यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षी, [न्] त्रि, (अक्षेण दर्शनेन्द्रियेण सह वर्त्तमानं यत् तत् साक्षं प्रत्यक्षज्ञानम् । तद- स्यास्तीति । साक्ष + इनिः ।) वृत्तज्ञः । इति हेमचन्द्रः ॥ तत्पर्य्यायः । प्रत्यक्षदर्शनः २ । इति शब्दमाला ॥ तस्य मिथ्याकथने अकथने च दोषो यथा, महाभारते आदिपर्व्वणि । “पृष्टो हि साक्षी यः साक्ष्यं जानन्नप्यन्यथा वदेत् । स पूर्व्वानात्मनः सप्त कुले हन्यात्तथापरान् ॥ यश्च कार्य्यार्थतत्त्वज्ञो जानन्नपि न भाषते । सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥” अपि च । “ब्रह्मस्वस्थाप्यहारी च मिथ्यासाक्ष्यप्रदापकः । मित्रद्रोही कृतघ्नञ्च वृषवाहकसूपकृत् ॥ एते महापातकिनस्त्रिषु लोकेषु निन्दिताः । कालसूत्रे च नरके पतन्ति ब्रह्मणः शतम् ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे । ४४ । ५० ; ५४ ॥ अपरञ्च । “मिथ्यासाक्ष्यं यो ददाति कामात् क्रोधात्तथा भयात् । सभायां पाक्षिकं वक्ति स कृतघ्न इति स्मृतः ॥ मिथ्यासाक्ष्यं पाक्षिकं वा भारते वक्ति यो नृप । यावदिन्द्रसहस्रञ्च सर्पकुण्डे वसेदध्रुवम् ॥ सन्ततं वेष्टितैः सर्पैर्भीतश्च भक्षितस्तथा । भुङ्क्ते च सर्पविण्मूत्रं यमदूतेन ताडितः ॥ कृकलासो भवेत्तत्र भारते सप्तजन्मसु । सप्तजन्मसु मण्डूकः पितृभिः सप्तभिः सह ॥ ततो भवेच्च वृक्षश्च महारण्ये च शाल्मलिः । ततो भवेन्नरो मूकस्ततः शूद्रस्ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४९ अध्यायः ॥ * ॥ सर्व्वशरीरेषु श्रीकृष्णस्य साक्षिरूपत्वं यथा, -- “स्थूलात् स्थूलतरं प्राप्तमतिसूक्ष्ममदर्शनम् । स्थितं सर्व्वशरीरेषु साक्षिरूपमदृश्यकम् । शरीरवन्तं सगुणमशरीरं गुणोत्करम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ७ । ९४-९५ ॥ (पुं, विष्णुः । इति महाभारतम् । १३ । १४९ । १५ ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षी/ सा in comp. for सा-क्ष.

"https://sa.wiktionary.org/w/index.php?title=साक्षी&oldid=221287" इत्यस्माद् प्रतिप्राप्तम्