षोडशी
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षोडशी, [न्] पुं, यज्ञपात्रविशेषः । यथा अति- रात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीति । षोडशी ससोमकपात्रविशेषः । इति मलमासतत्त्वम् ॥
षोडशी, स्त्री, द्वादशमहाविद्यान्तर्गतविद्या- विशेषः । यथा, -- “काली तारा महाविद्या षोडशी भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥ वगला सिद्धविद्या च मातङ्गी कमलात्मिका । एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः ॥” तत्र पारिभाषिकीं षाडशीमाह ज्ञानार्णवे । “चन्द्रान्तं वारुणान्तञ्च शक्रादिमहितं पृथक् । वामाक्षिबिन्दुनादाढ्यं विश्वमातृकलात्मकम् ॥ विद्यादौ योजयेद्देवि साक्षात् जाग्रत्स्वरूपिणी । विकुटाः सकला भेदाः पञ्चकूटा भवन्ति हि । वैष्णवी वसुकूटा स्यात् षट्कूटा शाङ्करी भवेत् ॥” जन्मान्तरे ये मम दासभूता- स्तेभ्यः स्वधा पिण्डमहं ददानि ॥ १९ ॥ अत्रोनविंशतिपिण्डे षोडशपिण्डत्वं पारिभाषिकं पञ्चाम्रवत् । इति तिथ्यादितत्त्वम् ॥ * ॥ एतेषां मन्त्राणां स्त्रीलिङ्गोहेन स्त्रीषोडशीत्वं भवति ॥ * अथ मातृषोडशी । “गर्भादवगमे चैव विषमे भूमिवर्त्मनि । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ मासि मासि कृतं कष्टं वेदना प्रसवेषु च । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ शैथिल्ये प्रसवे चैव मातुरत्यन्तदुष्करम् । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ पद्भ्यां जनयते मातुर्दुःखञ्चैव सुदुस्तरम् । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ पद्भ्यामित्यत्र दद्भ्यामिति च पाठः ॥ ४ ॥ अग्निना शोषते देहं त्रिरात्रानशनेषु च । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ पिबेच्च कटुद्रव्याणि क्लेशानि विविधानि च । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ दुर्ल्लभं भक्षद्रव्यस्य त्यागे विन्दति यत् फलम् । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ रात्रौ मूत्रपुरीषाभ्यां भिद्यते मातृकर्पटम् । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ पुत्त्रं व्याधिसमायुक्तं मातृदुःखमहर्निशम् । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ यदा पुत्त्रो न लभते तदा मातुश्च शोचनम् । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ क्षुधयां विह्वले पुत्त्रे ददाति निर्भरं स्तनम् । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ दिवा रात्रौ यदा मातुः शोषणञ्च पुनः पुनः । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ पूर्णे तु दशमे मासि मातुरत्यन्तदुष्करम् । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ गात्रभङ्गो भवेन्मातुस्तृप्तिं नैव प्रयच्छति । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ अल्पाहारवती माता यावत् पुत्त्रोऽस्ति बालकः तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ यमद्वारे महाधीरे पथि मातुश्च शोचनम् । तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥ इति गयायां प्रसिद्धिः ॥
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षोडशी/ षो-डशी f. having the length of the 16th of a man (said of a brick) S3ulbas.
षोडशी/ षो-डशी f. N. of one of the ten महा-विद्याs (also pl. ) Pan5car. Cat.
षोडशी/ षो-डशी f. one of the 12 forms of दुर्गाcalled महा-विद्याMW.