यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वासः, पुं, (श्वसित्यनेनेति । श्वस + करणे घञ् । यद्वा, श्वसितीति । श्वस + “श्याद्व्यधेति ।” ३ । १ । १४१ । इति णः ।) श्वसितम् । वायुः । इति हेमचन्द्रः ॥ तत्पर्य्यायः । प्राणः २ । इति राजनिर्घण्टः ॥ (यथा, साहित्यदर्पणे । १ । १४७ । “श्वासान् मुञ्चति भूतले विलुठति त्वन्मार्ग- मालोकते दीर्घं रोदिति विक्षिपत्यत इतः क्षामां भुजा- वल्लरीम् ॥”) रोगविशेषः । स तु बलवान् महापातकजः । यथा, -- “उन्मादश्चत्वचां दोषो राजयक्ष्माश्मरी तथा । श्वासश्च मधुमेहौ द्वावुदरी पापसंज्ञकाः ॥ इति नारदोक्तम् ॥” इति शुद्धितत्त्वम् । स च हीनबल उपपातकजः यथा, -- जलोदस्यकतमीहशूलरोगव्रणानि च । इच्छाहारेण सन्तर्प्य द्विजञ्चापि प्रजापतिम् ॥ होमेनानेन दानेन मुक्तो भवति कर्म्मतः । मादरं माधवं नत्वा सन्तर्प्य द्विजपुङ्गवान् ॥ स्नात्वा कलसतोयेन मुक्तो भवति मानुषः ॥” इति भृगुभरतोक्तश्वासकासकर्म्मविपाकः ॥ अपि च । “पिशुनो नरकस्यान्ते जायते श्वासकासवान् । घृतं तेन प्रदातव्यं सहस्रपलसम्मितम् ॥” इति शातातपीयकर्म्मविपाकः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वास¦ पु॰ श्वस--घञ्।

१ वायुघ्यापारे

२ रोगभेदे

३ शिक्षोक्तेवर्णोच्चरणार्थे बाह्यप्रयत्नभेदे च। श्वासरोयस्य निदानादि भावप्र॰ उक्तं यथा
“श्वासनिदानमाह यैरेव कारणैर्हिक्का देहिनां सम्प्रव-र्त्तते। तैरेवबहुभिः श्वासो व्याधिर्घोरः प्रजायते”। श्वा-सस्य भेदानाह
“महोर्द्ध्वछिन्नतमकक्षुद्रभेदैस्तु पञ्चधा। भिद्यते स महाव्याधिः श्वास एको विशेषतः”। तस्य पूर्वरूपमाह
“प्राग्रूपं तस्य हृत्पीडा शूलमाध्मानमेव च। आनाहो वक्त्रवैरस्यं शङ्कनिस्तोद एव च”। सम्प्राप्तिमाह
“यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकैः। विष्वक्ब्रजति संरुद्धस्तदा श्वासं करोति साः”। विष्वक् ब्रजतिसर्वतो विमार्नान् याति संरुद्धः कफानादिना रुद्धमार्गः। महाश्वासस्य लक्षणमाह
“ऊर्द्ध्वायषानवातोयः शब्दवत्दुःखितो नरः। उच्चैः श्वसिति सन्नद्धो मत्तर्षभ इवा-[Page5159-b+ 38] निशम्। प्रनष्टज्ञानविज्ञानस्तथा बिभ्रान्तलोचनः। विवृताक्ष्याननो बवुमूत्रवर्ची विशीणवाक्। दीनस्य श्वास-तञ्चास्य दूराद्विज्ञायते भृशम्। अहाश्वासोपसृष्टस्तुक्षिप्रमेव विपद्यते

१ । ऊर्द्ध्वायमानवातः ऊर्द्ध्वं नीयमानेवातो यस्य सः शब्दवत् सशब्दं यथा स्थात्। कीदृक्स शब्दस्तद्बोधयितुमाह मत्तर्षभ इव। उच्चैः श्वीस-तीत्थन्वयः। सन्नद्धः आनद्धः आनाहयुक्त इति यावत्। ज्ञानं तत्तदर्थविनिश्चयः। विशीर्णवाक् स्खलितवचनः। दीनः म्लानः। मारकश्चायं महाश्वासः। ऊर्द्ध्वश्वास-माह
“ऊर्द्धं श्वसिति योऽत्यर्थं न च प्रत्याहरत्यधः। श्लेष्मावृतमुखस्रोतःक्रुद्धगन्धबहार्दितः। ऊर्द्ध्वदृष्टिर्विप-श्यंस्तु बिभ्रान्ताक्ष इतस्ततः। प्रमुह्यन् वेदनार्त्तश्चशुष्काम्यो रतिपीडितः। ऊर्द्ध्वश्वास प्रकुपिते ह्यधःश्वामोनिरुद्ध्यते। मुह्यतस्ताम्यतश्चोर्द्धश्वासस्तस्य निहन्त्यसून्”

