यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश, प्लवने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।) शशी शशिशुशीः शशन्निति किरातयमकात् । शशति भेकः प्लवेन गच्छ तीत्यर्थः । तृ फल भज इत्यत्र वर्ज्जनमस्यैव । दन्त्यान्तोऽयमपीत्येके । इति दुर्गादासः ॥

शशः, पुं, (शशति प्लवेन गच्छतीति । शश + अच् ।) मृगविशेषः । इत्यमरः ॥ शशारु इति खरगोश इति च भाषा ॥ (यथा, मनौ । २ । २७० । “शशकूर्म्मयोस्तु मांसेन मासानेकादशैव तु ॥”) अस्य मांसगुणाः । स्वादुत्वम् । कषायत्वम् । मलबद्धकारित्वम् । शीतत्वम् । लघुत्वम् । शोथातीसारपित्तरक्तनाशत्वम् । रूक्षत्वञ्च । इति राजवल्लभः । अपि च । “शशमांसं त्रिदोषघ्नं दीपनं श्वासकासनुत् ॥” इति राजनिर्घण्टः ॥ अन्यच्च । “शशः शूली लोमकर्णो विलेशयः प्रकीर्त्तितः । शशः शीतो लधुर्ग्राही रूक्षः स्वादुः सदा हितः ॥ वह्निकृत् कफपित्तघ्नो वातसाधारणः स्मृतः । ज्वरातीसारशोषास्रश्वासामयहरश्च सः ॥” इति भावप्रकाशः ॥ श्राद्धेऽस्य मांसस्य दानफलं यथा, -- “हविष्यान्नेन वै मासं पायसेन च वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनिच्छागपार्षतैः ॥ ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः ॥” इति श्राद्धतत्त्वम् ॥ विष्णवे एतन्मांसस्य देयत्वं यथा, -- “मार्गं मांसं तथा च्छागं शाशं समनुयुज्यते । एतानि हि प्रियाणि स्युः प्रयोज्यानि वसुन्धरे ॥” इत्येकादशीतत्त्वम् ॥ चन्द्रलाञ्छनः । इति धरणिः ॥ वोलः । लोध्रः । मनुष्यविशेषः । इति मेदिनी ॥ स तु चतुर्व्विध- पुरुषान्तर्गतपुरुषविशेषः । तस्य लक्षणं यथा, -- “मृदुवचनसुशीलः कोमलाङ्गः सुकेशः सकलगुणनिधानः सत्यवादी शशोऽयम् ॥” इति रतिमञ्जरी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश पुं।

शशः

समानार्थक:शश

2।5।11।1।6

गन्धर्वः शरभो रामः सृमरो गवयः शशः। इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः॥ अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश¦ प्लुतगतौ भ्वा॰ पर॰ सक॰ सेट्। शशस्ति। अशाशीत् अशशीत्

शश¦ पुं स्त्री॰ शश--अच्। पशुभेदे (खरगोश) अमरः। स्वार्थेक। तत्रैव।
“शशः शीतो लघुर्ग्राही रूक्षः स्वादुः सदा हितःवह्निकृत् कफपित्तघ्नो वातसाधारणः स्मृतः। ज्वर[Page5091-a+ 38] तिसारशोषाम्रश्वासामयहरश्चसः” भावप्र॰। श्राद्धे तन्मांसदाने फलभेदः श्रा॰ त॰ उक्तो यथा
“ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम्। मासवृद्ध्याभितृप्यन्तिदत्तेनेह पितामहाः” तन्मासं विष्णवे देयं यथोक्तं
“मार्गं मांसं तथा छागं शाशं समनुषज्यते। एतानिमे प्रियाणि स्युः प्रपद्यानि वसुन्धरे!”। वराहपु॰

२ चन्द्रा-ङ्करूपेमृगे धरणिः।

३ बोले

४ लोध्रे

५ नरभेदे मेदि॰। तल्लक्षणं यथा
“मृदुवचनसुशीसः कोमलाङ्गः सुकेशःसकलगुणनिधानं सत्यवादी शशोऽयम्” रतिम॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश¦ m. (-शः)
1. A hare or rabbit.
2. The Lo4d'h-tree, (Symplocos race- mosa.)
3. Gum myrrh.
4. A man of mild and virtuous character, but uxorous and woman-led, one of the four characters in which men are classed by erotic writers.
5. The spots on the moon, sup- posed to resemble the figure of a hare. E. शश् to go by leaps or jumps, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशः [śaśḥ], 1 A hare, rabbit; Ms.3.27;5.18.

