यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवम्, क्ली, शैवालः । इति शब्दचन्द्रिका ॥ (शिवमधिकृत्य कृतो ग्रन्थः । शिव + अण ।) शिवपुराणम् । यथा -- “अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते । ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा ॥” इति मलमासतत्त्वे विष्णुपुराणम् ॥ (शिवस्येदमिति । शिव + अण् ।) शिवसम्ब- न्धिनि, त्रि (यथा । कथासरित्सागरे । ४० । ८९ । “प्रापदायतनं शैवं नद्यास्तस्यास्तटस्थितम् ॥”) शैवः, पुं, (शिव + अण् ।) वसुकः । धुस्तूरः । इति राजनिर्घण्टः ॥ आचारविशेषः । यथा, -- “अष्टाङ्गयोगसंयुक्तो यजेद्देवीं विधानतः । यावद्ध्यानं समाधिश्च तावत् शैवः प्रचक्षते ॥” इत्याचारभेदतन्त्रम् ॥ * ॥ शिवोपासकः । तत्पर्य्यायः । और्द्ध्वश्रोतसिकः २ इति त्रिकाण्डशेषः । एतद्भेदा यथा -- “ततश्चकार भगवान् चातुर्व्वर्ण्यं हरार्च्चने । शास्त्राणि चैषां मुख्यानि नानोक्तिविदितानिच आद्यं शैवं परिख्यातमन्यत् पाशुपतं मुने ! । तृतीयं कालवदनं चतुर्थञ्च कपालिनम् ॥ शैव आसीत् स्वयं शक्तिर्व्व शिष्टस्य प्रियः सुतः । तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः ॥ महापाशुपतस्त्वासीद्भारद्वाजस्तपोधनः । तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः ॥ कालास्यो भगवानासीदापस्तम्बस्तपोधनः । तस्य शिष्यो वको वश्यो नाम्ना क्राथेश्वरो मुने ॥ महाव्रती च धनदस्तस्य शिष्यश्च वीर्य्यवान् । कुल्लोदर इति ख्यातो जात्या शूद्रो महातपाः ॥ एवं स भगवान् ब्रह्मा पूजनाय शिवस्य च । कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः ॥” इति वामने ६ अध्यायः ॥ * ॥ तस्य स्वरूपं यथा । आयान्तं शैवमालोक्याह । “श्रीमानसावेति जटालमौलि- र्व्याघ्रत्वगालम्बितमध्यभागः । विभूतिसंभूषितभास्वदङ्गो रुद्राक्षमालाकलितोर्द्ध्वदेहः ॥” इति विद्वन्मोदतरङ्गिण्यां २ तरङ्गः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैव¦ न॰ शिवमधिकृत्य कृतो ग्रन्यः अण्। वेदव्यासप्रणीतेशिवप्रभाववर्णनात्मके

