सर्गः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्गः, पुं, (सृज् + घञ् ।) स्वभावः । निर्म्मोक्षः । (यथा, महाभारते । १३ । १६२ । ३५ । “राजमार्गे गवां मध्ये धान्यमध्ये च धर्म्मिणः । नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ॥”) निश्चयः । (यथा, रघुः । ३ । ५१ । “गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥”) अध्यायः । (यथा, साहित्यदर्पणे । ६ । ५५९ । “नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ॥”) सृष्टिः । इत्यमरः । ३ । ३ । २२ ॥ (यथा, मनुः । १ । २९ । “हिंस्राहिंस्रे मृदुक्रूरे धर्म्माधर्म्मावृतानृते । यद्यस्य सोऽदधात् सर्गे तत्तस्य स्वयमाविशत् ॥” संसारः । यथा, गीतायाम् । ५ । १९ । “इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ॥”) मोहः । उत्साहः । इति मेदिनी ॥ अनुमतिः । इति हेमचन्द्रः ॥ * ॥ सर्गविवरणं यथा, -- “अव्याकृतगुणक्षोभात् महतस्त्रिवृतोऽहमः । भूतसूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग उच्यते ॥” इति श्रीभागवतम् ॥ नवधासर्गो यथा, -- “सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः । कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रमः ॥ आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः । द्बितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः ॥ भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् । चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ॥ वैकारिको देवसर्गः पञ्चमो यन्मयं मनः । षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः ॥ षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु । रजोभाजो भगवतो लीलेयं हरिमेधसः ॥ सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषाञ्च यः । वनस्पत्योषधिलतात्वक्सारा वीरुधो द्रुमाः । उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः । तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः ॥ अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः । गौरजो महिषः कृष्णः शूकरो गवयो रुरुः ॥ द्बिशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम । खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ॥ एते चैकशफाः क्षत्तः शृणु पञ्चनखान् पशून् । श्वा शृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ ॥ सिंहः कपिर्गजः कूर्म्मो गोधा च मकरादयः । कङ्कगृध्रवकश्येनभासभल्लकवर्हिणः ॥ हंससारसचक्राह्वकाकोलूकादयः खगाः । अर्व्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् ॥ रजोऽधिकाः कर्म्मपरा दुःखे च सुखमानिनः । वैकृतास्त्रय एवैते देवसर्गश्च सत्तम ॥ वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः । देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः ॥ गन्धर्व्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः । भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः ॥ दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः । अतः परं प्रवक्ष्यामि वंशं मन्वन्तराणि च ॥ एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः । सृजत्यमोघसंकल्प आत्मैवात्मानमात्मना ॥” इति च श्रीभागवते । ३ । १० । १४-२६ ॥ (विष्णुः । इति महाभारतम् । १३ । १४१ । ३० ॥ शिवः । इति च तत्रैव । १३ । १७ । १४८ ॥)
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्गः [sargḥ], [सृज्-घञ्]
Relinquishment, abandonment.
Creation; आराध्य विप्रान् स्मरमादिसर्गे Bhāg.3.1.28; अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः V.1.8.
The creation of the world; प्रलयस्थितिसर्गाणां कारणतां गतः Ku.2.6; R. 3.27; सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः Bhāg.3.1.13.
Nature, the universe; इहैव तैर्जितः सर्गो येषां साभ्ये स्थितं मनः Bg.5.19.
Natural property, nature.
Determination, resolve; गृहाण शस्त्रं यदि सर्ग एष ते R.3.51;14. 42; Śi.19.38.
Assent, agreement.
A section, chapter, canto (as of a poem).
Rush, onset, advance (of troops).
Voiding of excrement; राजमार्गे गवां मध्ये धान्यमध्ये च धर्मिणः । नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ॥ Mb.13.162.35.
N. of Śiva.
Fainting, swoon (मोह).
Ved. A horse.
Production (of the implement of war); सर्गाणां चान्ववेक्षणम् Mb.12.59.44. (com. सर्गाणां रथादिनिर्माणानाम्).
Effort, exertion.
The aspiration at the end of a word (विसर्ग).-Comp. -क्रमः the order of creation. -बन्धः a great poem having several cantos, a Mahākāvya; सर्गबन्धो महाकाव्यम् S. D.