सम्प्रदाय
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्प्रदायः, पुं, (सं + प्र + दा + घञ् । “आतो युक् चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।) गुरुपरम्परागतसदुपदेशः । शिष्टपरम्परा- वतीर्णोपदेशः । इति भरतः ॥ तत्पर्य्यायः । आम्नायः २ । इत्यमरः । ३ । २ । ७ ॥ (यथा, माघे । १४ । ७९ । “सम्प्रदायविगमादुपेयुषी- रेष नाशमविनाशिविग्रहः । स्मर्त्तुमप्रतिहतस्मृतिः श्रुती- र्द्दत्त इत्यभवदत्रिगोत्रजः ॥”) गुरुपरम्परागतसदुपदिष्टव्यक्तिसमूहः । यथा, “संप्रदायानुरोधेन पौर्व्वापर्य्यानुसारतः । श्रीभागवतभावार्थदीपिकेयं प्रतन्यते ॥” इति श्रीधरस्वामी ॥ तद्भेदा यथा, श्रीपद्मपुराणे । “श्रीमन्नारायणो ब्रह्मा नारदो व्यास एव च । श्रीलमध्वः पद्मनाभो नृहरिर्माधवस्तथा ॥ अक्षोभो जयतीर्थश्च ज्ञानसिन्धुर्महानिधिः । विद्यानिधिश्च राजेन्द्रो जयधर्म्ममुनिस्तथा ॥ पुरुषोत्तमो ब्रह्मण्यो व्यासतीर्थमुनिस्तथा । केवलं विष्णुतत्त्वज्ञः प्रोक्तो भागवतः शिवे ॥” इति शक्तिसङ्गमतन्त्रे १ खण्डे ८ पटलः ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्प्रदाय पुं।
गुरुपरम्परागतसदुपदेशः
समानार्थक:आम्नाय,सम्प्रदाय
3।2।7।2।3
वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने। आप्रच्छन्नमथाम्नायः सम्प्रदायः क्षये क्षिया॥
पदार्थ-विभागः : , पौरुषेयः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्प्रदाय¦ पु॰ सम् + प्र + दा--भावे घञ्।
१ गुरुपरम्परागतेसदुपदेशे अमरः। उपचारात्
२ तदुपदेशयुते जने च। ईश्वरस्यैव सर्वसम्प्रदायप्रद्योतकत्वमिति
“निर्माणकाय-[Page5241-b+ 38] मधिष्ठाय सर्वसम्प्रदायप्रद्योतक इति पातञ्जलाः” कुसुमा॰। ईश्वरवादे च मणिकृताशङ्क्य तथैव व्यवस्थापितं यथा
“नन्वशरीरात् कथं वेदघटादिशब्दव्यवहारसम्प्रदायःउच्यते सर्गादावदृष्टोपगृहीतभूतभेदान्मीनशरीरोत्पत्तावदृष्टवदात्मसंयागाददृष्टसहकृतप्रयत्नवदीश्वरसंयोगाद्वा स-कलवदार्थगोचरज्ञानाद्विबक्षासहितान्मीनकलेवरकण्ठता-ल्वादिक्रियाजन्यसंयोगाद्वेदोत्पत्तिः। एवं कुलालादि-शरीरावच्छेदेनादृष्टसहकृतप्रयत्नवदीश्वरसंयोगात्तद्बुद्धी-च्छासहितचेष्टोत्पत्तौ सकलघटानुकूलव्यापारो घटोत्-पत्तिः। एवं प्रयोज्यप्रयोजकज्ञानाय व्यापाराभिमत-शरीरावच्छेदेनापि अदृष्टसहकृतेश्वरज्ञानेच्छाप्रयत्नादेवव्यवहारः ततस्तत्सुशीलो बालो व्युत्पद्यते सोऽयंभूतावेशन्यायः। यत्तु यथा लिप्यादिना मौनिश्लाको-ऽनुमाय पट्यते तथा सर्गान्तरात्पन्नतत्त्वज्ञानवता भोगार्थंसर्गादावुत्पन्नेन मन्वादिना सर्वज्ञेन, ईश्वराभिप्रायस्थवेदःसाक्षात्कृत्यानूद्यते ततोऽग्निनसम्प्रदायः स एव कायव्यूहंकृत्वा वाग्व्यबहारं करोतीति मतं तन्न प्रतिसर्गाद्यनन्त-सर्वज्ञकल्पनायां गौरवात् तषामेव क्षित्यादिकर्तृत्वसम्भ-वेन ईश्वराननुगमाच्च। एतेन सर्गादौ सर्गान्तरसिद्ध-योगिन एव क्षितिकर्त्तारः सन्त्विति निरस्तं सर्गादाव-नन्तसर्वज्ञसिद्धिश्च किं प्रमाणान्तरात् क्षित्यादिकर्तृग्राह-काद्वा नाद्यस्तदभावात् नान्त्यः अनादिद्व्यणुकादिकार्य्य-प्रवाहस्य सकर्तृकत्वानुमानात् लाघवसहकृतादेकस्यैवसर्वज्ञस्य सिद्धेः”। सम्प्रदायप्रवर्त्तकभेदाश्च पद्मपु॰ उक्ता यथा
“श्रीमन्नारायणो ब्रह्मा नारदो व्यास एव च। श्रीलमध्वःपद्मनामो नृहरिर्माघवस्तथा। अक्षोभो जयतीर्थश्चज्ञानसिन्धुर्महानिधिः। विद्यानिधिश्च राजेन्द्रो जय-धर्ममुनिस्तथा। पुरुषोत्तमो ब्रह्मण्यो व्यासतीर्थमुनि-स्तथा। श्रीमाल्लक्ष्मीपतिः चीमान् माधवेन्द्रपुरी तथा। सम्प्रदायविहीना ये मन्त्रास्ते निष्फला मताः। अतःकलौ भविष्यन्ति चत्वारः सम्प्रदायिनः। श्रीमाध्वरुद्र सनका वैष्णवाः क्षितिपावनाः” पद्मपु॰। तन्त्रोक्तवैष्णवसम्प्रदाया यथा
