यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदान्तः, पुं, (वेदानां अन्तः ।) उपनिषत् । इति हेमचन्द्रः । वेदव्यासप्रणीतदर्शनशास्त्र- विशेषोऽपि । यथा । वेदान्तो नाम उपनिषत्- प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च । इति परमहंसपरिव्राजकाचार्य्यश्रीसदानन्द- योगीन्द्रविरचितवेदान्तसारः ॥ * ॥ “इदानीं सर्व्वस्यापि वस्तुविचारोद्देशपूर्व्वकत्वात् प्रति- ज्ञातं वेदान्तं नामतो निर्दिशति वेदान्त इति । उपनिषद एव प्रमाणं उपनिषत्-प्रमाणम् । उपनिषदो यत्र प्रमाणमिति वा । तदुपकारीणि वेदान्तवाक्यसंग्राहकाणि शारीरकसूत्रादीनि च । शरीरमेव शारीरं तत्र भवो जीवः शारी- रकः स सूत्र्यते याथातथ्येन निरूप्यते यैः तानि शारीरकसूत्राणि ‘अथातो ब्रह्मजिज्ञासा’ इत्यादीनि । आदिशब्दो भाष्यादिसंग्रहार्थः । चशब्दो वेदान्तशब्दानुषङ्गार्थः । यद्बा शारी- रकसूत्राणि तद्यथार्थवादिवेदान्तार्थसंग्रह- वाक्यानि । ‘अथातो ब्रह्मजिज्ञासा’ इत्यादि- सूत्रादीनि । आदिशब्देन भगवद्गीताद्यध्यात्म- शास्त्राणि गृह्यन्ते । तेषामपि उपनिषच्छब्द- वाच्यत्वादिति भावः ।” इति श्रीनृसिंहसरस्वती- कृता तट्टीका सुबोधनी ॥ अस्य नामान्तरं उत्तरमीमांसा । तत्र चत्वारः अध्यायाः । तेषु ब्रह्मनिरूपणम् । तद्विवरणं यथा, -- “अव्यक्तादण्डमभूदण्डाद्ब्रह्मा ततः प्रजासर्गः । मायामयी प्रवृत्तिः संह्रियते पुनः पुनः क्रमशः ॥ मायामयोऽप्यचेता गुणकरणगणः करोति कर्म्माणि । तदधिष्ठाता देही सचेतनोऽपि न करोति किञ्चिदपि ॥ यद्वदचेतनमपि सन्निकटस्थे भ्रामके भ्रमति लोहम् । तद्वत् करणसमूहश्चेष्टति चिदधिष्ठिते देहे ॥ यद्वत् सवितर्य्युदिते करोति कर्म्माणि जीव- लोकोऽयम् । तद्वत्स्वभावभूताः स्वभावतां प्राप्य नश्यन्ति ॥ भिन्ने ज्ञानग्रन्थौ छिन्ने संशयगणे शुभाशुभे क्षीणे । दग्धे च जन्मबीजे परमानन्दं हरिं याति ॥ मोक्षस्य नैव किञ्चिद्धामास्ति न चापि गमन- मन्यत्र । अज्ञानमयग्रन्थेर्भेदो यस्तं विदुर्मोक्षम् ॥ बुद्धैवमसत्यमिदं विष्णोर्मायात्मकं जगद्रूपम् । विगतद्वन्द्बोपाधिकभोगासङ्गो भवेच्छान्तः ॥ बुद्धा विभक्तां प्रकृतिं पुरुषः संसारमध्यगो भवति । निर्मुक्तः सर्व्वकर्म्मभिरम्बुजपत्रं यथा सलिलैः ॥ अश्नन् यद्बा तद्बा संवीतो येन केनचिच्छान्तः । यत्र क्वचन च शायी विमुच्यते सर्व्वभूतात्मा ॥ हयमेधशतसहस्राण्यथ कुरुते ब्रह्मघात- लक्षाणि । परमार्थविन्न पुण्यैर्न च पापः स्पृश्यते विमलः ॥ मदकोपहर्षमत्सरविषादभयपरुषवर्ज्यवात्- बुद्धिः । निस्तोत्रवषट्कारो जडवद्बिचरेदगाधमतिः ॥ उत्पत्तिनाशवर्ज्जितमेवं परमार्थमुपलभ्य । कृतकृत्यः सफलजनुः सर्व्वगतस्तिष्ठति यथेष्टम् ॥ व्यापिनमभिन्नमित्थं सर्व्वात्मानं विधूतनानात्वम् । निरुपमपरमानन्दं यो वेद स तन्मयो भवति ॥ तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम् । ज्ञानसमकालं मुक्तः कैवल्यं याति हतशोकः ॥ पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधन- गतिः । पुण्यापुण्यकलङ्कस्पर्शाभावे तु किन्तेन ॥ वृक्षाग्राच्च्युतपादो यद्बदनिच्छन्नरः क्षितौ पतति । तद्वदगुणपुरुषज्ञोऽनिच्छन्नपि केवलीभवति ॥ परमार्थमार्गसाधनमारभ्याप्राप्य योगमपि नाम । सुरलोकभोगभोगी मुदितमना मोदते सुभृ- शम् ॥ विषयेषु सार्व्वभौमः सर्व्वजनैः पूज्यते यथा राजा । भुवनेषु सर्व्वदेवैर्योगभ्रष्टस्तथा पूज्यः । महता कालेन महान् मानुष्यं प्राप्य योग- मभ्यस्य । प्राप्नोति दिव्यममृतं यत्तत् परमं पदं विष्णोः ॥ वेदान्तशास्त्रमखिलं विलोक्य शेषोऽखिला- धारः । आर्य्यापञ्चाशीत्या बबन्ध परमार्थसारमिदम् ॥” इति श्रीशेषनागविरचितं परमार्थसारं समा- प्तम् ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदान्त¦ पु॰

