शोक
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शोकः, पुं, शुच + घञ् ।) चित्तविकलता । इष्टवियोगानुचिन्तनम् । इति नागोजीभट्टः ॥ बन्ध्वादिवियोगजनिता मनःपीडा । इति भाव- प्रकाशः ॥ तत्पर्य्यायः । मन्युः २ शुक् ३ । इत्य- मरः ॥ शुचा ४ निशमः ५ । इति शब्दरत्ना- वली ॥ शोचनम् ६ खेदः ७ । इति हेमचन्द्रः ॥ तन्निवारणहेतुर्यथा, -- “भरतं पतितं दीनं शोचन्तं सुभृशं तदा । शोचमानं वशिष्ठस्तु वारयामास हेतुभिः ॥ शोचमानस्तु सस्नेहा बान्धवाः सुहृदस्तथा । पातयन्ति गतं स्वर्गादश्रुपातेन राघव ॥ भूरिद्युम्नो गतः स्वर्गं पुण्येन पतितः पुनः । शोचितो बन्धुवर्गश्च मृतस्ने हं परित्यज ॥” इति वह्निपुराणम् ॥ अपि च । अथ शोकापनोदनम् । याज्ञवल्क्यः ॥ “कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थि- तान् । स्नातानपनुदेयुस्तानितिहासैः पुरातनैः ॥ मानुष्ये कदलीस्तम्भे निःसारे सारमार्गणम् । यः करोति स संमूढो जलवुद्वुदसन्निभे ॥ पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः । कर्म्मभिः स्वशरीरोत्थैस्तत्र का परिवेदना ॥ गन्त्री वसुमती नाशमुदधिर्दैवतानि च । फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ श्ले ष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यहि क्रियाकार्य्या विधानतः ॥” इति शुद्धितत्त्वम् ॥ अन्यच्च । श्रीभगवानुवाच । “अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासंश्च नानुशोचन्ति पण्डिताः ॥ अव्यक्तोऽयमचिन्त्योऽयमविकार्य्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥ जातस्य हि ध्रुवो मृत्युर्ध्नुवं जन्म मृतस्य च । तस्मादपरिहार्य्येऽर्थे न त्वं शोचितुमर्हसि ॥ देही नित्यमवध्योऽयं देहे सर्व्वस्य भारत । तस्मात् सर्व्वाणि भूतानि न त्वं शोचितुमर्हसि ॥” इति श्रीभगवद्गीतायाम् २ अध्यायः ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शोक पुं।
शोकः
समानार्थक:मन्यु,शोक,शुच्
1।7।25।1।5
वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम्. पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि॥
पदार्थ-विभागः : , गुणः, मानसिकभावः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शोक¦ पु॰ शुच--घञ्। इष्टवियोगजाते दुःखानुगुणे चित्त-वृत्तिभेदे अमरः। ल्युट् शोचनमप्यत्र न॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शोक¦ m. (-कः) Sorrow, grief. E. शुच् to regret, aff. घञ् |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शोकः [śōkḥ], [शुच्-घञ्] Sorrow, grief, distress, affliction, lamentation, wailing, deep anguish; श्लोकत्वमापद्यत यस्य शोकः R.14.7. -Comp. -अग्निः, -अनलः the fire of grief. -अपनोदः removal of grief. -अभिभूत, -आकुल, -आविष्ट, -उपहत, -विह्वल a. afflicted or agonized by grief. -अरिः the Kadamba tree. -कर्षित a. afflicted or agonized with grief. -चर्चा indulgence in grief. -नाशः the Aśoka tree. -निहत a. overcome with sarrow.-परायण, -लासक a. engrossed in grief, wholly given up to grief. -रुग्ण a. broken down with sarrow. -विकलa. overwhelmed with grief. -स्थानम् any cause of sorrow.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शोक etc. See. p. 1091 , col. 1.
शोक mfn. ( शुच्)burning , hot AV.
शोक m. ( ifc. f( आ). )flame , glow , heat RV. AV. S3Br.
शोक m. sorrow , affliction , anguish , pain , trouble , grief for( gen. or comp. ) RV. etc.
शोक m. Sorrow personified (as a son of Death or of द्रोणand अभिमति) Pur.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a son of द्रोण and a Vasu. भा. VI. 6. ११.
(II)--a son of मृत्यु. वा. १०. ४१.