“श्रोशिव उवाच वैखानसः साम-वेदी श्रीराधावल्लभी तथा। गोकुलेशो महेशानि!तथा वृन्दावनी भवेत्। पञ्चरात्रः पञ्चमः स्यात् षष्ठःश्रीवीरवैष्णवः। रामानन्दी हविष्याशी निम्बार्कश्चमहेश्वरि!। ततो भागवतो देवि! दश भेदाः प्रकी[Page5242-a+ 38] र्त्तिताः। शिखी मुण्डी जटी चैव द्वित्रिदण्डी क्रमेणच। एकदण्डी महेशानि! वीरशैवस्तथैव च। सप्त पा-शुपताः प्रोक्ता दशधा वैष्णवा मताः। एतेषां वासनं देवि!शृणु यत्नेन शाम्भवि!। वेवेष्टि सर्वं संव्याप्य यस्तिष्ठतिस वैष्णवः। वैखानसादिदक्षाद्यैर्भूषितः स्मार्त्तवैष्णवः। श्रीराधावल्लभं देवि! शृणु यत्नेन शाम्भवि!। वैष्णवा-चारनिरतो विष्णुतन्त्रैकपारगः। अनन्यचेताः शान्तात्माविष्णुचिन्तापरायणः। श्रीराधावल्लभो देवि! गोकुलेशंशृणु प्रिये!। नानाभूषणसम्पन्नो नानासुगन्धिभूषितः। गवां कुलं प्रीणयिता केलिकृष्णस्वरूपधृक्। शरीरमर्थंप्राणांश्च संनिवेदतीह यः। अन्तःशक्तिपरो देवि!वहिर्वैष्णवरूपधृक्। गन्धर्वाचारनिरतो लतावेष्टनतत्-वरः। सम्प्रदायो गोकुलेशः सर्वसिद्धिकरो भुवि। वृन्दावनाख्यं देवेशि! शृण् यत्नेन साम्प्रतम्। विगताशःप्रसन्नात्मा विष्णुभक्तिपरायणः। कामिनीसङ्गचपलोवनक्रीडाविनोदधृक्। सौगन्धभूषिततनुः स्त्रीध्या-नैकपरायणः। विष्णुसारूप्यतत्त्वज्ञः प्रोक्तो वृन्दावनीशिवे!। पाञ्चरात्रो महेशानि तथैव वीरवैष्णवः। पूर्वमेव महेशानि कीर्त्तितः परमेश्वरि!। रा शक्तिरितिविख्याता मः शिवः परिकीर्त्तितः। तदानन्दी शान्त-चित्ती प्रसन्नात्मा विचारधृक्। सर्वत्र समरूपा च रामा-नन्दी प्रकीर्त्तिता। हविष्याशी महेशानि! यथावदव-धारय। पापसंहरणासक्तो विष्णुभक्तो जितेन्द्रियः। यमादिनियमैर्युक्तो भक्ताचारपरायणः। स्वोपयोगफलग्राही परकार्य्यपरायणः। हविष्याशी महेशानि!शिवभक्तिस्वरूपधृक्। निम्बार्काख्यं सम्प्रदायं शृणुयत्नेन साम्प्रतम्। नित्यार्चनक्रमासक्तः स्वतन्त्रैक-परायणः। बाह्यपूजादिनिरतो नान्यभक्तः प्रसन्नधीः। आर्य्यपक्षान्वितः स्वच्छः स्वच्छन्दाचारतत्परः। स्वतन्त्रःस्मार्त्तविद्वेषी निम्बार्को भगवान् हरिः। अथ भागवतंदेवि! कथ्यते शृणु साम्प्रतम्। विष्णुभक्तैकनिपुणोविजितात्मा प्रसन्नधीः। स्मार्त्तगर्वान्वितो देवि! तदन्या-चारतत्परः। आर्य्यपक्षान्वितो देवि! तथा सुरूप-वेशधृक्। शैवद्वेषी तस्य सङ्गात् पुनः स्नानपरायणः। केवलविष्णुतत्त्वज्ञः प्राक्तो भागवतः शिवे” शक्तिसङ्ग॰ त॰
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्प्रदाय¦ m. (-यः)
1. Traditional doctrine, what has been transmitted from one teacher to another, and is established as of sacred authority.
2. A sect, a schism, a peculiar doctrine and exclusive worship of one divinity.
3. Custom, usage. E. सम् and प्र before दा to give, घञ् aff., युक् augment.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सम्प्रदाय/ सम्-प्रदाय m. a bestower , presenter S3a1rn3gP.
सम्प्रदाय/ सम्-प्रदाय m. tradition , established doctrine transmitted from one teacher to another , traditional belief or usage Gr2S3rS. etc.
सम्प्रदाय/ सम्-प्रदाय m. any peculiar or sectarian system of religious teaching , sect RTL. 61 ; 62