साधारणः
सम्स्कृतम्
सम्पाद्यताम्नामम्
सम्पाद्यताम्विपरीतम्
सम्पाद्यताम्अनुवादाः
सम्पाद्यताम्यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साधारणः, त्रि, (आधारणं अविशेषेण कार्य्यादि- भारधारणं तेन सह वर्त्तते इति ।) समानः । सदृशः । इत्यमरः । २ । १० । ३७ ॥ (यथा, कुमारे । १ । ४२ । “कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननात् बभूव साधारणो भूषणभूष्यभावः ॥”) सामान्यम् । अनेकसम्बन्ध्येकवस्तु । इति चामरः । ३ । १ । ८२ ॥ यथा, -- “साधारणं समाश्रित्य यत्किञ्चिद्वाहनायुधम् । शौर्य्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ॥” इति दायभागः ॥ तद्वैदिकपर्य्यायः । स्वः १ पृश्निः २ नाकः ३ गौः ४ विष्टप् ५ नभः ६ । इति षट् साधा- रणनामानि । इति वेदनिघण्टौ । १ । ४ ॥ * ॥ पुं, न्यायमते हेत्वाभासविशेषः । यथा, -- “अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः । कालात्ययापदिष्टश्च हेत्वाभासस्तु पञ्चधा ॥ आद्यः साधारणस्तु स्यात् स्यादसाधारणो- ऽपरः । तथैवानुपसंहारी त्रिधानैकान्तिको भवेत् ॥ यः सपक्षे विपक्षे च स तु साधारणो मतः । यस्तूभयस्माद्व्यावृत्तः स त्वसाधारणो मतः ॥ तथैवानुपसंहारी केवलान्वयिपक्षकः ॥” इति भाषापरिच्छेदः ॥ (देशविशेषः । क्ली, उदकविशेषश्च । यथा, -- “मिश्रचिह्नस्तु यो देशः स हि साधारणः स्मृतः । तस्मिन् देशे यदुदकं तत्तु साधारणं स्मृतम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ “उभयगुणसमेतं नातिरुक्षं न स्निग्धं न च खरबहुलञ्च स्नेहनं कण्टकाढ्यम् । भवति च जलमल्पं नातिशीतं नचोष्णं समप्रकृतिसमेतं विद्धि साधारणञ्च ॥” इति हारीते प्रथमस्थाने चतुर्थेऽध्याये ॥ “जाङ्गलं वातभूयिष्ठमनूपन्तु कफोल्वणम् । साधारणं सममलं त्रिधा भूदेशमादिशेत् ॥” इति वाभटे सूत्रस्थाने प्रथमेऽध्याये ॥)