श्यामा
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्यामा, स्त्री, (श्यामो वर्णोऽस्त्यस्या इति । अच् । टाप् ।) शारिवौषधी । अप्रसूताङ्गना । प्रियङ्गुः । वागुजिः । यमुना । रात्रिः । कृष्ण- त्रिवृतिका । नीलिका । इति मेदिनी ॥ गुग्- गुलुः । सोमलता । गुन्द्रा । कृष्णा । अम्बिका । इति विश्वः ॥ गुडूची । कस्तूरी । वटपत्री । वन्दा । नीलपुनर्नवा । पिप्पली । हरिद्रा । नीलदूर्व्वा । तुलसी । पद्मवीजम् । गौः । स्त्री । छाया । कृष्णसारिवा । शिंशपा । इति राजनिर्घण्टः ॥ (नारीविशेषः । यथा, भट्टिः । ५ । १८ । “योषिद्वृन्दारिका तस्य दयिता हंसनादिनी । दूर्व्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला ॥” तल्लक्षणं यथा, तट्टीकायाम् । “शीते सुखोष्णसर्व्वाङ्गी ग्रीष्मे च सुख- शीतला । तप्तकाञ्चनवर्णाभा सा स्त्री श्यामेति कथ्यते ॥”) पक्षिविशेषः । शामा इति भाषा । तत्पर्य्यायः । वराही २ शकुनी ३ कुमारी ४ दुर्गा ५ देवी ६ चटका ७ कृष्णा ८ पोतकी ९ पाण्डविका १० वामा ११ कालिका १२ शितिसिम्बिनी १३ । इति राजनिर्घण्टः ॥ * ॥ श्यामाया उत्पत्तिर्यथा, “ततः सा कालिका देवी योगनिद्रा जगन्मयी । पूर्व्वत्यक्तसतीरूपा जन्मार्थं मेनकां ययौ ॥ समयस्यानुरूपेण मेनका जठरे शिवा । सम्भूय च समुत्पन्ना सा लक्ष्मीरिव सागरात् ॥ वसन्तसमये देवी नवम्यां मृगयोगतः । अर्द्धरात्रौ समुत्पन्ना गङ्गेव शशिमण्डनात् ॥ ततस्तस्यान्तु जातायां प्रसन्नाश्चाभवन् दिशः । सानुकूलो ववौ वायुर्गम्भीरो गन्धिलः शुभः ॥ ज्ञानार्णवे । “सर्व्वविघ्नोपशान्त्यर्थं रक्षाकालीं प्रपूजयेत् । शनिमङ्गलवारे च प्रदोषे पूजयेत् शिवाम् ॥ चतुर्द्दश्याममायां वा नवम्यामष्टमीतिथौ । पूजनात् वरदा काली यथेप्सितफलप्रदा ॥” कालीकूलसर्व्वस्वे । “निशामुखे महेशानी काली रक्षार्थमादरात् पूजनीया नृभिः सर्व्वैरुपचारसमन्वितैः । वित्तशाठ्यं न कर्त्तव्यं यथाविभवविस्तरैः ॥” निरुत्तरतन्त्रे । “बलिदानन्तु विधिवत् मधुभिः पायसे न च । पूपैर्म्मोदकसंघैश्च पृथुकैः श्रीफलैरपि ॥ नानाफलैः शाकसूपैः पञ्चतत्त्वै र्म्महेश्वरीम् । पूजयेद्विघ्नशान्त्यर्थं कालीं रक्षाविधायिनीम् ॥ प्रदोषसमये पूजा कर्त्तव्या भूतिमिच्छता । रात्रौ विसर्ज्जनं कार्य्यं क्रीडाकौतुकमङ्गलैः ॥ भैरवतन्त्रे । “अथ वक्ष्ये महेशानि घोरे मारीभये तथा । औत्पातिके च दुर्भिक्षे युद्धे राष्ट्रभयागते । पूजां कुर्य्यात् महाकाल्या रक्षार्थं पञ्चपर्व्वसु ॥ प्रदोषकाले संपूज्य निशायान्तु विसर्ज्जयेत् । मुहूर्त्तद्वितयं कालः प्रदोषोऽस्तमयात्ततः ॥” तन्त्रान्तरे । “निशामुखे महाकालीं महामारीभये शिवाम् कालीं त्रैलोक्यरक्षार्थं पूजयेत् रक्षणात्मि- काम् ॥” * ॥ अथ फलहारीपूजाप्रमाणम् । “मधुमासे सिताष्टम्यां वैशाखत्रितयेऽहनि । पौर्णमास्यां तथा ज्यैष्ठे अमायाञ्च महेश्वरि ॥” इत्यादि । “आमायां कार्त्तिके चैवनवम्यां शुक्लपक्षके ।” इति कात्यायनीतन्त्रे ७८ पटलः ॥ “ज्यैष्ठे मासि तथामायां सफलं कालिकार्च्च नम् ।” इत्युत्तरकामाख्यातन्त्रे ११ पटलः ॥ “ज्यैष्ठे मासि अमायां वै मध्यरात्रे महेश्वरि । पूजयेत् कालिकां देवीं नानाद्रव्योपहारकैः ॥ तत्रैव सितपक्षे तु पञ्चदश्यां निशार्द्धके । पूजयेच्च फलैर्लक्षैः शक्तितो वापि कालिकाम् ॥” इति मायातन्त्रे २७ पटलः ॥ अथ रटन्तीपूजाप्रमाणम् । “माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी । तस्यां निशार्द्ध समये पूजयेन्मुण्डमालिनीम् ॥” इति मायातन्त्रे १७ पटलः ॥ “मकरस्थे रवौ कृष्णचतुर्द्दश्यां निशार्द्धके । पूजयेद्दक्षिणां कालीं धर्म्मकामार्थसिद्धये ॥” इत्युतरकामाख्यातन्त्रे ९ पटलः ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्यामा स्त्री।
प्रियङ्गुवृक्षः
समानार्थक:श्यामा,महिलाह्वय,लता,गोवन्दनी,गुन्द्रा,प्रियङ्गु,फलिनी,फली,विष्वक्सेना,गन्धफली,कारम्भा,प्रियक
2।4।55।1।3
कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया। लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
श्यामा स्त्री।
श्यामत्रिधारा
समानार्थक:श्यामा,पालिन्दी,सुषेणिका,काला,मसूरविदला,अर्धचन्द्रा,कालमेषिका
2।4।108।2।3
सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत्. त्रिभण्डी रोचनी श्यामापालिन्द्यौ तु सुषेणिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
श्यामा स्त्री।
शारिवा
समानार्थक:गोपी,श्यामा,शारिवा,अनन्ता,उत्पलशारिवा
2।4।112।1।2
गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा। योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
श्यामा स्त्री।
रात्रिः
समानार्थक:शर्वरी,निशा,निशीथिनी,रात्रि,त्रियामा,क्षणदा,क्षपा,विभावरी,तमस्विनी,रजनी,यामिनी,तमी,वसति,श्यामा,दोषा,दोषा,नक्तम्
3।3।143।2।2
क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु। त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा॥
अवयव : रात्रिप्रारम्भः,रात्रिमध्यः,प्रहरः
: अत्यन्धकाररात्रिः, चन्द्रिकायुक्तरात्रिः, दिनद्वयमध्यगता_रात्रिः
पदार्थ-विभागः : , द्रव्यम्, कालः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्यामा¦ स्त्री श्यै--{??}।
१ शारिवौषधौ
२ अप्रसूताङ्गनायां
३ प्रियङ्गौ
४ यमुनायां
५ वागुजौ
६ रात्रौ
७ कृष्णत्रिवृति
८ नील्यां मेदि॰
९ गुग्गुलौ
१० सोमलतायां
११ गुन्द्रायां
१२ कृष्णायाम्
१३ अम्बिकायां विश्वः।
१४ गुडूच्यां
१५ क-स्तूर्य्यां
१६ षटपत्त्र्यां
१७ वन्दायां
१८ नीलपुनर्नवायां
१९ पिप्पात्यां
२० हरिद्रायां
२१ नीलदूर्वायां
२२ तुलस्यां
२३ पद्मवीजे
२४ गवि
२५ छायायां
२६ कृष्णशारिकायां
२७ शिशपायां
२८ पक्षिभेदे (शामा) राजनि॰।
“शीतकाले भवेदुष्णा ग्रीष्मे च सुखशीतला। तप्तका-ञ्चनवर्णाभा सा स्त्री श्यामेति कीर्त्तिता” इत्युक्तलक्षणे
२९ स्त्रीविशेषे च।
३० हिमालयसुतायां काल्यां च
“ततः सा कालिका देवी योगनिद्रा जगन्मयी। पूर्वत्यक्तसतीरूपा जन्मार्थं मेनकां ययौ। समयस्यानुरूपेणमेनका जठरे शिवा। सम्भूय च समुत्पन्ना सा लक्ष्मीरिव सागरात्। वसन्तसमये देवी नवम्यां मृगयोगतः। अर्द्धरात्रौ समुत्पन्ना गङ्गेव शशिमण्डलात्। तान्तु दृष्ट्वायथा जातां नीलोत्पलदलानुमाम्। श्यामां सा मेनकादेवी मुदमापातिहर्षिता” कालिकापु॰