६ त॰। वेदशिरोभागे ब्रह्मप्रतिपादके उपनिष-द्रूपे

१ ग्रन्थभेदे तदुपकारके

२ शारीरकसूत्रभाष्यादौ चउत्तरामीमांसाशब्दे

१०

९७ पृ॰ दृश्यम्। शारीरकसूत्रञ्चबहुमि{??}चार्य्यैः स्वस्वमतानुसारेण व्याख्यातं तत्र रा-मानुजपूर्णंप्रज्ञशब्दयोस्तत्तन्मतं प्रदर्शितं शाङ्करमतानुसारिमतस्य सिद्धान्तविन्दुप्रदर्शितस्य सङ्क्षेपोऽत्र प्रदर्श्यते
“वेदान्तिमते सामान्यतः द्विवध एव पदार्थः दृग्दृश्यश्चतत्रैव सर्वपदार्थान्तर्भावात्। तत्र दृक्पदार्थ आत्मा। स च सर्वदैकरूपोऽप्यौपाधिकभेदात् त्रिविधः ईश्वरःजीवः साक्षी चेति। तत्र कारणीभूताज्ञानो पाधि-रीश्वरः। अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानोपहितोजावः। जीवेश्वरानुगतसर्वानुसंधातृ चैतन्यं साक्षी। तत्रेश्वरोऽपि त्रिविधः स्वोपाधिभूताविद्यावृत्तिसत्त्वादि-गुणत्रयभेदेन विष्णुब्रह्मरुद्रभेदात्। तत्र कारणीभूत-सत्त्वगुणावच्छिन्नो विष्णुः पालयिता। तथा रज उप-हितो ब्रह्मा स्रष्टा। हिरण्यगर्भस्तु महाभूतकारण-{??}भावान्न ब्रह्मा। तथापि स्थूलभूतस्रष्टृत्वेन क्वचिद्ब्रह्मेत्युपचर्य्यते। तथा तम उपहितो रुद्रः संहर्त्ता।{??}वञ्चैकस्यैव तस्य चतुर्भुजचतुर्मुखाद्याः पुमाकाराः श्री-भारतीभवान्याद्याश्च स्त्र्याकारा मत्स्यकूर्मादयोऽप्यवतारा{??}ईलयैवाविर्भवन्ति। तथा जीवोऽपि त्रिविधः स्वोपाधि-जाग्रदाद्यवस्थात्रयभेदेन विश्वतैजसप्राज्ञभेदात्। तत्रा-विद्यान्तःकरणस्थूलशरीरावच्छिन्नो जाग्रदभिमानी विश्वः। स एव स्थूलशरीराभिमानरहित उपाधिद्वयोपहितःस्वप्नावस्थाभिमानी तैजसः। अयमेव शरीरद्वयान्तःकरणो,षाधिरहितोऽन्तःकरणसंस्कारावच्छिन्नोऽविढ्यामात्रोपहितः[Page4967-b+ 38] सुषुप्त्यवस्थाभिमानी प्राज्ञः। साक्षी तु सर्वानुसन्धातासर्वानुगतस्तुरीयाख्य एकविध एव। अविद्यातत्कर्मात्मकप्रपञ्चो दृश्यपदार्थः तस्यापारमार्थि-कत्वेऽपि व्यवहारिकत्वाभ्युपगमान्न स्वप्नादिवदतात्त्विक-त्वम्। दृश्योऽपि त्रिविधः अव्याकृतमूर्त्तामूर्त्तभेदात्। तत्र चिदाभाससहिताऽविद्या मूर्त्तामूर्त्तप्रपञ्चस्थूलवीज-शक्तिरनादिरव्याकृतमित्युच्यते। इयञ्चाव्याकृताख्याऽवि-द्येश्वरोपाधिः। सा च स्वयं जडाप्यजडेन चिदाभासे-नोज्वलिता पूर्वपूर्वसंस्कारजीवकर्मभ्यां प्रयुक्ता सती शब्द-स्पर्शरूपरसगन्धाश्रयाण्याकाशवायुतेजोजलपृथिव्यात्म-कानि पञ्च सृक्ष्ममहाभूतानि जनयति। तत्र पूर्वपूर्व-भूतभावापन्नाया एवाविद्याया उत्तरोत्तरभूतं प्रति-कारणत्वात् पूर्वपूर्वभूतगुणानामुत्तरोत्तरभूतेष्वनुप्रवेशा-द्भूतानामेकैकवृद्धीभूतगुणशालित्वं तथा चाकाशस्य शब्दोगुणः, वायोः शब्दस्पर्शौ, तेजसः शब्दस्पर्शरूपाणि, जलतानि रसश्च, पृथिव्यास्तानि गन्धश्चेति। आकाशस्यैवदिग्व्यवहारजनकत्वेन दिशो न पृथक् पदार्थता। कामस्यचिज्जडसम्बन्धरूपतया तदाधाराविद्यात्मकतया च मपार्थक्यम्। तानि च सूक्ष्माणि पञ्च भूतानि अमूर्त्ताख्यानिकारणाभेदाच्च सत्त्वरजस्तमोगुणात्मकानि सत्त्वरजोऽं-शप्राधान्येन ज्ञानक्रियाशक्त्यात्मकमेकं स्वच्छद्रव्यं चि-त्ररूपमिव मिलित्वा जनयन्ति। तच्च समस्तं द्रव्यं ज्ञा{??