यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्रः, पुं, जलसमूहस्थानम् । तस्य व्युत्पत्ति- र्यथा । “चन्द्रोदयात् आपः सम्यगुन्दन्ति क्लिद्यन्ति अत्र । चन्द्रोदयात् समुन्दयन्ति वा समुद्रः । उन्दधी क्लेदे नाम्नीति रक् हसुङ् नलोप इति नलोपः । ‘अपां चैव समुन्नेन स समुद्र इति स्मृतः ।’ इति वायुपुराणम् ॥ मुद्रा मर्य्यादा तया सह वर्त्तते इति वा समुद्रः । सम्यगुद्गतो रोऽग्निरत्र इति । मुदं राति ददा- तीति डे । मुद्राणि रत्नादीनि तैः सह वर्त्तते इति वा ।” इति भरतः ॥ तत्पर्य्यायः । अब्धिः २ अकूपारः ३ पारावारः ४ सरित्पतिः ५ उद- न्वान् ६ उदधिः ७ सिन्धुः ८ सरस्वान् ९ सागरः १० अर्णवः ११ रत्नाकरह् १२ जल- निधिः १३ यादःपतिः १४ अपांपतिः १५ । इत्य- मरः । १ । ७ । १ ॥ महाकच्छः १६ नदीकान्तः १७ तरीयः १८ द्वीपवान् १९ जलेन्द्रः २० मन्थिरः २१ क्षौणीप्राचीरम् २२ मकरालयः २३ । पीतप्रायेऽमृते देवैर्भगवान् लोकभावनः । पश्यतामसुरेन्द्राणां स्वरूपं जगृहे हरिः ॥” पाद्मे उत्तरखण्डे ६९ अध्यायेऽप्येवम् ॥ (अन्त- रिक्षम् । इति निघण्टुः । १ । ३ ॥ अस्य व्युत्- पत्तिर्यथा, तट्टीकायाम् । “समुद्द्रवन्ति सङ्गता ऊर्द्ध्वं द्रवन्ति गच्छन्त्यस्मादापो रश्मिभिराकृष्य- माणा आदित्यमण्डलम् । समुत्-पूर्ब्बात् द्रवते- र्गत्यर्थात् अन्येष्वपि दृश्यते इति अपादाने ड-प्रत्यये टि-लोपे च रूपम् । यद्बा, संहता अभिद्रवन्त्येनमापो भौमरसलक्षणा वायुना प्रेर्य्यमाणाः आदित्यमण्डलाद्बा वर्षाकाले रश्मिभिः प्रवर्त्तमानाः । अत्र उदित्येष उप- सर्गोऽभीत्यर्थे वर्त्तते । कर्मणि ड-प्रत्यय इति विशेषः । सम्मोदन्तेऽस्मिन् भूतानि अन्तरिक्ष- चारीणीति वा । सम्पूर्वात् मुद हर्षे इत्यस्मात् स्फायितञ्चिवञ्चि इत्यादिना अधिकरणे रक्- प्रत्यये समो म-लोपे च रूपम् । यद्वा, सम् इत्येकीभावे उदकात् उच्छब्दः रो मत्वर्थीयः । एकीभूतमुदकमस्मिन् विद्यते वर्षास्विति उदक- शब्दस्योद्भावश्छान्दसः । यद्बा सम्पूर्वात् उन्दी क्लेदने इत्यस्मात् स्फायितञ्चिवञ्चि इत्यादिना कर्त्तरि रक्-प्रत्यये कित्त्वान्नलोपे च समुद्रः ॥” इति देवराजकृतनिर्व्वचनम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्र पुं।

समुद्रः

समानार्थक:समुद्र,अब्धि,अकूपार,पारावार,सरित्पति,उदन्वत्,उदधि,सिन्धु,सरस्वत्,सागर,अर्णव,रत्नाकर,जलनिधि,यादःपति,अपाम्पति