२ । सर्वेषु श्वासेषु ऊर्द्ध्वश्वासोऽत्र अत्यर्थमिति विशेषः। न चप्रत्याहरत्यधः न श्वासमधः करोति श्लेष्मावृतेत्यादिश्लेष्म-णावृतं यन्मुखं स्रोतांसि च तेः क्रुद्धो यो गन्धवहस्तेनार्दितः। विपश्यन् इतस्ततो विकृतं यथा स्यादेवं पश्यन्अधःश्वासो निरुद्ध्यत श्वासो नाधः प्रवर्त्तत” इत्यर्थः। मुह्यतो मोहं प्राप्नुवतस्ताप्यतो ग्लानिं प्राप्नुवतञ्चऊर्द्ध्वश्वासः असून् प्राणान् हन्ति। छिन्नश्वासस्यारिष्टंलक्षणञ्चाह
“यस्तु श्वसिति विच्छिन्न सर्वप्राणेनपीडितः। न वा श्वसिति दुःखार्त्तो मर्मच्छेदरुजार्दितः। आनाहस्येदमूर्च्छार्त्तो दह्यमानेन वस्तिना। विप्लुताक्षःपरिक्षीणः श्वसन् रक्तैकलोचनः। विचेताः परिशुष्कास्योविवर्णः प्रलपन्नरः। छिन्नश्वासेन विच्छिन्नः स शीघ्रविजहात्यसून्”

२ । विच्छिन्नं सविच्छेदं सर्वप्राणेन सर्व-वलेन मर्मच्छेदरुजार्दितः हृदयशिरश्छेदवेदनयैवपीडितः। दह्यमानेन वस्तिना उपलक्षितः। विप्लुताक्षःअश्रुपूर्णनेत्रः। विचेताः उद्विग्नचित्तः छिन्नश्वासेन वि-च्छिन्नः यस्तु श्वसिति विच्छिन्नमित्यादिलक्षणयुक्तो यः सनरः छिन्नश्वासेन विच्छिन्न पीडितो बोद्धव्यः। मारक-श्चायं छिन्नश्वासः। तमकश्वासमाह
“प्रतिलोमो यदावायुः स्रोतांसि प्रतिपद्यते। ग्रीवां शिरश्च संगृह्यश्लेष्माणं समुदीर्य्य च। करोयि पानसं तेन कण्ठेघुर्थरकं तथा। अतीव तीव्रवेगञ्च श्वासं प्राणप्रपीडकम्। प्रताम्यति स वेगेन त्रस्यते सन्निरुध्यते। प्रमोहं कास-मानश्च स गच्छति मुहुर्मुहुः। श्लेष्मणा मुच्यमानेन[Page5160-a+ 38] भृशं भवति दुःखितः। तस्यैव च विमोक्षान्ते मुहूर्त्तंलभते सुखम्। तथास्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोतिभाषितुम्। न चापि निद्रां लभत शयानः श्वासपी-डितः। पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः। आसीनो लभते सौख्यमुष्णञ्चैवाभिनन्दति। उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्त्तिमान्। विशुष्कास्योमुहुः श्वासो मुहुश्चैवावधम्यते। मेघाम्बु शीतप्राग्वातैःश्लेष्मलैश्च विवर्द्धते। स याप्यस्तमकः श्वासः साध्यो वास्यान्नवोत्थितः”

४ । संगृह्य व्यथया समुदीर्य्य वर्द्धयित्वा। पीनसं नासास्रावं तेन श्लेष्मणा घर्धुरं घुर्घुरशब्दं प्राण-प्रपीडकम्। प्रताम्यति तमसि प्रविशतीव वेगेन श्वास-वेगेन सन्निरुध्यते निश्चेष्टो भवतीति चक्रः। सन्निरुध्यते श्वास इति जैज्जटः। । श्लेष्मणा मुच्यभानेनसुखं सुस्तमिव उद्ध्वंसते व्यथितो भवति। शयानः शय-ननिहिताङ्गोऽवगृह्णाति पीडयति उष्णश्चैवाभिनन्दतिइत्यनेन तमकी वातकफारब्ध इति बोद्धव्यः। उच्छ्रि-ताक्षः शूनाक्षः। ललाटेन स्विद्यता उपलक्षितः अवधम्यते गजारूढस्येव सवगात्रञ्चाल्यते। तमकस्यैवपित्तानुबन्धजनितज्वरादियोगेन प्रतमकसंज्ञामाह
“ज्वरमूर्च्छापरीतञ्च विद्यात् प्रतमकं मिषक्”। तस्यैवापर-लक्षणमाह
“उदावर्त्तरजो जीर्णकलिन्नकायनिरोधजः। तमसा वर्द्धतेऽत्यर्थं शीतलैश्च प्रशाम्यति। मज्जतस्तमसीवास्य विद्यात् प्रतमकन्तु तम्”। उदाबर्त्तो रोगविशेषःरजो धूलिः अत्राजीर्णमामादिक्लिन्नं विदग्धं काय-निरोधा अङ्गवेगानां निरोधः तस्मादुत्पन्नः। क्षुद्रश्वा-समाह
“रूक्षायासोद्भवः कोष्ठे क्षुद्रोवात उदीरयन्। क्षुद्रश्वासो न सोऽत्यर्थदुःखेनाङ्गप्रवाधकः। हिनस्ति नच गात्राणि न च दुःखं यथेतरे। न च भोजनपानानांनिरुणद्ध्युचितां गतिम्। नेन्द्रियाणां व्यथाञ्चापि का-ञ्चिदुत्पादयेद्रुजम्। स साध्य उक्तो वलिनः सर्वे चाव्यक्त-लक्षणाः”

