सन्निकर्ष
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सन्निकर्षः, पुं, (सं + नि + कृष + घञ् ।) सान्नि- ध्यम् । तत्पर्य्यायः । पार्श्वम् २ समीपम् ३ सवि- धम् ४ समीपाभ्यासम् ५ सवेशः ६ अन्तिकः ७ सदेशम् ८ अभ्यग्रम् ९ सनीडम् १० सन्नि- धानम् ११ उपान्तम् १२ निकटम् १३ उप- कण्ठम् १४ सन्निकृष्टम् १५ समर्य्यादम् १६ अभ्यर्णम् १७ आसन्नः १८ सन्निधिः १९ । इति हेमचन्द्रः (यथा, कुमारे । ३ । ७४ । “स्त्रीसन्निकषं परिहर्त्तुमिच्छन् अन्तर्दधे भूतपतिः सभूतः ॥”) न्यायमते विषयेन्द्रियसम्बन्धः । स च ज्ञानस्य कारणम् । स तु द्विविधः । लौकिकसन्निकर्षः अलौकिकसन्निकर्षश्च । लौकिकसन्निकर्षश्च षड्- विधः । इन्द्रियसंयोगः १ इन्द्रियसंयुक्तसमवायः २ इन्द्रियसंयुक्तसमवेतसमवायः ३ श्रोत्रादि- समवायः ४ श्रोत्रादिसमवेतसमवायः ५ तदादि- विशेषणता ६ ॥ अलीकिकसन्निकर्षस्तु त्रिविधः । सामान्यलक्षणा १ ज्ञानलक्षणा २ योगजः ३ । यथा, -- “महत्त्वं षड्विधे हेतुरिन्द्रिथं करणं मतम । विषयेन्द्रियसम्बन्धो व्यापारः सोऽपि षड्विधः द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः । द्रव्येषु समवेतानां तथा तत्समवायतः ॥ तत्रापि समवेतानां शब्दस्य ससवायतः । तद्वृत्तीनां सममेतसमवायेन तद्ग्रहः ॥ विशेषणतया तद्वदभावानां ग्रहो भवेत् । यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते ॥ प्रत्यक्षं समवायस्य विशेषणतया भवेत् । अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः ॥ सामान्यलक्षणा ज्ञानलक्षणा योगजस्तथा । आसत्तिराश्रयाणान्तु सासान्यज्ञानमिष्यते ॥ तदिन्द्रियजतद्धर्म्मबोधसामग्य्र पेक्ष्यते । विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः ॥ योगजो द्विविधः प्रोक्तो यक्तयुञ्जानभेदतः । युक्तस्य सर्व्वदा भानं चिन्तासहकृतोऽपरः ॥” इति भाषापरिच्छेदः ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सन्निकर्ष¦ पु॰ सम् + नि--कृष--घञ्।
१ सान्निध्ये हमच॰
“सद्वृत्तसन्निकर्षो हि क्षणार्द्धमपि शस्यतांइति पुराणम्न्यायमते
२ विषयेन्द्रियसम्बन्धे ज्ञानलक्षणासामान्यलक्षणा-योगजधर्मविशेषात्मके
३ अलौकिकप्रत्यक्षसाधने उपायभे{??}च।
“इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं प्रत्यक्षम्” गी॰सू॰। सन्निकर्षो दिविधः लौकिकालौकिकभेदात् लौकि-कोऽपि षड्विधः अलौकिकस्तु त्रिविधः यथोक्तं भाषाप्र॰
“महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम्। विषयेन्द्रियसम्बन्धा व्यापारः सोऽपि षड्विधः। द्रव्यग्रहस्तुसंयोगात्
१ संयुक्तसमवायतः
२ । द्रव्येषु समवेतानां, तथातत्समवायतः
३ । तत्रापि समवेतानां, शब्दस्य समवायतः
४ । तद्वृत्तीनां समवेतसमवायेन
५ तु ग्रहः। विशेषणतया
६ तद्वदभावानां ग्रहो भवेत्। यदि स्यादुपलभ्येतेत्येवं यत्रप्रसज्यते। प्रत्यक्षं समवायस्य विशेषेणतया भवेत्। अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः। सामान्य-लक्षणा
१ ज्ञानलक्षणा
२ योगज
३ स्तथा” भाषा॰
“यद्यपिविशेषणता नानाविधा तथाहि भूतलादौ घटाभावः[Page5216-a+ 38] संयुक्तविशेषणतया गृह्यते संख्यादौ रूपाद्यभावः संयुक्त-समवेतसमवेतविशेषणतया, शब्दाभावः केवलश्रोत्राव-च्छिन्नविशेषणतया, कादौ खत्वाद्यभावः श्रीत्रावच्छिन्न-समवेतविशेषणतया। एवं कत्वावच्छिन्नाभावे खत्वा-भावादिकं विशेषणविशेषणतया। एवं घटाभावादौ पटा-द्यभावः संयुक्तविशेषणविशेषणतया। एवमन्यदप्यूह्यंतथापि विशेषणतात्वरूपेणैकैव सा गण्यते अन्यथा षोढासन्निकर्ष इति प्राचां प्रवादो व्याहन्यतेति” सि॰ मु॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सन्निकर्ष¦ mf. (-र्षः-र्षा)
1. Proximity, nearness.
2. Bring or drawing near.
3. Connection, relation.
4. Connection of an organ of sense with its object, (in Nya4ya philosophy.) E. सम् together, नि before कृष् to attract, aff. अच्, fem. aff. टाप्, or घञ् aff.