शरीरम्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शरीरम्, क्ली, (शॄ + “कॄशॄपॄकटिपटिशौटिभ्य ईरन् ।” उणा० ४ । ३० । इति ईरन् ।) शीर्य्यते रोगादिना यत् । तत्पर्य्यायः । कले- वरम् २ गात्रम् ३ वपुः ४ संहननम् ५ वर्ष्म ६ विग्रहः ७ कायः ८ देहः ९ मूर्त्तिः १० तनुः ११ तनूः १२ । इत्यमरः ॥ क्षेत्रम् १३ पुरम् १४ घनः १५ अङ्गम् १६ पिण्डम् १७ । इति राज- निर्घण्टः ॥ भूतात्मा १८ स्वर्गलोकेशः १९ स्कन्धः २० पञ्जरः २१ कुलम् २२ बलम् २३ आत्मा २४ । इति जटाधरः ॥ स्कन्धम् २५ । इति शब्दरत्नावली ॥ इन्द्रियायतनम् २६ भूः २७ मूर्त्तिमत् २८ करणम् २९ वेरम् ३० सञ्चरः ३१ बन्धः ३२ पुद्गलम् ३३ । इति हेम- चन्द्रः ॥ * ॥ शरीरधर्म्मा यथा, -- “शरीरे भस्मसाद्भूते प्रतिविम्बः स चात्मनः । जीवस्तत्रान्तरीक्षस्य उवाच विनयं विभुम् ॥ जीव उवाच । सदुक्तिर्व्वा कदुक्तिर्व्वा कोपः सन्तोष एव च । लोभो मोहश्च कामश्च क्षुत्पिपासादिकञ्च यत् ॥ स्थौल्यं कार्श्यञ्च नाशश्च दृश्यादृश्यं समुद्भवम् । सर्व्वं शरीरधर्म्मश्च न जीवस्य न चात्मनः ॥ सत्त्वं रजस्तम इति शरीरं त्रिगुणात्मकम् । तच्च नानाप्रकारञ्च प्रबोध कथयामि ते ॥ किञ्चित् सत्त्वातिरिक्तञ्च किञ्चिदेव रजो- ऽधिकम् । तमोऽतिरिक्तं किञ्चिच्च न समं कुत्रचिन्मुने ॥ सत्त्वाद्दया च मुक्तीच्छा कर्म्मेच्छा च रजो- गुणात् । तमोगुणाज्जीवहिंसा कोपोऽहङ्कार एव च ॥ कोपात् कदुक्तिर्नियतं कदुक्त्या शत्रुता भवेत् । तया चाप्रियता सद्यः शत्रुः कः कस्य भूतले ॥ को वा प्रियोऽप्रियो वा कः किं मित्रं को रिपुर्भुवि । इन्द्रियाणि च जीवानि सर्व्वत्र शत्रुमित्रयोः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २४ अः ॥ * ॥ अथ स्त्रीपुंसयोः सर्व्वाङ्गानि पादाग्रादिशिरः- पर्य्यन्तानि । प्रपदम् १ अङ्घ्रिः २ गुल्फः ३ पार्ष्णिः ४ जङ्घा ५ जानु ६ ऊरुः ७ वङ्क्षणः ८ कटिः ९ त्रिकम् १० नितम्बः ११ स्फिक् १२ वस्तिः १३ उपस्थः १४ ककुन्दरम् १५ जघनम् १६ जठरम् १७ नाभिः १८ वलिः १९ स्तनः २० चूचकम् २१ क्रोडम् २२ रोम २३ कक्षः २४ अंसः २५ वक्षः २६ दोः २७ पार्श्वः २८ प्रगण्डः २९ कुर्परः ३० हस्तः ३१ प्रकोष्ठः ३२ मणिबन्धः ३३ अङ्गुलिः ३४ अङ्गुष्ठः ३५ करभः ततो मायाब्रवीत् कोपात् सा च दुर्गा प्रकी- र्त्तिता ॥ न मयास्य विना भूतिरित्युक्त्वान्तर्दधे पुनः । ततो दिशः समुत्तस्थुरूचुश्चैव वचो महत् ॥ नास्माभी रहितं कायं भवतीति न संशयः । चतस्र आगताः काष्ठा अपयाताः क्षणात्तदा ॥ ततो धनपतिर्व्वायुर्मध्ये तत्पक्तसम्भवः । शरीरस्येति सोऽप्येवमुक्त्वा मूर्द्धानगोऽभवत् ॥ ततो विष्णोर्मनो ब्रूयात् नायं देहो मया विना । क्षणमप्युत्सहे स्त्रातुमित्युक्त्वान्तर्दधे पुनः ॥ ततो धर्म्मोऽब्रवीत् सर्व्वमिदं पालितवाहनम् । इदानीं मय्युपगते कथमेतद्भविष्यति । एवमुक्त्वा गते धर्म्मे तच्छरीरं न शीर्य्यते ॥ ततोऽब्रवीन्महादेवश्चाव्यक्तो भूतनायकः । महत्संज्ञो मया हीनं शरीरं नो भवेद्यथा ॥ एवमुक्त्वा गतः शम्भुस्तच्छरीरं न शीर्य्यते । तद्दृष्ट्वा पितरश्चोचुस्तन्मात्रा यावदस्मभिः ॥ प्राणान्तरेभिरेतश्च शरीरं शीर्य्यते ध्रुवम् । एवमुक्त्वा तु तं देहं त्यक्त्वान्तर्द्धानमागताः ॥ अग्निः प्राणः अपानश्च आकाशश्चैव धातवः । क्षेत्रं तद्बत्त्वहंकारो भानुः कामादयो मया ॥ काष्ठा वायुर्व्विष्णुधर्म्मौ शम्भुश्चैवेन्द्रियार्थकाः । एतैर्मुक्तन्तु तत् क्षेत्रं मुक्ताविव सुसंस्थितम् ॥ सोमेन पाल्यमानन्तु पुरुषेणेन्दुरूपिणा । एवं व्यवस्थिते सोमे षोडशात्मन्यथाक्षरे ॥ प्राग्वत्तत्र गुणोपेतं क्षेत्रमुत्थाय यद्भवेत् । प्रागवस्थं शरीरन्तु दृष्ट्वा सर्व्वज्ञपालितम् ॥ ताः क्षेत्रदेवताः सर्व्वा वैलक्ष्यं भावमाश्रिताः तमेवं तुष्टुवुः सर्व्वास्तं देवं परमेश्वरम् ॥” इति वाराहे महातपोपाख्याननामाध्यायः ॥ * शरीरान्नं यथा, -- “शरीरमापः सोमश्च विविधं चान्नमुच्यते । प्राणो ह्यग्निस्तथादित्यस्त्रिभोक्ता एक एव तु ॥” इति गारुडे २१५ अध्यायः ॥ * ॥ मानसकायिकक्लेशसाध्यव्रतं यथा, -- धरण्युवाच । “कथमाराध्यसे देव भक्तिमद्भिर्नरैर्विभो । स्त्रीभिर्व्वा सर्व्वमेतन्मे शंस त्वं भूतभावन ॥ वाराह उवाच । भावसाध्यस्त्वहं देवि न वित्तैर्न जपैरहम् । साध्यस्तथापि भूतानां कायक्लेशं वदामि ते ॥ कर्म्मणा मनसा वाचा मच्चित्तो यो नरो भवेत् । तस्य व्रतानि वक्ष्येऽहं विविधानि निबोध मे ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यमकल्कता । एतानि मानसान्याहुर्व्रतानि तु धराधरे ॥ एकभक्तं तथा नक्तमुपवासादिकञ्च यत् । तत् सर्व्वं कायिकं पुंसां व्रतं भवति नान्यथा ॥” इति वाराहे सत्यतपोपाख्याननामाध्यायः ॥