The spots on the moon (which are popularly considered to resemble the form of a hare).

One of the four classes into which men are divided by erotic writers; thus defined; मृदुवचनसुशीलः कोमलाङ्गः सुकेशः सकलगुणनिधानं सत्यवादी शशो$यम् Śabdak.; see Ratimañjarī 35 also.

The Lodhra tree.

Gum-myrrh.

An antelope.

Comp. अङ्कः the moon; रामाभिधानमपरं जगतः शशाङ्कम् Pratimā 4.1.

camphor. ˚अर्धमुख a. crescent-headed (as an arrow). ˚मूर्तिः an epithet of the moon. -लेखा the digit of the moon, lunar crescent.

अदः a hawk, falcon.

N. of a son of Ikṣvāku, father of पुरंजय. -अदनः a hawk, falcon. -ऊर्णम्, -लोमन्n. the hair of a rabbit, hair-skin.

धरः the moon; उत्पातधूमलेखाक्रान्तेव कला शशधरस्य Māl.9.49; प्रसरति शशधर- बिम्बे Gīt.7.

camphor. ˚मौलिः an epithet of Śiva.-पदम् a hare's track (easily got over). -प्लुतकम् a scratch with a finger-nail. -भृत् m. the moon. ˚भृत् m. an epithet of Śiva. -रजस् n. a particular measure.-लक्ष्मणः an epithet of the moon.

लाञ्छनः the moon; यदि स्यात् पावकः शीतः प्रोष्णो वा शशलाञ्छनः Pt.4.51; Ku. 7.6.

camphor.

बि(वि)न्दु the moon.

an epithet of Viṣṇu. -विषाणम्, -शृङ्गम् a hare's horn; used to denote anything impossible, an utter impossibility; कदाचिदपि पर्यटञ् शशविषाणमासादयेत् Bh.2.5; शशशृङ्ग- धनुर्धरः; see खपुष्प. -स्थली the country between the Ganges and Yamunā, the Doab.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश m. a hare , rabbit , or antelope (the markings on the moon are supposed to resemble a hare or rabbit) RV. etc. etc. (for शशस्य व्रतSee. under कर्षू, p.260)

शश m. a kind of meteor AV. v , 17 , 4

शश m. N. of a man born under a partic. constellation VarBr2S.

शश m. a man of mild character and easily led (one of the four classes into which men are divided by erotic writers , the other three being अश्व, मृगand वृषन्) L.

शश m. the लोध्रtree , Symplocos Racemosa Ka1d.

शश m. gum-myrrh L.

शश m. N. of a part of जम्बु-द्वीपMW.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the flesh of the hare, good for श्राद्ध. M. १७. ३३.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaśa, ‘hare,’ is found once in the Rigveda,[१] where it is said to have swallowed a razor. The animal is occasionally mentioned later also.[२]

  1. x. 28, 2. Later, a goat supplants the hare in this curious story;
    see Bo7thling, Proceedings of the Saxon Academy, 1894, et seq.
  2. Vājasaneyi Saṃhitā, xxiii. 56;
    xxiv. 38;
    Maitrāyaṇī Samhitā, iii. 14, 15;
    the hare in the moon, Śatapatha Brāhmaṇa, xi. 1, 5, 3.

    Cf. Zimmer, Altindisches Leben, 84.
"https://sa.wiktionary.org/w/index.php?title=शश&oldid=504833" इत्यस्माद् प्रतिप्राप्तम्