१ महापुराणभेदे। शिवो देवताऽस्यअण्।

२ शिवभक्ते त्रि॰। तस्मेदमण्।

३ शिवसम्बन्धिनित्रि॰

४ शैवले न॰ शब्दच॰। शैवञ्च महापुराणं वायुना प्रोक्तत्वात् वायवीयनाम्ना-ख्यातम् अतएव
“अष्टादश पुराणानि पुराणज्ञाः प्रच-क्षते। ब्राह्म पाद्मं वैष्णवञ्च शैवं भागवतं तथा” हेमा॰व्र॰ विष्णुपु॰
“शैवं यद्वायुना प्रोक्तम्” तत्रैव कालिकापु॰उक्तम्। हेमा॰ दा॰ मत्स्यपुराणे तु चतुर्थं वायवीयत्वेनपठित्वा
“श्वेतकल्पप्रसङ्गेन धर्मान् वायुरिहाब्रवीत्। तत्र यद्वायवीयं स्याद्रुद्रमाहात्म्यसंयुतम्। चतुर्विंशति-माहस्रं पुराणं तदिहोच्यते। श्रावण्यां श्रावणे मासिगुडधेमुसमन्वितम्। यो दद्याद्दधिसंयुक्तं ब्राह्मणायकुटुम्बिने। शिवलोके स गूढात्मा कल्पमेकं वसेन्नरः” तथा च शिवमाहात्मवेदकत्वाच्छैवमिति तस्य नामान्तरंविष्णुपु॰ उक्तम्। वायुना प्रोक्तत्वाच्च वायवीयमिति नामा-न्तरमिति बाध्यम्। तत्प्रतिपाद्यविषयाश्च नारदीयपु॰उक्ता यथा
“शृणु वत्स! प्रवक्ष्यामि पुराणं वायवीयकम्। यस्मिन् श्रुते लभेद्धाम रुद्रस्य परमात्मनः। चतुर्थविंशति-साहस्रं तत्पुराणं प्रकीर्त्तितम्। श्वेतकल्पप्रसङ्गेन धर्मा-गटत्राह मारुतः। तद्वायवीयमुदितं भागद्वयसमाचितम्” तत्र पूर्वभागे
“सर्गादिलक्षणं यत्र प्रोक्तं विप्र! सवि-स्तरम्। मन्वन्तरेषु वंशाश्च राज्ञां ये तत्र कीर्त्तिताः। गयासुरस्य हननं विस्तरात् यत्र कीर्त्तितम्। मासानांचात्र माहात्म्यं पाथस्योक्तं फलाधिकम्। दानधर्मा राज-धर्मा त्रिस्तरेणोदितास्तथा। भूपातालककुब्व्योमचारिणांतत्र निर्णयः। व्रतादीनां च पूर्व्योऽयं विभागः समुदा-हृतः”। उत्तरभागे
“उत्तरे तस्य भागे तु नर्मदातीर्थव-र्णनम्। शिवस्य संहिताख्या वै विस्तरेण मुनीश्वर!। यो देवः सर्वदेवानां दुर्विज्ञेयः सनातनः। स तु सर्वात्मनायस्यास्तीरे तिष्ठति सन्ततम्। इदं ब्रह्मा हरिरिदंसाकाक्षेदं परो हरः। इदं ब्रह्म निराकारं कैवल्यंवर्मदाजनम्। घ्रुवं लोकहितार्थाय शिवेन स्वशरीरतः। शक्तिः नापि सरिद्रूपा लेखेयमवतारिता। ये वसन्त्युत्तरे[Page5142-b+ 38] कूले रुद्रस्यानुचरा हि ते। वसन्ति याम्यतीरे, ये लोकंते यान्ति वैष्णवम्। ओङ्कारेश्वरमारभ्य यावत् पश्चिम-सागरम्। सङ्गमाः पञ्च च त्रिंशन्नदीनां पापनाशनाः। दशैकमुत्तरे तीरे त्रयोविंशतिर्दक्षिणे। पञ्चत्रिंशत्तमःप्रोक्तोरेबासागरसङ्गमः। सङ्गमैः सहितान्येवं रेवातीरद्वयेऽपि च। चतुःशतानि तीर्थानि प्रसिद्धाति च सन्तिहि। पंष्टितीर्थसहस्राणि षष्टिकोट्यो मुनीश्वर!। सन्तिचान्यानि रेवायास्तीरयुग्मे पदे पदे। संहितेयं महापुण्या शिवस्य परमात्मनः। नर्मदाचरितं यत्र वायुनापरिकीर्त्तितम्। लिखित्वेदं पुराणन्तु गुडधेनुसम-न्वितम्। श्रावण्यां यो ददेत् भक्त्या ब्राह्मणाय कुटु-म्बिने। रुद्रलोके वसेत् सोऽपि यावदिन्द्राश्चतुर्दश। यःश्रावयेद्वा शृणुयात् वायवीयमिदं नरः। नियमेन हवि-ष्यासी स रुद्रो नात्र संशयः”।

५ वसुके

६ धस्तूरे पु॰राजनि॰

७ आचारभेदे पु॰
“अष्टाङ्गयोगसंयुक्तो यजे-द्देवीं विधानतः। यावद् ध्यानं समाधिञ्च तावत् शैवंप्रचक्षते” च वारभेदतन्त्रम्। तदुपासकभेदाश्च शिवलिङ्ग-शब्दे वामनपु॰ उक्ता दृश्याः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैव¦ mfn. (-वः-वी-वं) Relating or appertaining to the god S4IVA. m. (-वः) A worshipper of S4IVA. n. (-वं) An aquatic plant, (Vallisneria octandra.) E. शिव the deity, and अण् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैव [śaiva], a. (-वी f.) [शिवो देवता$स्य अण्] Relating to the god Śiva.

वः N. of one of the three principal Hindu sects.

A member of the Śaiva sect.

The thorn-apple. -वम् N. of one of the eighteen Purāṇas, of a Śāstra or Tantra.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैव mf( ई)n. (fr. शिव)relating or belonging or sacred to the god शिव, coming or derived from शिवR. Katha1s. Pur. etc.

शैव m. patr. fr. शिवPa1n2. 4-1 , 112

शैव m. " a worshipper or follower of शिव" , N. of one of the three great divisions of modern Hinduism (the other two being the वैष्णवs and शाक्तs , qq. vv. ; the शैवs identify शिव-rather than ब्रह्माand विष्णु-with the Supreme Being and are exclusively devoted to his worship , regarding him as the source and essence of the universe as well as its disintegrator and destroyer ; the temples dedicated to him in his reproducing and vivifying character [as denoted by the लिङ्गSee. ] are scattered all over India ; the various sects of शैवs are described in RTL. 86 etc. )

शैव m. a particular religious rite in honour of दुर्गा(consisting of devout meditation and prostration of the body) MW.

शैव m. the thorn-apple L.

शैव m. a kind of plant(= वसुक) L.

शैव m. (with जैनs) , N. of the fifth black वासुदेवL.

शैव n. auspiciousness , welfare , prosperity BhP.

शैव n. N. of a शास्त्रand of a तन्त्रand of a पुराण(See. below).

शैव वृद्धिform of शिवin comp.

शैव n. a kind of aquatic plant , Blyxa Octandra L.

शैव w.r. for शैब.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the sin of being of an ardent type. Br. IV. 8. ४४.

"https://sa.wiktionary.org/w/index.php?title=शैव&oldid=438978" इत्यस्माद् प्रतिप्राप्तम्