यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शय्या, स्त्री, (शी शयने + “संज्ञायां समजेति ।” ३ । ३ । ९९ । इति क्यप् ।) गुम्फनम् । इति मेदिनी ॥ शीयते यत्र सा । तत्पर्य्यायः । शय- नीयम् २ शयनम् ३ । इत्यमरः ॥ तल्पम् ४ । इति जटाधरः ॥ शयनीयकम् ५ । इति शब्द- रत्नावली ॥ तस्या गुणाः । “सुखशय्यासनं सेव्यं निद्रापुष्टिधृतिप्रदम् । श्रमानिलहरं शस्तं विपरीतमतोऽन्यथा ॥ भूशय्यानिलपित्तघ्नी वृंहणी शुक्रवर्द्धिनी । खट्वा तु वांतला प्रोक्ता पट्टो रूक्षोऽतिवा- तलः ॥” इति राजवल्लभः ॥ * ॥ अपि च । “त्रिदोषशमनी खट्वा तूली वातकफापहा । भूशय्या वृंहणी वृष्या काष्ठपट्टी तु वातला ॥” अन्यत् पुनराह । “भूशय्या वातलातीव रूक्षा पित्तास्रनाशिनी । सुशय्याशयनं हृद्यं पुष्टिनिद्राधृतिप्रदम् । श्रमानिलहरं वृष्यं विपरीतमतोऽन्यथा ॥” इति भावप्रकाशः ॥ * ॥ तद्गमनविधानं यथा, -- “कृतपादावशौचश्च भुक्त्वा सायं ततो गृही । गच्छेत् शय्यामस्फुटितामेव दारुमयीं नृप ॥ नाविशालां न वै भग्नां नासमां मलिनां न च । न च जन्तुमयीं शय्यामधिगच्छेदनास्तृताम् ॥” इति विष्णुपुराणे ३ अंशे ११ अध्यायः ॥ * ॥ तद्दानफलं यथा । याज्ञवल्क्यः । “गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् । यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥” प्रियं यद्यस्य हर्म्म्यादि । प्रतिग्रहसमर्थेन शय्या न प्रत्याख्येया । यथा याज्ञवल्क्यः । “कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः । मांसशय्यासनं धानाः प्रत्याख्येयं न वारि च ॥” मृतोद्देश्यकदत्तशय्याग्रहणे दोषो यथा । ब्रह्म- पुराणम् । “शय्यालङ्कारवस्त्रादि प्रतिगृह्य मृतस्य च । नरकान्न निवर्त्तन्ते धेनुं तिलमयीं तथा ॥” * ॥ सा च औत्तानाङ्गिरोदेवताका । यथा, -- “छत्रं कृष्णाजिनं शय्यां रथमासनमेव च । उपानहौ तथा यानं तथा यत् प्राणवर्ज्जितम् । औत्तानाङ्गिरसन्त्वेतत् प्रतिगृह्णीत मानवः ॥” इति शुद्धितत्त्वम् ॥ * ॥ पुष्पाभिषेके शय्यापट्टकं यथा, -- “सर्व्वरत्नमलङ्कारं पट्टं कार्य्यं द्बिहस्तकम् । हस्तविस्तार उच्छ्राये दशाङ्गुल्यः सुशोभनम् ॥ स्नानाख्यं सार्द्धहस्तन्तु पट्टं वृत्तासनान्वितम् । शय्याख्यं द्विगुणा दैर्घ्याद्धनुर्मानं सपीठकम् ॥” इति देवीपुराणे त्रैलोक्याभ्युदयपादे पुष्पाभि- षेकनामाध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शय्या स्त्री।

शय्या

समानार्थक:शय्या,शयनीय,शयन,तल्प,औशीर,तूलि

2।6।137।2।3

रचना स्यात्परिस्यन्द आभोगः परिपूर्णता। उपधानं तूपबर्हः शय्यायां शयनीयवत्.।

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शय्या¦ स्त्री शी--आधारे क्यष्।

१ खट्वायाम् अमरः। भावेक्यप्।

२ शयने

३ गुम्फने मेदि॰।
“त्रिदोषशमनी खद्वा तूलौवातकफापहा। भूशय्या वृंहणी वृष्या काष्ठपट्टी तुवातला”।
“भूशय्या वातलातीव रूक्षा पित्तास्वनाशिनी। सुशय्याशयनं हृद्यं पुष्टिनिद्राधृतिप्रदम्। श्रमानिलहरंवृष्यं विपरीत मतोऽन्यथा” भावप्र॰। तद्वमनविधानंयथा
“कृतपादावशौचश्च भुक्त्वा सायं ततो गृही। गच्छेत् शय्यामस्फुटितामेव दारुमयीं नृप!। नावि-शालां न वै भग्नां नासमां मलिनां न च। न चजन्तुमयीं शय्यामधिगच्छेदनास्तृताम्”। विष्णुपु॰

३ अशे

११ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शय्या¦ f. (-य्या)
1. A bed, a couch, a sopha.
2. Tying in knots, stringing. E. शी to sleep, क्यप् aff., and अयङ् substituted for the vowel.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शय्या [śayyā], [शी आधारे क्यप्]

A bed, couch; शय्या भूमि- तलम् Śānti.4.9; मही रम्या शय्या Bh.3.79; R.5.66.

Sleeping.

Tying, stringing together. -Comp. -अध्यक्षः, -पालः the superintendent or guardian of a king's bed-chamber. -अन्तः a sleeping place; शय्यान्ते कुलमलिनां क्षणं विलीनम् Ki.7.31. -उत्थायम् ind. early in the morning. -उत्सङ्गः the side of a bed. -गत a.

lying in a bed.

confined to a bed. -गृहम् a bedchamber; अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः R.16.4.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शय्या f. ( ifc. f( आ). )a bed , couch , sofa( acc. with सं-विश्or अधि-ष्ठा[ स्था] , " to go to bed or to rest " ; with Caus. of आ-रुह्, " to take [a woman] to bed , have sexual intercourse with " [acc.] ; शय्यायाम्आ-रूढmfn. " gone to bed , lying in bed ") Shad2vBr. etc.

शय्या f. lying , reposing , sleeping Ka1tyS3r. Mn. MBh. etc.

शय्या f. resort , refuge(See. comp. )

शय्या f. stringing together ( esp. of words = गुम्फनor शब्दगुम्फ) , rhetorical composition or a partic. rhetor. figure L. (" couch " and " rhetor. composition " Ka1d. , Introd. , v. 8 ).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--bed; characteristics of a good one; फलकम्:F1: Vi. III. ११. १११-12.फलकम्:/F to sleep on, with head to the east or south to avoid disease. फलकम्:F2: Ib. III. ११. ११३.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=शय्या&oldid=504799" इत्यस्माद् प्रतिप्राप्तम्