शिविर
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिविरम्, क्ली, (शेरते राजबलान्यत्र । शीङ स्वप्ने + बाहुलकात् किरच्प्रत्ययेन साधु । इत्युणादि- वृत्तौ उज्ज्वलदत्तः । १ । ५४ ।) निवेशः । इत्य- मरः ॥ द्वे आगन्तुकसैन्यवासे । कटके इत्यन्ये । नृपस्य मूलस्थाने इत्येके । इति भरतः ॥ “शिविरन्तु निवेशे च क्लीवन्तु युद्धवेश्मनि ॥” इत्युणादिकोषः ॥ * ॥ अथ शिविरलक्षणम् । श्रीभगवानुवाच । “शिविरं परिखायुक्तमुच्चैःप्राकारवेष्टितम् । युक्तद्वादशद्वारञ्च सिंहद्वारपुरस्कृतम् ॥ युक्तं चित्रैव्विचित्रैश्च कृत्रिमैश्च कपाटकैः । निषिद्धवृक्षरहितं प्रसिद्धेश्च पुरस्कृतम् । सुलक्षणं चन्द्रवेधं प्राङ्गणञ्च तथैव च ॥” तत्र विहितनिषिद्धकाष्ठे यथा, -- विश्वकारुरुवाच । “कस्य कस्य तरोः काष्ठं प्रशस्तं शिविरे प्रभो । अमङ्गलञ्च केषां वा सर्व्वं मां वक्तुमर्हसि ॥ श्रीभगवानुवाच । आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः । शिविरस्य यदीशाने पूर्व्वे पुत्त्रप्रदस्तरुः ॥ सर्व्वत्र मङ्गलार्हश्च तरुराजो मनोहरः । रसालवृक्षः पूर्व्वस्मिन् नृणां सम्पत्प्रदस्तथा ॥ प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् । मालती यूथिका कुन्दमाधवी केतकी तथा ॥ नागेश्वरं मल्लिका च काञ्चनं वकुलं शुभम् । अपराजिता च सुभदा तेषामुद्यानमीप्सितम् ॥ पूर्व्वे च दक्षिणे चैव शुभदं नात्र संशयः । ऊर्द्ध्वं षोडशहस्तेभ्यो नैवं कुर्य्याद्गृहं गृही ॥ ऊर्द्ध्वं विंशति हस्तेभ्यः प्राकारं न शुभप्रदम् । सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम् ॥ वाटीमूले ग्राममध्ये न कुर्य्यात् स्थापनं बुधः । ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम् ॥ भट्टं वैद्यं पुष्पकारं स्थापयेत् शिविरान्तिके ॥ * प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् । परितः शिविराणाञ्च गम्भीरं दशहस्तकम् ॥ सङ्केतपूर्वकञ्चैव परिखाद्वारमीप्सितम् । शत्रीरगम्यं मित्रस्य गम्यमेव सुखेन च ॥ शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैव च । निम्बानां सिन्धूवाराणां उडम्बराणामभद्रकम् ॥ धुस्तूराणां वटानाञ्चाप्येरण्डानामवाञ्छितम् । एतेषामतिरिक्तानां शिविरे काष्ठमीप्सितम् ॥ वृक्षञ्च वज्रहतकं दूरतो वर्जयेद्बुधः । पुत्त्रदारधनं हन्यादित्याह कमलोद्भवः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिविर¦ न॰ शो + किरच् वुक् च। कटके सैन्यनिवासस्थाने। शिविरलक्षणमुक्तं यथा
“शिविरं परिखायुक्तमुच्चैःप्राकारवेष्टितम्। युक्तद्वादश-द्वारञ्च सिंहद्वारपुरस्कृतम्। युक्तं चित्रैर्विचित्रैश्चकृत्रिमैश्च कपाटकैः। निषिद्धवृक्षरहितं प्रसिद्धैश्चपुरस्कृतम्। सुलक्षणं चन्द्रवेधं प्राङ्गिणञ्च तथैव च”। तत्र विहितनिषिद्धवृक्षादि यथा
“आश्रमे नारिकेलश्चगृहिणाञ्च धनप्रदः। शिविरस्य यदीशाने पूर्वे पुत्र-प्रदस्तरुः। सर्वत्र मङ्गलार्हश्च तरुराजी मनोहरः। रसालवृक्षः पूर्वस्मिन्नृणां सम्पत्प्रदस्तथा। शुभ-प्रदश्च सर्वत्र सुरकारो! निशामय। बिल्वश्च पन-सश्चैव जम्बीरो बदरी तथा। प्रजाप्रदश्च पूर्वस्मिन्दक्षिणे धनकस्तथा। सम्पत्प्रदश्च सर्वत्र यतो हि वर्द्धतेगृही। जम्बुवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा। बन्धुपदश्च पूर्वस्मिन् दक्षिणे मित्रदस्तथा। सर्वत्र शुभ-दश्चैव धनपुत्रशुभप्रदः। हर्षप्रदो गुवाकश्च दक्षिणेपश्चिमे तथा। ईशाने सुखदश्चैव सर्वत्रैव निशामय। सर्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा। अलाबुश्चापिकुष्माण्डं मायाम्बुश्च सुकामुकः। खर्जुरी कर्कटीचापि शिविरे मङ्गलप्रदाः। वास्तूकः कारवेल्लश्च वार्त्ता-कुश्च शुभप्रदाः॥ लताफद्धञ्च शुभदं सर्वं सर्वत्र निश्चि-[Page5120-a+ 38] तम्। प्रशस्तं कथितं कारो! निषिद्धञ्च निशामय। वन्यवृक्षा निषिद्धश्च शिविरे नगरेऽपि च। वटो निषिद्धःशिविरे नित्यं चौरभयं ततः। नगरेषु प्रसिद्धश्च दर्श-नात् पुण्यदस्तथा। हे कारो! तिन्तिडीवृक्षो यत्नात्तंपरिवर्जय। शरेण धनहानिः स्यात् प्रजाहानिर्भवेत्ध्रुवम्। शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव च। ननिषिद्धः प्रसिद्धश्च ग्रामेषु नगरषु च। वृक्षश्च चणका-दीनां धान्यञ्च मङ्गलप्रदम। ग्रामेषु नगरे चापिशिविरे च तथैव। इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा। अशाकश्च शिरीषश्च कदम्बश्च शुभप्रदाः। । कच्ची हरिद्राशुभदा शुभदश्चार्द्रकस्तथा। हरीतकी च शुभदा ग्रा-मेषु नगरेषु च। न वाठ्यां भद्रदा नित्यं तथा चाम-लकी ध्रुवम्। गजानामस्थि शुभदमश्वानाञ्च तथैव च। कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम्। नशुभप्रदमन्येषामुच्छन्नकारणं परम्। वानराणां नरा-णाञ्च गर्दभानां गवामपि। कुक्कुराणां शृगालानांमार्ज्जाराणामभद्रकम्। भेटकानां शूकराणां सर्वेषाञ्चाशुभप्रदम्। ईशाने चापि पूर्वस्मिन् पश्चिमे च तथोत्तरे। शिविरस्य जलं भद्रमन्यत्राशुभमेव च। दीर्घे प्रस्थेसमानञ्च न कुर्य्यान्मन्दिरं बुधः। चतुरस्रे गृहे कारो!गृहिणां धननाशनम्। दीर्घप्रस्थः परिमितो नेत्राङ्के-नापि संहृतः। शून्येन रहितं भद्रं शून्यं शून्यप्रदंनृणाम। प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयं तथा। गृहिर्णा शुभदं द्वारं प्राकारस्य गृहस्य च। न मध्य-देशे कर्त्तव्य किञ्चिन्न्यूनाधिके शुभम्। चतुरस्रं चन्द्र-वेधं शिविरं मङ्गलप्रदम्। अभद्रं सूर्य्यवेधञ्च प्राङ्गणञ्चतथैव च। शिविराभ्यन्तरे भद्रा स्थापिता तुलसीनृणाम्। धनपुत्रप्रदात्री च पुण्यदा हरिभक्तिदा। प्रभात तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत्। मालतीयूथिका कुन्दोमाधवी केतकी तथा। नागेश्वरं मल्लिकाच काञ्चनं वकुलं शुभम्। अपराजिता च शुभदा तेषा-मुद्यानमीप्सितम्। पूर्वे च दक्षिणे चैव शुभदं नात्र-संशयः। ऊर्द्ध्वं षोडशहस्तभ्यो नैवं कुर्य्याद् गृहंगृही। ऊर्द्ध्वं विशतिहस्तेभ्यः प्राकारं न शुभ-प्रदम्। सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम्। वाटीमूले ग्राममध्ये न कुर्य्यात् स्थायिनं बुधः। ब्राह्मणंक्षत्रियं वैश्यं सच्छूद्रं गणकं शुभम्। भट्टं वैद्यं पुष्प-कारं स्थापयेत् शिविरान्तिके! प्रस्थे च परिखामानं[Page5120-b+ 38] शतहस्तं प्रशस्तकम्। परितः शिविराणाञ्च गम्भीरंदशहस्तकम्। सङ्केतपूर्वकञ्चैव परिस्वाद्वारमीप्सितम्। शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च। शाल्मलीनांतिन्तिडीनां हिन्तालानां तथैव च। निम्बानां सिन्धु-वाराणां उडम्बराणामभद्रकम्। धुस्तूराणां वटानाञ्चा-प्येरण्डानामवाञ्छितम्। एतेषामतिरिक्तानां शिविरेकाष्ठमीप्सितम्। वृक्षञ्च वज्रहेतकं दूरतो वर्जयेद्बुधः। पुत्रदारधनं हन्यादित्याह कसलोद्भवः” ब्रह्म-वै॰ ख॰
१०
२ अ॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिविर¦ n. (-रं)
1. A camp.
2. A royal camp or residence.
3. A guard or defence for the soldiers.
4. A sort of grain. E. शी to sleep or rest, किरक् Una4di aff. and वुक् augment.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शिविर etc. See. शिबिर, p.1072.