}शक्तिप्राधान्येऽन्तःकरणं तदपि द्विविधं मगोबुद्धिभेदात्’ चतुर्विधं मनोबुद्ध्यहङ्कारचित्तभेदादित्यन्ये। तदेव क्रि-याशक्तिप्राधान्ये प्राणः। स च पञ्चधा प्राणादिभेदात्। एवमेकैकभू{??}भ्योज्ञानक्रियाशक्तिमेदात् प्रत्येकं ज्ञानकर्मे-न्द्रियद्वयं जायते। यथाकाशात् श्रोत्रवाचौ, वायोण्वक्पाणी, तेजसश्चक्षुःपादौ, अद्भ्यो रसनापायू, पृथिव्याध्राणोपस्थौ चोत्पद्येते। तत्र शब्दस्पर्शरूपरसगन्धग्राह-काणि श्रोत्रत्वक्चक्षुःरसनाघ्राणाख्यागि पञ्च ज्ञानेन्द्रि-याणि वचनादानगतिविसर्गानन्दजनकानि वाक्पाणिपाद-पायूपस्थाख्यानि पञ्च कमेन्द्रियाणि! एतच्च सर्वं मि-सित्वा सप्तदशकं लिङ्गशरीरम्। तच्च ज्ञानशक्तिप्राधान्येनसमष्टौ हिरण्यगर्भ इति क्रियाशक्तिप्राधान्येन समष्टौसूत्रमिति चोच्यते। अयं भूर्त्तपदार्थः कार्य्यत्वात्। मुमष्टिव्यष्टिजीवोपाधिसूक्ष्मभूतानि तु भोगायतनं श-रीरं भोग्यविषयञ्चान्तरेण भोगं जनयितु{??}ममर्थानीतिजीवकर्मप्रयक्तानि तानि स्थौल्यार्थं पञ्चोकृतानि म॰[Page4968-a+ 38] वन्ति। तथा हि सर्वाणि भूतानि स्वस्वार्द्धांशे स्वेतरभू-तानां चतुर्णामष्टमांशैश्चतुर्भिर्थोजनात् सर्वाण्येव पञ्चात्म-कानि। स्वस्वांशाधिक्याच्चाकाशादिव्यवहारः। तानि चपञ्चीकृतानि महाभूतानि मूर्त्ताख्यानि मिलित्वैकं कार्य्य-मिन्द्रियाणामधिष्ठानं जनयन्ति। तदेव स्थूलशरीरमित्युच्यते। तत्र सत्त्वप्रधानं दैवं शरीरं रजःप्रधानंमानवं तमःप्रधानं तिर्य्यगादिस्थावरान्तानाम्। सर्वेषांदेहानां पाञ्चभौतिकत्वेऽपि चित्रे रूपाणामिव भूतानांक्वचिन्न्यूनातिरेको न विरुद्ध्यते। विषया अपिं चतु-र्दशभुवनाख्या षटादयश्च सत्त्वरजस्तमोऽंशतारतम्येनतेभ्य एव भूतेभ्यो जायन्ते। एतच्च सर्वं ब्रह्माण्डं विरा-डिति चोच्यते। सर्वं च सृष्टिप्रलयादिकं स्वप्नसृष्टिप्रलयवदवास्तवमपि अनादिवासनादार्ढ्यात् व्यवहारक्ष-ममिति मायिकत्वेऽपि न तुच्छत्वप्रसङ्गः”। अन्यदाकरेदृश्यम्।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदान्त¦ m. (-न्तः) The theological part of the Ve4das; considered collec- tively it is contained in the many numerous passages or chapters of the Ve4das termed Upanishads, which inculcate an abstract and speculative monotheistical worship, and these have been fur- ther explained and illustrated by later writers: the founder of the school is VYA4SA, and subsequently S4ANKARA4CHA4RYA is its most eminent teacher. E. वेद the Ve4das, and अन्त end, sum, scope or substance.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदान्त/ वेदा etc. See. p.1017.