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शरीरम् [śarīram], [शॄ-ईरन् Uṇ.4.31]
The body (of animate or inanimate objects); शरीरमाद्यं खलु धर्मसाधनम् Ku.5.33.
The constituent element; शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली Kāv.1.1; शरीरमसि संसारस्य U.7.
Bodily strength.
A dead body.
One's own person, individual soul (जीवात्मा); यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति । तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते ॥ Ms.11.229. -Comp. -अन्तः the hairs on the body.
अन्तरम् the interior of the body.
another body. -आकारः, -आकृतिः bodily gesture or mien.
आवरणम् the skin.
a shield.-कर्तृ m. a father. -कर्षणम् emaciation of the body; शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणनां यथा Ms.7.112. -ग्रहणम् assumption of a bodily form. -चिन्ता care of the body (like washing etc.).
जः sickness.
lust, passion.
the god of love; शरीरजसमाविष्टा राक्षसी राममब्रवीत् Rām. 3.17.12.
a son, offspring; शरीरजेभ्यश्च्युतयूथपङ्क्तयः Ki.4.31. -तुल्य a. equal to, i. e. as dear as, one's own person. -त्याग renunciation of life.
दण्डः corporal punishment.
mortification of the body (as in penance). -देशः a part the body.
धातुः a chief constituent of the body.
a relic of Buddha's body (as bone, tooth etc.). -धृक् a. having a body. -पक्तिः purification of the body. -पतनम्, -पातः shuffling off the mortal coil, death. -पाकः emaciation (of the body). -प्रभवः a begetter, father. -बद्ध a. endowed with a body, embodied, incarnate; शरीरबद्धः प्रथमाश्रमो यथा Ku.5.3.
बन्धः the bodily frame; शरीरबन्धेन तिरोबभूव R.16.23.
being endowed with a body; i. e. birth as an embodied being; तनुत्यजां नास्ति शरीरबन्धः R.13.58.-बन्धकः a hostage. -भाज् a. embodied, incarnate. (-m.) a creature, an embodied being; शरीरभाजां भवदीय- दर्शनं व्यनक्ति कालत्रितये$पि योग्यताम् Śi.1.26. -भेदः separation of the body (from the soul), death; प्राप्ते शरीरभेदे Sāṅ. K.68. -यष्टिः f. a slender body, slim or delicate figure.-यात्रा means of bodily sustenance; नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येकर्मणः ॥ Bg. 3.8. -रक्षकः a body-guard. -रत्नम् an excellent body.-विमोक्षणम् the emancipation of the soul from the body. -वृत्तिः f. maintenance or support of the body; स त्वं मदीयेन शरीरवृत्ति देहेन निर्वर्तयितुं प्रसीद R.2.45. -वैकल्यम् bodily ailment, sickness, disease. -शुश्रुषा personal attendance.
संस्कारः decoration of the person.
purification of the body by the performance of the several purificatory saṁskāras; कार्यः शरीरसंस्कीरः Ms.2.26. -संपत्तिःf. the prosperity of body, (good) health. -संबन्धः relation by marriage. -सादः leanness of body, emaciation; शरीरसादादसमग्रभूषणा R.3.2. -स्थानम् the doctrine about the human body. -स्थितिः f.
the maintenance or support of the body; वन्यं शरीरस्थितिसाधनं वः R.5.9.
taking one's meals, eating (frequently used in Kādambarī).