms.3.76.

A shower (of anything); अस्त्रवृष्टि R.3.58; पुष्पवृष्टि 2.6; so शर˚, धन˚, उपल˚ &c. -Comp. -कालः the rainy season. -घ्नी small cardamoms. -जीवन a. nourished or watered by rain (as a country); cf. देवमातृक. (-नः) the Chātaka bird.-पातः a shower of rain. -भूः a frog. -संपातः a shower of rain.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वृष्टि f. (sg. and pl. )rain RV. etc. ( ifc. often = a shower of See. पुष्प-, शरवृ)

वृष्टि f. (in सांख्य) one of the four forms of internal , acquiescence(See. सलिल) MW.

वृष्टि m. a partic. एका-हS3a1n3khS3r.

वृष्टि m. N. of a son of कुकुर(See. वृष्ट) VP.

(I)--a son of सावर्णि Manu. M. 9. ३३. [page३-312+ ३१]
(II)--a son of Kakuda. वा. ९६. ११६.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Vṛṣṭi is the regular word for ‘rain’ in the Rigveda[] and later.[]

  1. i. 116, 12;
    ii. 5, 6, etc.
  2. Av. iii. 31, 11;
    vi. 22, 3, etc.
"https://sa.wiktionary.org/w/index.php?title=वृष्टि&oldid=504600" इत्यस्माद् प्रतिप्राप्तम्