1।10।1।1।1

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः। उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः॥

अवयव : तरङ्गः,महातरङ्गः,अब्ध्यम्बुविकृतिः

 : समुद्रविशेषः, क्षारसमुद्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्र¦ पु॰ सम् + उन्द--क्लेदने रक, सम् + उद् + रा--क वा।

१ स्वनामख्याते प्रचुरजले सागर अमरः। सह मुद्रया

२ मुद्रासहिते त्रि॰
“बभौ मरुत्वान् विकृतः समुद्रःबभौ मरुत्वान् विकृतः समुद्रः” इति भट्टिः।

३ शट्यां

४ शम्याञ्च स्त्री टाप् राजनि॰। सागरस्य व्रह्मणोमेढ्रात् उद्भवः
“आस्यात् वाक्, सिन्धवो म्रेढ्रात्” भाग॰

३ ।

१२ अ॰। स च सप्तविधः
“लवणेक्षुसुरासर्पिर्दघिदुग्ध-जलार्णवाः” समुद्रनामनिरुक्तिः तद्वृद्ध्यादिकारणञ्चमत्स्यपु॰

१२

२ अ॰ उक्तं यथा
“अपाञ्चैव समुद्रेकात्समुद्र इति संज्ञितः। उदयतीन्दौ पूर्ण तु समुद्रः पूर्य्यतेसदा। प्रक्षीयमाणे बहुले क्षीयतेऽस्तमिते च वै। आ-पूर्य्यमाणो ह्युदधिरात्मनैवापि पूर्य्यते। ततो वै क्षीय-माणे तु स्वात्मन्येव ह्यपां क्षयः। उद्दीप्यन्तेऽग्निसंयोगादुखास्वापो यथा स्वयम्। तथा स्वतः समुद्रोऽपि व-र्द्धते शशिनोद्रये। अन्यूनानतिरिक्तात्वात् वर्द्धन्त्यापोह्रसन्ति च। उदयेऽस्तमये चेन्दोः पक्षयोः शुक्लकृष्णयोः। क्षयवृद्धी समुद्रस्य शशिवृद्धिक्षये तथा। दशोत्तराणिपञ्चाहुरङ्गुलानां शतानि च। अपां वृद्धिः क्षयो दृष्टसमुद्राणान्तु पर्वसु”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्र¦ mfn. (-द्रः-द्रा-द्रं) Sealed, stamped. m. (-द्रः) A sea, an ocean. E. सम् before उन्दि to be wet, and रक् aff.; or स for सह with, and मुद्रा a seal; also thence signifying a limit, (i. e. bounded by conti- nents,) or a jewel, (the receptacle of gems,) or सम् with, उद्र an otter; or स with, मुद pleasure, or सम् together, उद water, and रा to give or have, aff. क, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्र [samudra], a. Sealed, bearing a seal, stamped; समुद्रो लेखः; समुद्रे नाप्नुयात् किंचिद्यदि तस्मान्न संहरेत् Ms.8.188.

द्रः The sea, ocean.

An epithet of Śiva.

The number 'four'.

N. of an immensely high number; शतं खर्वसहस्राणां समुद्रमभिधीयते । शतं समुद्रसाहस्रं महौघमिति विश्रुतम् ॥ Rām.6.28. 37.

A particular configuration of stars and planets.

द्रा The plant zedoary.

The Śamī tree.

Comp. अन्तः, न्तम् the sea-shore.

nutmeg.

अन्ता the cotton-plant.

the earth. -अम्बरा the earth.

अरुः, आरुः a crocodile.

a large fabulous fish.

Rāma's bridge; cf. रामसेतु. -कफः, -फेनः the cuttle fish-bone.-काञ्ची the earth. -कान्ता, -पत्नी a river. -कुक्षिः the shore of the sea. -ग a. sea-faring.

(गः) a sea-trader.

a seaman, a sea-farer; so समुद्रगामिन्-यायिन् &c. (-गा) a river.

