यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैराग्यम्, क्ली, (विरागस्य भावः । विराग + ष्यञ् ।) विषयतुच्छधीः । यथा, -- “ज्ञानवैराग्ययोर्भक्तिप्रवेशायोपयोगिता । ईषत् प्रथममेवेति नाङ्गत्वमुचितं तयोः ॥ यदुभे चित्तकाठिन्यहेतू प्रायः सतां मते । सुकुमारस्वभावेयं भक्तिस्तद्धेतुरीरिता ॥” यथा एकादशस्कन्धे । “तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥” इति ॥ किन्तु ज्ञानविरक्त्यादिसाध्यं भक्त्यैव सिद्ध्यति । यथा तत्रैव । “यत् कर्म्मभिर्यत्तपसा ज्ञानवैराम्यतश्च यत् । योगेन दानधर्म्मेण श्रेयोभिरितरैरपि ॥ सर्व्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ रुचिमुद्वहतस्तत्र जनस्य भजने हरेः । विषयेषु गरिष्ठोऽपि रागः प्रायो विलीयते ॥ अनासक्तस्य विषयान् यथार्हमुपयुञ्जतः । निर्व्वन्धः कृष्णसम्बन्धे युक्तं वैराग्यमुच्यते ॥ प्रापञ्चिकतया बुद्ध्या हरिसम्बन्धिवस्तुनः ॥ मुमुक्षुभिः परित्यागो वैराग्यं फल्गु कथ्यते ॥” इति भक्तिरसामृतसिन्धौ पूर्ब्बभागे साधन- लहरी ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैराग्य¦ न॰ विरागस्य भावः ष्यञ। विषयवासनाराहित्येऐहिकामुष्मिकविषयरागराहित्ये च। वैराग्यस्य मोक्षहेतुत्वादि विवेकचूडामणौ दर्शितं यथा
“मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यन्तमनित्यव-स्तुषुं ततः शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ता-खिलकर्मणां भृशम्। ततः श्रुतिस्तन्मननं सतत्त्वध्यानंचिरं नित्यनिरन्तरं मुनेः। ततो विकल्पं परमेत्यविद्वानिहैव निर्वाणमुखं समृच्छति। यद्बाद्धव्यं तवे-दाणिमात्मानात्मविवेचनम्। तदुच्यते मया सम्यक् श्रुत्वा-त्मन्यवधारय। मज्जास्थिमेदःपलरक्तचर्मत्वगाह्वयैर्धा-तुभिरेभिरन्वितम्। पादोरुवक्षोभुजपृष्ठमस्तकैरङ्गैरुपा-ङ्गैरुपयुक्तमेतत्। अहं ममेति प्रथितं शरीरं मोहास्पदंस्थूलमितीर्य्यते बुधेः। नभोनभस्वद्दहनाम्बुमूमयः सू-क्ष्माणि भूताति भवन्ति तानि। परस्परांशैर्मिलितानिभूत्वा स्थूलानि च स्थूलशरीरहेतवः। मात्रास्तदीयाविषया भवन्ति शब्दादयः पञ्च सुखाय भोक्तुः। यएषु मूढा विषयेषु बद्ध्वा रागोरुपाशेन सुदुर्दमेन। आयान्ति निर्य्यान्त्यध ऊर्द्ध्वमुच्चैः स्वकर्मदूतेन जवेन[Page4977-a+ 38] नीताः। शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्वगुणेन बद्धाः। कुरङ्गमातङ्गपतङ्गमीनभृङ्गा, नरः पञ्च-भिरञ्चितः किम्?। दोषेण तीव्रा विषयः कृष्णसर्प-विषादपि। विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्य-यम्। विषयाशा महापाशात् यो विमुक्तः सुदुस्त्यजात्। स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि। आपात-वैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतियातुमुद्यतान्। आशाग्रहो मज्जयतेऽन्तराले निगृह्य कण्ठे विनिवर्त्यवेगात्। विषयाख्यग्रहो येन सुविरक्त्यसिना हतः। स गच्छति भवाम्भाधेः पारं प्रत्यूहवर्जितः। विषम-विषयमार्गैर्गच्छतो नष्टबुद्धेः प्रतिपदमभियातो मृत्युरप्येष सिद्धिः। हितसुजनगुरूक्त्या गच्छतः स्वस्ययुक्त्या प्रभवति फलसिद्धिः सत्यमित्येव विद्धि। मो-क्षस्य काङ्क्षा यदि वै तवास्ति त्यजातिदूराद्विषयान्विषं यथा। पीयूषवत्तोषदयाक्षमार्जवप्रशान्तिदान्तीर्भजनित्यमादरात्”।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैराग्य¦ n. (-ग्यं) Subjection of the appetite and passions, absence of worldly desires. E. विराग and ष्यञ् aff.: see वैराग |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैराग्यम् [vairāgyam], [विरागस्य भावः ष्यञ्]

Absence of worldly desires or passions, indifference to the world, asceticism; अभ्यासेन च कौन्तेय वैराग्येण च गृह्यते Bg.6.35;13.8.

Dissatisfaction, displeasure, discontent; कामं प्रकृति- वैराग्यं सद्यः शमयितुं क्षमः R.17.55.

Aversion, dislike.

Grief, sorrow.

Change or loss of colour. -Comp. -शतकम् N. of a Bhartṛihari's work (one among the शतकत्रयी).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैराग्य n. change or loss of colour , growing pale Sus3r. Ka1m.

वैराग्य n. disgust , aversion , distaste for or loathing of( loc. abl. , or comp. ) Bhag. Ragh. etc.

वैराग्य n. freedom from all worldly desires , indifference to worldly objects and to life , asceticism Up. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=वैराग्य&oldid=291564" इत्यस्माद् प्रतिप्राप्तम्