यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्यः त्रि, (शिष्यतेऽसाविति । शास + “एतिस्तु- शास्वृदृजुषः क्यप् ।” ३ । १ । १०९ । इति क्यप् । “शाम इदङ्हलोः ।” ६ । ४ । ३४ । इति इः । “शास- वमीति” । ८ । ३ । ६० । इति षः ।) उपदेश्यः । तत्- पर्य्यायः । छात्रः २ अन्तेवासी ३ । इत्यमरः ॥ अन्तेसत् ४ । अन्तेषदः ५ । यथा, -- “छात्रान्तेवासिशिष्यान्तेषद एकार्थता इमे ॥” इति जटाधरः ॥ तस्य लक्षणं यथा, -- “वाङ्मनः कायवसुभिर्गुरुशुश्रूषणे रतः । एतादृशगुणोपेतः शिष्यो भवति नारद ॥ देवताचार्य्यशुश्रूषां मनोवाक्कायकर्म्मभिः । शुद्धभावो महोत्साहो बोद्धा शिष्य इति स्मृतः ॥” इति दीक्षातत्त्वम् ॥ अपिच । “शान्तो विनीतः शुद्धात्मा श्रद्धावान् धारण- क्षमः । समर्थश्च कुलीनश्च प्राज्ञः मच्चरितो व्रती । एवमादिगुणैर्युक्तः शिष्यो भवति नान्यथा ॥” * ॥ निषिद्धशिष्यलक्षणमाह । “पापिने क्रूरचेष्टाय शठाय कृपणाय च । दीनायाचारशून्याय मन्त्रद्वेषपराय च ॥ निन्दकाय च मूर्खाय तीर्थद्वेषपराय च । भक्तिहीनाय देवेशि न देया मलिनाय च ॥ मुरुता शिष्यता वापि तयोर्वत्सरवासतः ॥” तथा चोक्तं सारसंग्रहे । “मद्गुरुः स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् । वर्षेकेन भवेद्योग्यो विप्रो गुणसमन्वितः ॥ वर्षद्वयेन राजन्यो वैश्यस्तु वत्सरैस्त्रिभिः । चतुर्भिर्वत्सरैः शूद्रः कथिता शिष्ययोग्यता ॥” इति तन्त्रसारः ॥ * ॥ अन्यच्च । “आचारे शासयेद्यस्तु स आचार्य्य उदाहृत । यस्त्वाचार्य्यपराधीनस्तद्वाक्यं शास्यते हृदि । शामने स्थिरवृत्तिश्च शिष्यः सद्भिरुदाहृतः ॥ एवं लक्षणसंयुक्तं शिष्यं सर्व्वगुणान्वितम् । अध्यापयेद्विधानेन मन्त्ररत्नमनुत्तमम् ॥” इति पाद्मोत्तरखण्डे २५ अध्यायः ॥ * ॥ पुत्त्रशिष्ययोस्तुल्यत्वं यथा, -- “यथा पुत्त्रस्तथा शिष्यो न भेदः पत्त्रशिष्ययोः । तर्पणे पिण्डदाने च पालने परिपोषणे ॥ यथाग्निदाता पुत्त्रश्च तथा शिष्यश्च निश्चितम् । इतीदं काण्वशाखायामुवाच कमलोद्भवः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ६१ अध्यायः ॥ पुत्त्रशिष्याभ्यां विशेषो यथा, -- सनत्कुमार उवाच । “पुत्त्र एवास्मि देवेश यतः शिष्योऽस्म्यहं विभो । न विशेषोऽस्ति पुत्त्रस्य शिष्यस्य च पितामह ॥ ब्रह्मोवाच । विशेषः शिष्यपुत्त्राभ्यां विद्यते धर्म्मनन्दन । धर्म्मकर्म्मसमायोगे तथापि गदतः शृणु ॥ पुन्नाम्नो नरकात्त्राति पुत्त्रस्तेनेह गीयते । शेषपापहरः शिष्यैतीयं वैदिकी श्रुतिः ॥ सनत् कुमार उवाच । कोऽयं पुन्नामको देव नरकात्त्राति पुत्त्रकः । कस्माच्छेषं ततः पापं हरेच्छिष्यश्च तद्वद ॥” इति वामने ५७ अध्यायः ॥ ब्रह्मोवाच । “अतः परं प्रवक्ष्यामि शेषपापस्य लक्षणम् । ऋणं देवर्षिभूतानां मनुष्याणां विशेषतः ॥ पितॄणाञ्च द्विजश्रेष्ठ सर्व्ववर्णेषु चैकतः । ओ~ कारादिनिवृत्तिश्च पापकार्य्यकृतिश्च या ॥ हत्यादिकं महापापं त्वगम्यागमनं तथा । घृतादिविक्रयं घोरं चण्डालादिप्रतिग्रहम् ॥ स्वदोषगोपनं पापं परदोषप्रकाशनम् । ईर्ष्याविद्धं वाक्यदुष्टं निष्ठुरत्वं षडम्बरम् ॥ ढाकित्वं तालवादित्वं नाम्ना वाचाप्यधर्म्मजम् । मारणत्वमधार्म्मिक्यं नरकावहमुच्यते ॥ एतैः पापैश्च संयुक्तः पात्यते यदि शङ्करम् । ज्ञानाधिकमशेषेण शेषात् पापात् जयेत्ततः ॥ शारीरं वाचिकं यत्तु मानसं त्रिविधं तथा । पितृमातृकृतं यच्च कृतं यच्चाश्रितैर्नरैः ॥ ज्ञातिभिर्ब्बान्धवैश्चापि तस्मिन् जन्मनि धर्म्मज तत्सर्व्वं विलयं याति कर्म्मणा सुतशिष्ययोः ॥ तस्मात् पुत्त्रश्च शिष्यश्च विधातव्यो विपश्चिता । श्रुतमर्थमभिध्याय शिष्यात् श्रेष्ठतरः सुतः । शेषात्तारयते शिष्यः सर्व्वत्रैव हि पुत्त्रकः ॥” इति वामने ५८ अध्यायः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्यः [śiṣyḥ], [शास्-क्यप्]

A pupil, disciple, scholar; दिष्यस्ते$हं शाधि मां त्वां प्रपन्नम् Bg.2.7.

Anger, passion.

Violence, force. -Comp. -परंपरा a succession of pupils.-पुत्रः a pupil regarded as a son. -शिष्टिः f. the correction of a pupil.

"https://sa.wiktionary.org/w/index.php?title=शिष्यः&oldid=333695" इत्यस्माद् प्रतिप्राप्तम्