सर्पः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्पः, पुं, (सृप्यते इति । सृप + घञ् ।) नाग- केशरः । इति रत्नमाला ॥ (सृप + भावे घञ् ।) गमनम् । इति सृपधात्वर्थदर्शनात् । (सर्पति इतस्ततो गच्छतीति । सृप + अच् ।) श्मश्रु- धारी म्लेच्छजातिविशेषः । पुरा अयं क्षत्त्रिय आसीत् । सगरराजेन अस्य वेदयागादौ अन- धिकारित्वं कृत्वा वेशान्यत्वं धर्म्मनाशञ्च चकार । यथा, महाभारते हरिवंशे २४ अध्याये । “सगरः स्वां प्रतिज्ञान्तु गुरोर्व्वाक्यं निशम्य च । धर्म्मं जघान तेषां वै वेशान्यत्वं चकार ह ॥ अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् । यवनानां शिरः सर्व्वं काम्बोजानां तथैव च ॥ पारदान् मुक्तकेशांस्तु पह्नवान् श्मश्रुधारिणः । निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ शका यवनकाम्बोजाः पारदाः पह्नवास्तथा । कोलिसर्पा माहिषका दार्व्वाश्चोलाः सकेरलाः ॥ सर्व्वे ते क्षत्त्रियास्तात धर्म्मस्तेषां निराकृतः । वशिष्ठवचनाद्राजन् सगरेण महात्मना ॥” हिंस्रजन्तुविशेषः । साप इति भाषा । तत्- पर्य्यायः । पृदाकुः २ भुजगः ३ भुजङ्गः ४ अहिः ५ भुजङ्गमः ६ आशीविषः ७ विषधरः ८ चक्री ९ व्यालः १० सरीसृपः ११ कुण्डली १२ गूढपात् १३ चक्षुःश्रवाः १४ काकोदरः १५ फणी १६ दर्व्वीकरः १७ दीर्घपृष्ठः १८ दन्द- शूकः १९ विलेशयः २० उरगः २१ पन्नगः २२ भोगी २३ जिह्मगः २४ पवनाशनः २५ । इत्य- मरः । १ । ८ । ३ ॥ विलशयः २६ कुम्भीनसः २७ द्विरसनः २८ भेकभुक् २९ श्वसनोत्सुकः ३० फणाधरः ३१ फणधरः ३२ फणावान् ३३ फणवान् ३४ फणाकरः ३५ फणकरः ३६ सम- कोलः ३७ व्याडः ३८ दंष्ट्री ३९ विषास्यः ४० गोकर्णः ४१ उरङ्गमः ४२ गूढपादः ४३ विल- वासी ४४ दर्व्विभृत् ४५ हरिः ४६ । इति शब्द- रत्नावली ॥ प्रचलाकी ४७ द्बिजिह्वः ४८ जल- रुण्डः ४९ कञ्चुकी ५० चिकुरः ५१ भुजः ५२ । इति जटाधरः ॥ अस्योत्पत्तिव्युत्पत्ती यथा, “अप्रियेणास्य तान् दृष्ट्वा केशाः शीर्य्यन्त वेधसः । हीनाः स्वशिरसो भूयः समरोहन् ततः शिरः । सर्पणात्तेऽभवन् सर्पा हीनत्वादहयः स्मृताः ॥” इति वह्निपुराणे सर्गकथननामाध्यायः ॥ * ॥ सर्पाणामुत्सवतिथिर्यथा, -- सुमन्तुरुवाच । “पञ्चमी दयिता राजन् नागानां नन्दिवर्द्धिनी । पञ्चम्यां किल नागानां भवतीत्युत्सवो महान् ॥ वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः । ऐरावतो धृतराष्ट्रः कर्क्कोटकधनञ्जयौ ॥ एते प्रयच्छन्त्यभयं प्राणिनां प्राणजीविनाम् । पञ्चम्यां स्नापयन्तीह नागान् क्षीरेण ये नराः ॥ तेषां कुले प्रयच्छन्ति अभयं प्राणदक्षिणम् । शप्ता नागा यदा मात्रा दह्यमाना दिवानिशम् । संददात्येव संयुक्तो भूतेजोव्यत्ययात् स्थितः ॥ भूवायुव्यत्ययान्मन्त्रो विषं संक्रामयत्यसौ । अन्तस्थो निजवेश्मस्थो बीजाग्नीन्दुजलाम्बुभिः ॥ एतत् कर्म्म नयेन्मन्त्री गरुडाकृतिविग्रहः । तार्क्ष्यवारणगेहस्थस्तर्जनान्नाशयेद्विषम् ॥ जानुदण्डीन्दुमुदितं स्वधाश्रीबीजलाञ्छितम् । स्नानपानात् सर्व्वविषजरारोगापमृत्युजित् ॥ पक्षि पक्षि महापक्षि महापक्षि विवि स्वाहा । पक्षि पक्षि महापक्षि महापक्षि क्षीक्षी स्वाहा ॥ द्वावेतौ पक्षिराड्मन्त्रौ विषघ्नावभिमन्त्रणात् । पक्षिराजाय विद्महे पक्षिदेवाय धीमहि तन्नो गरुडः प्रचोदयात् ॥ वह्निस्थौ पार्श्वतत्पूर्व्वौ दन्तश्रीकौ च दन्तिनौ । सकलो लाङ्गली चेति नीलकण्ठाद्यमीरितः ॥ वक्षःकण्ठशिखाश्वेतं न्यसेत् स्तम्भे सुसंस्कृतौ । हर हर हृदयाय नमः कपर्द्दिने च शिरसे नील- कण्ठाय वै शिखाम् ॥ कालकूटविषभक्षणाय स्वाहार्थर्व्व वर्म्म च । कण्ठिनेत्रं कृत्तिवासं नेत्रैः प्रत्येकशस्त्रिभिः । पूर्व्वाद्यैराननैर्युक्तं श्वेतपीतारुणासितैः ॥ अभयं वरदञ्चापं वासुकिञ्च दधद्भजः । यज्ञोपवीतपार्श्वन्तु गौरी रुद्रोऽस्य देवता ॥ पादजानुगुहानाभिहृत्कण्ठाननमूर्द्धसु । मन्त्रार्णान्न्यस्य करयोरङ्गुष्ठाद्यङ्गुलीषु च ॥ तर्ज्जन्यादितदन्तासु सर्व्वमङ्गुष्ठयोर्न्यसेत् । ध्यात्वैवं संहरेत् क्षिप्रं बद्धया मूलमुद्रया ॥ कनिष्ठा ज्येष्ठया बद्ध्वा तिस्रोऽन्याः प्रसृतिर्जवः । विषनाशो वामहस्तमन्यस्मिन् दक्षिणं करम् ॥ नमो भगवते नीलकण्ठाय चिः । अमलकण्ठाय चिः सर्व्वज्ञकण्ठाय चिः क्षिप ओम् स्वाहा ॥ नमो नीलकण्ठाय नैकसर्व्वविषापहाय । नमस्ते रुद्रमन्यव इति सम्मार्ज्जनाद्विषं विनश्यति ॥ न सन्देहः कर्णजाप्या उपनेत्रा विधानतः । यजेद्रुद्रविधानेन नीलग्रीवं महेश्वरम् । विषव्याधिविनाशः स्यात् कृत्वा रुद्र विधानतः ॥” इत्याग्नेये महापुराणे दष्टचिकित्सा नाम २९५ अध्यायः ॥ * ॥ * ॥ यात्राकाले तस्य शुभा- शुभसूचकत्वं यथा, -- “गोनासदर्व्वीकरराजिलाद्या जात्यैव सर्व्वे भयदा भुजङ्गाः । विलोक्य सर्पं यदि निर्व्विकल्प्या निवृत्तविप्रस्य शुभं विचिन्त्यम् ॥ पाषाणसंस्तम्भितकण्टकेषु दत्त्वा पदं यान्ति विनण्टविघ्नाः । सर्पेच्छया पञ्चनखाभिधेयः प्रयाणकाले स तु वामभागे । दृष्टः शुभैः सिद्धिकृदुन्नताग्र- स्तिष्ठेत् पथार्द्ध यदि राज्यलाभः ॥” इति सर्पः । इति वसन्तराजशाकुने १५ वर्गः ॥
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्पः [sarpḥ], [सृप्-घञ्]
Serpentine or winding motion, gliding.
Flowing, going.
A snake, serpent.
N. of a tree (नागकेशर).
The Āśleṣā constellation.
N. of a tribe of Mlechchhas or barbarians. -Comp. -अक्षी a kind of plant (Mar. थोर मुंगूसवेल). -अदनी the ichneumon plant (Mar. मुंगूसवेल).
अरातिः, अरिः an ichneumon.
an epithet of Garuḍa.-अशनः a peacock. -आवासः an ant-hill. -आवासम्, -इष्टम् the sandal tree. -ईश्वरः N. of Vāsuki.-गतिः a snake's tortuous movement (in wrestling).-गन्धा the ichneumon plant (Mar. लघु मुंगूसवेल). -छत्रम् a mushroom. -तृणः an ichneumon.
दंष्ट्रा a snake's fang.
Croton Polyandrum (दन्ती). -दण्डा a kind of pepper. -दमनी N. of a plant (Mar. वांझ कर्टोली). -द्विष् a peacock. -धारकः a snake charmer. -निर्मोचनम् the cast-off skin of a snake. -फणिजः the gem found in a snake's head, the snake-gem. -बन्धः an artifice, subtle device. -भुज् m.
a crane.
a large snake. -भृता the earth. -मणिः a snake-gem. -राजः N. of Vāsuki. -लता Piper Betel (नागवल्ली); also सर्पवल्ली. -विद्m. a conjuror, snake-charmer. -विद्या, -वेदः Snakescience; सर्पदेवजनविद्यामेतद्भगवो$ध्येमि Ch. Up.7.1.2.-सत्रम् a sacrifice for the destruction of serpents (performed by king Janamejaya). -सत्रिन् m. N. of king Janamejaya; see जनमेजय. -हन् m
an ichneumon.
N. of Garuḍa.