४० अ॰।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्यामा [śyāmā], 1 Night, particularly a dark night; श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मषीकूर्चकैः Vb.3.1.
Shade, shadow.
A dark woman.
A kind of woman (यौवन- मध्यस्था according to Malli. on N. 3.8; Śi.8.36; Me. 84; or शीते सुखोष्णसर्वाङ्गी ग्रीष्मे या सुखशीतला । तप्तकाञ्चनवर्णाभा सा स्त्री श्यामेति कथ्यते according to one commentator on Bk.5.18 and 8.1).
A woman who has borne no children.
A cow.
Turmeric.
The female cuckoo.
The Priyaṅgu creeper; कृत्वा श्यामाविटपसदृशं स्नस्तमुक्तं द्वितीयम् M.2.7; Me.16.
The indigo plant.
ल The holy basil.
The seed of the lotus.
N. of the Yamunā.
N. of several plants.
A name or form of Durgā (worshipped by the Tāntrikas).-Comp. -चरः a demon, Rākṣasa.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्यामा f. a woman with peculiar marks or characteristics( accord. to some " a girl who has the marks of puberty " ; accord. to others " a woman who has not borne children " ; also described as " a female of slender shape " etc. ) S3is3. Sin6ha7s.
श्यामा f. a N. or form of दुर्गा(worshipped by the तान्त्रिकs) W.
श्यामा f. N. of यमुनाL.
श्यामा f. of a daughter of मेरु(an incarnation of गङ्गा) BhP.
श्यामा f. of a princess , Va1s. , Introd.
श्यामा f. of another woman MBh.
श्यामा f. of a goddess who executes the commands of the 6th अर्हत्or of the mother of the 13th अर्हत्(with जैनs)
श्यामा f. a kind of bird (either " the female of the Indian cuckoo " or " a hen-sparrow ") VarBr2S. Pan5cat.
श्यामा f. N. of various plants(= गुन्द्रा, प्रियङ्गु, सारिवाetc. ) R. Sus3r.
श्यामा f. night(See. श्यामा-चर)
श्यामा f. the earth Gal.
श्यामा f. N. of a river Ma1rkP.
श्यामा f. (of श्याम)in comp.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a daughter of Meru and wife of हिरण्- maya. भा. V. 2. २३.
(II)--a name of ललिता; appeared before the sage मातन्ग and agreed to be his daughter. Hence मातन्गी. Br. IV. १७. ८३; २८. ३७; ३१. ८४, ९३. [page३-472+ २४]
(III)--a mind-born mother. M. १७९. १७.
(IV)--a R. of the केतुमाला continent. वा. ४४. १७.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ŚYĀMĀ : One of the nine daughters of Meru, including Śyāmā. They are called Navakanyās. They were married by the sons of Agnīdhra. (Bhāgavata, 5th Skandha).
_______________________________
*3rd word in left half of page 782 (+offset) in original book.