यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकिनी, स्त्री, (शाकोऽस्त्यत्रेति । शाक + इनिः ।) शाकयुक्ता भूमिः । यथा, -- “शकटः शाकिनी गावो जालमस्पन्दनं वनम् । अनूपं पर्व्वतो राजा दुर्भिक्षे नव वृत्तयः ॥” शकटा धान्यादिवहनद्बारेणोपजीव्यः । “पत्रं पुष्पं फलं कन्दं नालं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्यात् यथोत्तरम् ॥” इति वैद्योक्तशाकयोगात् शाकिनीगृहवाटिका- शाकाद्याहरणेन । गावो दुग्धादिना । जालं मत्स्याद्याहरणेन । अस्पन्दनं स्वस्थानादत्यागः ऋणादिलाभेन । व्ययाधिक्यनिवृत्त्या च । वनं फलपुष्पाद्याहरणेन । अनूपं बहूदकदेशः समृणालशालूकाद्याहरणेन । पर्व्वतो गैरिक- मृदाद्याहरणेन । राजा भैक्षादिना । इत्या- ह्रिकतत्त्वम् ॥ * ॥ दुर्गाया अनुचरीविशेषः । यथा, -- “डाकिनी योगिनी चैवखेचरी शाकिनी तथा । दिक्षु पूज्या इमा देव्यः सुसिद्धाः फलदायिकाः ॥” इति कात्यायनीकल्पः ॥ “ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । ततः परशिवो देवि षट्शिवाः परिकीर्त्तिताः ॥ मूलाधारे तु ब्रह्माणं डाकिनीसहितं न्यसेत् ॥ सर्व्वत्रं त्र्यक्षरीमुक्त्वा वादिसान्तं सबिन्दुकम् ॥ स्वाधिष्ठानाख्यचक्रे तु सविष्णुं राकिणीं तथा । वादिलान्तं प्रविन्यस्य नाभौ तु मणिपूरके ॥ डादिफान्तार्णसहितं रुद्रञ्च लाकिनीं तथा । अनाहते कादिठान्तं ईश्वरं काकिनीं तथा ॥ विशुद्धाख्ये महाचक्रे षोडशस्वरसंयुतम् । सदाशिवं शाकिनीन्तु विन्यसेत् पूर्व्ववत्ततः ॥ आज्ञाचक्रे तु देवेशि ह-क्ष-वर्णसमन्वितम् । परं शिवं ब्रह्मरूपं हाकिनीसहितं न्यसेत् ॥” इति तारान्यासभेदः । इति तन्त्रसारः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकिनी¦ स्त्री शाकमस्त्यस्याः उत्पद्यत्वेन इनि।

१ शाकभव-नयोग्यायां मूमौ गृहवाटिकायाम्

२ देवीसहचरीभेदे च।
“डाकिनी योगिनी चैव खेचरी शाकिनी तथा। दिक्षुपूज्या इमा देव्यः सुसिद्धिफलदायिकाः” कात्या॰ कल्प॰। कण्ठदेशस्थे विशुद्धाख्ये चक्रे स्थितायां

३ देवीशक्तौ च
“विशुद्धाख्ये महाचक्रे षोडशस्वरसंयुते। सदाशिवंशाकिनीञ्च विन्यसेत् पूर्ववत्ततः” तन्त्रसा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकिनी¦ f. (-नी)
1. A female divinity of an inferior character, attendant especially on S4IVA and DURGA
4.
2. A field of vegetables. E. शाक, इनि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकिनी [śākinī], [शाकमस्त्यस्या इनि]

A field of vegetables.

A kind of female being attendant on Durgā (supposed to be a demon or fairy).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकिनी f. ( इनी)a kind of female demon attendant on दुर्गाPan5cat. Katha1s.

शाकिनी f. (See. under शाकिन्)a field or land planted with vegetables or potherbs L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति in Kiricakra. Br. IV. २०. १६.

"https://sa.wiktionary.org/w/index.php?title=शाकिनी&oldid=438544" इत्यस्माद् प्रतिप्राप्तम्