व्यभिचारी
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्यभिचारी, [न्] पुं, (ब्यभिचरतीति । वि + अभि + चर + णिनिः ।) चतुस्त्रिंशत्प्रकार- शृङ्गारभावविशेषः । तद्यथा । निर्व्वेदः २ ग्लानिः २ शङ्का ३ असूया ४ मदः ५ श्रमः ६ आलस्यम् ७ दैन्यम् ८ चिन्ता ९ मोहः १० स्मृतिः ११ धृतिः १२ व्रीडा १३ चपलता १४ हर्षः १५ आवेगः १६ जडता १७ गर्व्वः १८ विषादः १९ औत्सुक्यम् २० निद्रा २१ अपस्मरः २२ सुप्तः २३ विबोधः २४ अमर्षः २५ अवहित्थः २६ उग्रता २७ मतिः २८ उपलम्भः २९ व्याधिः ३० उन्मदः ३१ मरणम् ३२ त्रासः ३३ वितर्कः ३४ । इति हेमचन्द्रः ॥ (अस्य लक्षणादिकं यथा, साहित्यदर्पणे । ३ । १६८ । “विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । स्थायिन्युन्मग्ननिर्म्मग्नास्त्रयस्त्रिंशच्च तद्भिदाः ॥” के ते इत्याह । “निर्व्वेदावेगदैन्यश्रममदजडता औग्र्यमोहौ विबोधः स्वप्नापस्मारगर्व्वा मरणमलसतामर्षनिद्रा- वहित्थाः ॥ औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसत्रासलज्जा हर्षासूयाविषादाः सधृतिचपलताम्लानिचिन्ता वितर्काः ॥” एतेषां लक्षणादिकं तत्रैव विशेषतो द्रष्टव्यम् ॥) त्रि, व्यभिचारविशिष्टः । (स्वमार्गच्युतः । यथा, कथासरित्सागरे । १५ । ५५ । “लब्धापि मन्त्रिताख्यातिरस्माकं यान्यथा भवेत् । स्वामिसंभावनायाश्च भवेम व्यभिचारिणः ॥” अनित्यः । आगमापायी । यथा, भागवते । ११ । ३ । ३८ । “नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद्व्यभिचारिणां हि ॥”)