गृहम् a summer-house built in the midst of water; Pratimā 2.

a bath-room. -चुलुकः an epithet of Agastya. -दयिता a river.

नवनीतम् the moon.

ambrosia, nectar. -नेमिः, -मी the earth.-पर्यन्त a. seabound. -महिषी the Ganges; नय मां भयवन् साधो समुद्रमहिषीं प्रियाम् Mb.3.187.19. -मेखला, -रसना, -वसना the earth.

यानम्1 a sea-voyage.

a vessel, ship, boat; समुद्रयानकुशला देशकालार्थदर्शिनः । स्थापयन्ति तु यां वृद्धिम् ... Ms.8.157. -यात्रा a sea-voyage. -यायिन् a. see समुद्रग. -योषित् f. a river; विभूषिताः कुञ्जसमुद्रयोषितः Ki.8.9; also समुद्रवल्लभा. -वह्निः submarine fire.

वेला the oceantide.

an ocean-wave.

the sea-coast line. -सुभगा the Ganges.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्र/ सम्-उद्र m. ( n. only RV. vi , 72 , 3 ; ifc. f( आ). See. उद्र, अन्-उद्र; for स-मुद्रSee. p. 1168 , col. 2) " gathering together of waters " , the sea , ocean (in वेदalso " the aerial waters " , " atmospheric ocean or sky " [See. Naigh. i , 3 ] ; in VP. ii , 4 , seven circular concentric [elsewhere 3 or 4] oceans are named , viz. लवण, " salt-water " ; इक्षु, " syrup " ; सुरा, " wine " ; घृत, " clarified butter " ; दधि, " curds " ; दुग्ध, " milk " ; जल, " fresh water " ; in later language the Ocean is often personified as king of the rivers) RV. etc.

समुद्र/ सम्-उद्र m. N. of the number , four (four principal oceans being reckoned by some , one for every quarter of the sky) Gan2it.

समुद्र/ सम्-उद्र m. a large सोमvessel RV. vi , 69 , 6 ; ix , 29 , 3 etc.

समुद्र/ सम्-उद्र m. N. of an immensely high number (1 with 14 cyphers) TS. S3a1n3khS3r. MBh.

समुद्र/ सम्-उद्र m. a partic. configuration of the stars and planets (when the 7 -plplanets are situated in the and , 4th , 6th , 8th , 10th and 12th houses) VarBr2S.

समुद्र/ सम्-उद्र m. = रुक्मVS. Sch.

समुद्र/ सम्-उद्र m. N. of शिवMBh.

समुद्र/ सम्-उद्र m. of a दैत्यHariv.

समुद्र/ सम्-उद्र m. of various authors (also with सूरि) Cat.

समुद्र/ सम्-उद्र m. of the son of a merchant born on the sea Buddh.

समुद्र/ सम्-उद्र m. of other men HParis3.

समुद्र/ सम्-उद्र m. of a wk. quoted by पद्मनाभCat.

समुद्र/ सम्-उद्र m. of a place ib.

समुद्र/ सम्-उद्र mn. N. of two सामन्s A1rshBr.

समुद्र/ सम्-उद्र mn. of various metres TS. Nida1nas. etc.

समुद्र/ स-मुद्र mf( आ)n. (for सम्-उद्रSee. p. 1166 , col. 3) having a stamp or seal , stamped , sealed , marked Mn. Ya1jn5. Mudr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--gave शन्ख to पृथु; the लवण samu- dra encircles जम्बूद्वीप. भा. IV. १५. १९: Br. II. १५. १३.
(II)--Agni at विश्वस्य (विश्वव्यच-ब्र्। प्।) located in ब्रह्मस्थान. वा. २९. २२: Br. II. १२. २४.
"https://sa.wiktionary.org/w/index.php?title=समुद्र&oldid=505373" इत्यस्माद् प्रतिप्राप्तम्