यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनः, पुं, (शक + उनः ।) पक्षिमात्रम् । (यथा, महाभारते । १ । ७२ । १० । “तं वने विजने गर्भं सिंहव्याघ्रसमाकुलं । दृष्ट्वा शयानं शकुनाः समन्तात् पर्य्यवारयन् ॥”) पक्षिविशेषः । गृध्र इति ख्यातः । इति मेदिनी ॥ कश्यपपत्नीताम्रायाः श्येनगृध्रादयः पुत्त्राः । इति श्रीभागवतम् ॥ गृध्रस्याशुभफलं यथा, -- “वामेऽपसव्ये पुरतश्च पृष्ठे युद्धं विभेदं मरणं स्त्रियश्च । गृध्रः स्थितः सन् कुरुते क्रमेण शब्दोऽपसव्योऽस्य विपत्तिहेतुः ॥” इति वसन्तराजशाकुनम् ॥ विप्रभेदः । इत्युणादिकोषः । तद्विवरणं भाग- वते उक्तम् । गीतविशेषः । तत्तु उत्सवादिषु मङ्गलार्थगेयम् । इत्यजयपालः ॥ शुभशंसी । इति शब्दरत्नावली ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनः [śakunḥ], [शक्-उनन् Uṇ.3.49]

A bird (in general); केनेदृशी जातु परा हि दृष्टा वागुच्यमाना शकुनेन संस्कृता Mb.3. 197.11; शकुनोच्छिष्टम् Y.1.168.

A kind of bird, a vulture or kite.

A kind of song (sung at festivals).

नम् An omen, a prognostic, any omen presaging good or evil, अशकुनेन स्खलितः किलेतरो$पि Śi.9.83.

An auspicious omen. -Comp. -ज्ञ a. knowing omens. (-ज्ञा) a small house-lizard. -ज्ञानम् knowledge of omens, augury. -शास्त्रम् 'the science of omens', N. of a work.

"https://sa.wiktionary.org/w/index.php?title=शकुनः&oldid=305996" इत्यस्माद् प्रतिप्राप्तम्