सात्त्विक
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सात्त्विकः, पुं, (सत्त्वात् सत्त्वगुणप्रधाणात् विष्णो- र्भूतः । सत्त्व + ठञ् ।) ब्रह्मा । (सात्त्वं सत्त्व- गुणोऽस्यास्तीति । ठन् । विष्णुः । इति महा- भारतम् । १३ । १४९ । १०६ ॥) त्रिविध- भावान्तर्गतभावविशेषः । इति हेमचन्द्रः ॥ तस्य लक्षणं यथा, -- “सत्त्वोत्कटे मनसि ये प्रभवन्ति भावा- स्ते सात्त्विका इति विदुर्म्मुनिपुङ्गवास्ते ।” इति सर्व्वानन्दः ॥ ते च यथा, -- “स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्णमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥” प्रलयो मूर्च्छा । इति भरतः ॥
सात्त्विकः, त्रि, (सत्त्वेन निर्वृत्तः । तेन निर्वृत्त- मिति ठञ् ।) सत्त्वगुणनिष्पादितः । इत्यमरः । १ । ७ । १६ ॥ सत्त्वं मनोगुण आशयो वा तेन निष्पादितः सात्त्विकः स्वेदादिः । सत्त्वशब्दात् ढघे कादिति ष्णिकः । इति भरतः ॥ * ॥ सत्त्व- गुणयुक्तः । तद्विवरणं यथा, गीतायाम् । १७ । ४ । “यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥” सात्त्विकयज्ञो यथा, गीतायाम् । १७ । ११ । “अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥” सात्त्विकतपो यथा, तत्रैव । १७ । १७ । “श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥” सात्त्विकदानं यथा, तत्रैव । १७ । २० । “दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥” सात्त्विकयोगो यथा, तत्रैव । १८ । ९ । “कार्य्यमित्येव यत् कर्म्म नियतं क्रियतेऽर्ज्जुन । सङ्गं त्यक्त्वा फलञ्चैव स त्यागः सात्त्विको मतः ॥” सात्त्विकज्ञानं यथा, तत्रैव । १८ । २० । “सर्व्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्वि- कम् ॥” सात्त्विककर्म्म यथा, तत्रैव । १८ । २३ । “नियतं सङ्गरहितमरागद्बेषतः कृतम् । अफलप्रेय्सुना कर्म्म यत्तत् सात्त्विकमुच्यते ॥” सात्त्विकबुद्धिर्यथा, तत्रैव । १८ । ३० । “प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये । बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥” सात्त्विकी धृतिर्यथा, तत्रैव । १८ । ३३ । “धृत्या यया घारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ ! सात्त्विकी ॥” सात्त्विकसुखं यथा, तत्रैव । १८ । ३७ । “यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥” सात्त्विकपुराणानि यथा, -- “वैष्णवं नारदीयञ्च तथा भागवतं शुभम् । गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने । सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै ॥” सात्त्विकस्मृतयो यथा, -- “वाशिष्ठञ्चैव हारीतं व्यासं पाराशरं तथा । भारद्वाजं काश्यपञ्च सात्त्विका मुक्तिदाः शुभाः ॥” इति पाद्मोत्तरखण्डे ४३ अध्यायः ॥ सात्त्विकप्रियाहारा यथा, -- “आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥” इति श्रीभगवद्गीतायाम् । १७ । ८ ॥ सात्त्विककर्त्ता कर्त्तृशब्दे सात्त्विकाहार आहार- शब्दे च द्रष्टव्यः ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सात्त्विक वि।
अन्तःकरणेन_निष्पन्नं_स्वेदरोमाञ्चादिः
समानार्थक:सात्त्विक
1।7।16।2।2
अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ। निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके॥
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सात्त्विक¦ पु॰ सत्त्वात् सत्त्वगुणप्रधानात् विष्णोर्भवति ठञ्।