५ । क्षुद्रः अल्पनिदानलिङ्गः उदीरयन् ऊर्द्ध्वंगच्छन् दुःखः दुःखप्रदः। सर्वे महाश्वासादयोऽपि। अव्यक्तकक्षणाः सन्तः साध्याः। श्वासानां साध्यत्वादि-कमाह
“क्षुद्रेः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते। त्रय श्वासा न सिध्यन्ति तमको दुर्बलस्य च। कामप्राणहरा रोगा बहवो न तु ते तथा। यथा श्वासश्चहिक्का च हरतः प्राणमाशु वै”। वहवो ज्वरादयः
“तथा यथा श्वासहिक्वे हरतो जीवमाशुते”। [Page5160-b+ 38] तेषां निदानकर्मविपाकास्तु भृगुभार॰ उक्ता यथा
“श्वासरोगो महानुग्रो देहिदेहाभिघातकः। कर्मणा येनभवति तन्मे निगदतः शृणु। महोर्द्ध्वच्छिन्नतमकक्षुद्रा-भेदोऽस्य पञ्चधा। श्वासः संजायते नॄणां पृथक् कर्मानु-सारतः। यस्तु यज्ञं समासाद्य पशुश्वासं निरुध्य च। हन्ति स्वादन्ति वातञ्च महाश्वासेन गृह्यते

१ । पौराणिककथा मध्ये यस्तु वाचान्यथा वदेत्। स ऊर्द्ध्वश्वास-मासाद्य दुनोत्यहरहर्निशम्

२ । निषिद्धदानग्रहणा-च्छिन्नश्वासेन गृह्यते

३ । मर्त्यः शास्त्रार्थनिर्णीतवाक्ययो दूषयत्यपि। पीड्यते तमकश्वासैः

४ क्षुद्रैः पाकस्यविघ्नतः

५ । परत्र कर्मतो देही नरकेषु विपच्यते। नरकान्ते पुनर्व्याघ्रयोनिं शृकरवायसीम्। पृथक् कर्म-वशाद् योनौ गत्वा संप्राप्य तप्यते। मानुषत्वमनुप्राप्यपूर्वोक्तेनोपगृह्यते”।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वास¦ m. (-सः)
1. Breath, breathing.
2. Air, wind.
3. Sighing, a sigh. E. श्वस् to breathe, aff. घञ् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वासः [śvāsḥ], [श्वस्-घञ्]

Breathing, breath, respiration, heaving; अद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः Ś.1.3; Ku.2.42.

A sigh, panting; नैव बाष्पविमोक्षेण न वा श्वासकृते न च Mb.12.153.77.

Air, wind.

Asthma.

Aspiration (in the pronunciation of consonants).

Inspiration. -Comp. -उच्छ्वासः exhalation and inhalation, respiration. -कासः asthma. -कुठारः a drug used to cure asthma. -धारणम् = प्राणायाम. -रोधः suspension or obstruction of breath. -हिक्का a kind of hiccough.-हेतिः f. sleep.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वास m. hissing , snorting , panting R. Katha1s. BhP.

श्वास m. respiration , breath (also as a measure of time = प्रा-ण, असु) MBh. Ka1v. etc.

श्वास m. breathing or aspiration (in the pronunciation of consonants) RPra1t. , Introd.

श्वास m. inspiration Sarvad.

श्वास m. sighing , a sigh S3ak. Sa1h.

श्वास m. affection of the breath , hard breathing , asthma (of which there are five kinds , viz. क्षुद्र, तमक, छिन्न, महत्, and ऊर्ध्व) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=श्वास&oldid=358726" इत्यस्माद् प्रतिप्राप्तम्