यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशुकः, पुं, (शिशोरिव प्रतिकृतिः । शिशु + इवार्थे कन् ।) जलजन्तुविशेषः । शुशुक् इति भाषा । तत्पर्य्यायः । उलूपी २ । इत्यमरः ॥ द्वे उपल इति ख्याते अति चञ्चले मत्स्ये । शिशु माराकृतिर्म्मत्स्यभेदः उलूपी । इति कलिङ्गा- दयः । शोशु इति ख्यातो मत्स्यविशेषः उलूपी- त्यन्ये । भा~गाल इति ख्याते इत्येके । शिशुमार एव उच्यते इति सर्व्वस्वम् । तथा च रत्न- कोषादौ ‘चुलुपी शिशुमारः स्यादुलूपी शिशुक- स्तथा ।’ ऊर्द्ध्वं लुम्पति भ्राम्यति उलूपी लुप ऌ शपञौ छेदे उत्पूर्व्वः ग्रहादित्वाण्णिन् मनी- षादित्वात् तलोपः लोर्दीर्घश्च द्विह्रस्वोकारो- ऽपि । ‘शिशुकस्तूलुपी बालः प्रोष्ठी तु सफरी द्वयोः ।’ इति वाचस्पतिः । चुलुपीति चवर्गादि- पाठ इति केचित् । शिशुरिव शिशुकः । ‘शिशुकः शिशुमारेऽपि बालकोलुपिनोरपि ॥’ इति रुद्रः ॥” इति भरतः ॥ अपि च । “उलुपी स्यादुलुपीव चुलुम्पी चुलुकी तथा । शिशुकश्चेति पर्य्यायः शिशुमाराकृतौ झसे । कैश्चिदुत्पलमत्स्ये तु पर्य्यायोऽयं निगद्यते ॥” इति शब्दरत्नावली ॥ “शिशुकः शिशुमारश्च स च ग्राहो वराहकः ॥” इति राजनिर्घण्टः ॥ * ॥ शिशुमारः । (यथा, महाभारते । १२ । २९ । २७ । “कूर्म्मान् कर्कटकान् नक्रान् मकरान् शिशु- कानपि ॥”) बालकः । इति मेदिनी ॥ (यथा, कथासरित्- सागरे । २१ । ३९ । “शिशुकद्वयसंयुक्ता ब्राह्मणी कापि दुर्गता । द्वारि स्थिता महाराज देवदर्शनकाङ्क्षिणी ॥”) वृक्षविशेषः । इति हेमचन्द्रः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशुक पुं।

शिशुमार-आकारमत्स्यः

समानार्थक:उलूपिन्,शिशुक

1।10।18।1।4

सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ। नलमीनश्चिलिचिमः प्रोष्ठी तु शफरीद्वयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशुक¦ पुंस्त्री॰ शिशुरिव इवार्थे कन्।

१ जलजन्तुभेदे (शुशुक)राजानि॰ स्त्रियां ङीष्।

२ बालके मेदि॰।

३ वृक्षभेदे हेमच॰
“जा{??}त्रः शिशुस्तावत् यावदष्टौ समा वयः। स हिगर्भसमोज्ञेयो व्यक्तिमात्रप्रदर्शकः। भक्ष्याभक्ष्ये तथापेये वाच्यावाच्ये तथाऽनृते। तस्मिन् काले न दोषःस्यात् स यावन्नोपनीयते” मनुः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशुक¦ m. (-कः)
1. A porpoise.
2. Another fish, resembling a porpoise.
3. A child, a young animal.
4. A tree. E. कन् added to the last.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशुकः [śiśukḥ], 1 A child, an infant; को$प्येष वीरशिशुकाकृति- रप्रमेयसामर्थ्यसारसमुदायमयः पदार्थः Mv.2.39.

The young of any animal.

A tree.

A porpoise.

A fish resembling a porpoise.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशुक m. a child , young AV. etc.

शिशुक m. a kind of aquatic animal( accord. to L. a porpoise or Delphinus Gangeticus) MBh.

शिशुक m. a kind of tree L.

शिशुक m. N. of a king VP.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the आन्ध्र king who vanquished शुशर्मा, the कण्व: ruled for २३ years. M. २७३. 2.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śiśuka in the Atharvaveda[] seems to be an adjective meaning ‘young,’ but according to Bloomfield[] it has the sense of ‘foal.’ The commentator, Sāyaṇa, reads Śuśuka, which he explains as a ‘wild animal so called.’ Cf. Āśuṃga.

  1. vi. 14, 3. Cf. Whitney, Translation of the Atharvaveda, 291.
  2. Hymns of the Atharvaveda, 464.
"https://sa.wiktionary.org/w/index.php?title=शिशुक&oldid=474818" इत्यस्माद् प्रतिप्राप्तम्