वेदान्त/ वेदा m. end of the वेद(= " complete knowledge of the वेद" See. वेदा-न्त-ग) TA1r. MBh.

वेदान्त/ वेदा m. N. of the second and most important part of the मीमांसाor third of the three great divisions of Hindu philosophy (called वेदा-न्तeither as teaching the ultimate scope of the वेदor simply as explained in the उपनिषद्s which come at the end of the वेद; this system , although belonging to the मीमांसा[q.v.] and sometimes called उत्तर-मीमांसा, " examination of the later portion or ज्ञान-काण्ड[q.v.] of the वेद" , is really the one sole orthodox exponent of the pantheistic creed of the Hindus of the present day - a creed which underlies all the polytheism and multiform mythology of the people ; its chief doctrine [as expounded by शंकर] is that of अद्वैतi.e. that nothing really exists but the One Self or Soul of the Universe called ब्रह्मन्[neut.] or परमा-त्मन्, and that the जीवात्मन्or individual human soul and indeed all the phenomena of nature are really identical with the परमा-त्मन्, and that their existence is only the result of अज्ञान[otherwise called अविद्या] or an assumed ignorance on the part of that one universal Soul which is described as both Creator and Creation ; Actor and Act ; Existence , Knowledge and Joy , and as devoid of the three qualities [see गुण] ; the liberation of the human soul , its deliverance from transmigrations , and re-union with the परमा-त्मन्, with which it is really identified , is only to be effected by a removal of that ignorance through a proper understanding of the वेदा-न्त; this system is also called ब्रह्म-मीमांसाand शारीरकमीमांसा, " inquiring into Spirit or embodied Spirit " ; the founder of the school is said to have been व्यास, also called बादरायण, and its most eminent teacher was शंकरा-चार्य) Up. MBh. etc.

वेदान्त/ वेदा m. pl. the उपनिषद्s or works on the वेदा-न्तphilosophy Kull. on Mn. vi , 83.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VEDĀNTA : See under Veda.


_______________________________
*7th word in right half of page 843 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वेदान्त&oldid=504624" इत्यस्माद् प्रतिप्राप्तम्