१ चतुर्मुखे ब्रह्मणि हेमच॰। तस्य विष्णुनाभिकमलजत्वात्तथात्वम्। सत्त्वमेव सात्त्वमस्त्यस्य ठन्।
२ विष्णौ। सत्त्वगुणेन तत्कार्य्येण मनसा वा निर्वृत्तः ठञ्।
३ स-त्त्वगुणजाते
४ सत्त्वप्रधानमनोविशेषजाते च।
५ शृङ्गा-रादिरसानुगुणे भावभेदे सा॰ द॰
“उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः। तद्रूपाःसात्त्विका भावास्तथा चेष्टाः परा अपि। विकाराः सत्त्व-सम्भूताः सात्त्विकाः परिकीर्त्तिताः। सत्त्वमात्रोद्भवत्वात्तेभिन्ना अप्यनुभावतः। स्तम्भः स्वेदोऽथ रोमाञ्चः स्वर-भङ्गोऽथ वेपथुः। वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकास्मृताः”। एतेषां लक्षणानि तत्तच्छब्दे दृश्यानि। स्त्रीणां यौवने सत्त्वजाते
६ अलङ्कारभेदे सा॰ द॰
“यौवनेसत्त्वजास्तासामष्टाविंशतिसंख्यकाः”। अलङ्कारशब्दे
४०
८ पृ॰ दृश्यम्।
७ सत्त्वप्रधाने त्रि॰।
८ देवीपूजाभेदे स्त्री
“शा-रदी चण्डिकापूजा त्र्विधा परिकीर्त्तिता। सात्त्विकोराजसी चैव तामसी चति तां शृणु। सात्त्विको जप-यज्ञैश्च नैवेद्यैश्च निरामिषैः” ति॰ त॰।
९ भावभेदे पु॰[Page5275-b+ 38]
“सत्त्वोत्कटे मनसि ये प्रभवन्ति भावास्ते सात्त्विका इतिविदुर्मुनिपुङ्गवास्तु” सर्वान॰।
१० सत्त्वप्रधाने पुराण-भेदे
“वैष्णवं नारदीयञ्च तथा भागवतं शुभम्। गारु-डञ्च तथा पाद्मं वाराहं शुभदर्शने!। सात्त्विकानि पुरा-णानि विज्ञेयानि शुभानि वै। सात्विकेषु पुराणेषुविष्णुमाहात्म्यवर्णनम्” उपपुराणशब्दे दृश्यम्।
११ स्मृतिभेदे स्त्री
“वासिष्ठं चैव हारीतं व्यासं पारा-शरं तथा। भारद्वाजं काश्यपञ्च सात्त्विक्यो मुक्तिदाःशुभाः” पद्मपु॰ उत्त॰
४३ अ॰।
१२ दुर्गायां स्त्री ङीप्।
१३ गीतोक्तेषु श्रद्धादिभेदेषु यथायथं त्रि॰ यथा
“सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत!। श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः। यजन्ते सात्त्विकादेवान्” (श्रद्धा)
“आहारस्त्वपि सर्वस्य त्रिविधो भवतिप्रियः। यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु” इत्यु-पक्रमे
“आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः। रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः” (आहारः)
“अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टोय इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्त्विकः” (यज्ञः)
“श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः। अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते” (कायिकादित्रिविधं तपः)
“दातव्यमिति यद्दानं दीयतेऽनुपकारिणे। देशे काले च पात्रे च तद्दानं सात्त्विकं मतम्” (दानम्)
“सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभ-क्तेषु तज्ज्ञानं विद्धि सात्त्विकम्” (ज्ञानम्)
“नियतंसङ्गरहितमरागद्वेषतः कृतम्। अफलप्रेप्सुना कर्मयत्तत् सात्त्विकमुच्यते” (कर्म)
“मुक्तसङ्गोऽनहंवादीधृत्युत्साहसमन्वितः। सिद्ध्यसिद्ध्योर्निर्विकारः कर्त्ता सात्त्विक उच्यते” (कर्त्ता)
“प्रवृत्तिं च निवृत्तिं च कार्य्या-कार्य्ये भयाभये। बन्धं मोक्षं च या वेत्ति बुद्धिः सापार्थ! सात्त्विकी” (बुद्धिः)
“धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सापार्थ! सात्त्विकी” (धृतिः)
“यत्तदग्रे विषमिव परिणाभे-ऽमृतोपमम्। तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्” (सुखम्)
“कार्य्यमित्येव यत् कर्म नियत कुरुतेऽर्जुन!। सङ्गं त्यक्त्वाफलं चैव स त्यागः सात्त्विको मतः” (त्यागः)। तत्र सात्त्विकाहारस्य चित्तशुद्धौ हेतुत्वं छान्दो॰ उक्तंयथा
“आहारशुद्धौ सतवशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः”। सत्त्वं मनः।
“अन्नमयं हि सौम्य! मनः इत्यादिना” तस्य[Page5276-a+ 38] अन्नमयत्वस्य तत्रोक्तेस्तथात्वम्। साख्यमतासद्धे सत्त्वप्रधाने
१४ महत्तत्तवे
१५ अहङ्कारतत्तवे च
“सात्तिवकी राजस-श्चैव तामसश्च त्रिधा महान्” सां॰ प्र॰ धृतवाक्यम्।
“सा-त्त्विकमेकादशकं प्रवर्त्तते वैकृतादहङ्कारात्” सां॰ सू॰एकादशानां पूरणमेकादशकं मनः षोडशात्मगणमध्येसात्तिवकम्। अतस्तद्वैकृतात् सात्तिवकाहङ्काराज्जायतइत्यर्थः।
“वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा। अह-न्तत्तवाद्विकुर्वाणान्मनो वेकारिकादभूत्। वैकारिकाश्च येदेवा अर्थाभिव्यञ्जनं यतः” सा॰ प्र॰ ध॰ वाक्यम्।
१६ अध्यव-सायादौ च
“अध्यवसायो बुद्धिर्धमो ज्ञानं विराग ऐश्व-र्य्यम्। सात्तिवकमेतद्रूपं तामसमस्माद्विपर्य्यस्तम्” सां॰ का॰।
“सात्त्विक एकादशकः प्रवर्त्तते वैकृतादहङ्कारात्। भूतादे-स्तन्मात्रः स तामसस्तैजसादुभयम्” सां॰ का॰
“प्रका-शलाघवाभ्यामेकादशक इन्द्रियगणः सात्त्विको वैकृतात्सात्तिवकादहङ्कारात् प्रवर्त्तते” तत्तवकौ॰।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सात्त्विक [sāttvika], a. (-की f.) [सत्वगुणेन तत्कार्येण मनसा वा निर्वृत्तः ठञ्]
Real, essential.
True, genuine, natural.
Honest, sincere, good.
Virtuous, amiable.
Vigorous.
Endowed with the quality Sattva (goodness).
Belonging to or derived from the Sattva quality; ये चैव सात्त्विका भावाः Bg.7.12;14.16.
Caused by internal feeling or sentiment (as of love), internal; तद्भूरिसात्त्विकविकारमपास्तधैर्यमाचार्यकं विजयि मान्मथमाविरासीत् Māl.1.26.
कः An external indication of (internal) feeling or emotion, one of the kinds of Bhāvas in poetry; (these are eight: स्तम्भः स्वेदो$थ रोमाञ्चः स्वरभङ्गो$थ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ see S. D.164 also.
A Brāhmaṇa.
N. of Brahman.
An autumn night.-कम् An oblation (without pouring water). -की N. of Durgā.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सात्त्विक mf( ई)n. (fr. सत्-त्व)spirited , vigorous , energetic Mn. MBh. etc.
सात्त्विक mf( ई)n. relating to or endowed with the quality सत्त्व( i.e. " purity " or " goodness ") , pure , true , genuine , honest , good , virtuous (also applied to partic. पुराणs which exalt विष्णुIW. 513 ) MaitrUp. Mn. MBh. etc. internal , caused by internal feeling or sentiment Ma1lati1m.
सात्त्विक mf( ई)n. natural , not artificial , unaffected (as style) Sa1h.
सात्त्विक m. a state of body caused by some natural emotion (constituting a class of 8 भावs holding a middle place between the स्थायि- and व्यभिचारि-भावs , viz. स्तम्भ, स्वेद, रोमा-ञ्च, स्वर-विकार, वेपथु, वर्णविका-र, अश्रु, प्रलय, qq. vv.) ib.
सात्त्विक m. N. of ब्रह्माL.
सात्त्विक m. of the eighth creation by प्रजा-पतिMW.
सात्त्विक m. a partic. kind of पूजाpractised by the worshippers of दुर्गाMW.
सात्त्विक m. ( scil. तुष्टि)N. of one of the five kinds of external acquiescence (in सांख्य) ib.
सात्त्विक m. an autumn night L.
सात्त्विक n. an offering or oblation (without pouring water) L.