यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम, क सान्त्वे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) दन्त्यादिर्द्वितीयस्वरी । सान्त्वः प्रियकरणम् । क, सामयति दीनं दानेन दाता । इति दुर्गादासः ॥

साम, त् क सान्त्वने । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-सेट् ।) सान्त्वनं प्रिय- करणम् । अससामत् दीनं दानेन दाता । इति दुर्गादासः ॥

साम, [न्] क्ली, (स्यति छिनति दुःखं गेय- त्वात् स्यति दुःखयति दुरध्ये यत्वादिति वा । सो + “सातिभ्यां मनिन्मनिणौ ।” उणा० ४ । १५२ । इति मनिन् ।) वेदविशेषः । इत्यमरः । १ । ६ । ३ ॥ स्यति पापं साम षो य नाशे त्रासुसिति मन् । इति भरतः ॥ तल्लक्षणमाह जैमिनिः । गीतेषु सामाख्या इति । गीयमानेषु मन्त्रेषु सामसंज्ञे- त्यर्थः । इति तिथ्यादितत्त्वम् ॥ तत्तु चतुर्व्वेदान्त- र्गततृतीयवेदः । तस्य सहस्रशाखा तस्वोपनिषत् छान्दोग्यादिः । विवरणन्तु वेदशब्दे द्रष्टव्यम् ॥ * सामध्वनिश्रवणानन्तरं वेदपाठनिषेधस्तदधि- ष्ठातृदेवताकथनञ्च यथा, -- “सामध्वनावृग्यजुषी नाधीयीत कदाचन । वेदस्याधीत्य वाप्यन्तमारण्यकमधीत्य च ॥ ऋग्वेदो देवदैवत्यो यजुर्व्वेदस्तु मानुषः । सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्ध्वनिः ॥” इति मानवे । ४ । १२३ ॥ * ॥ (वेदोऽयं गजोत्पत्तिकारणम् । तथा च रघुवंश- टीकायां मल्लिनाथधृतपालकाव्ये । १६ । ३ । “सूर्य्यास्याण्डकपाले द्वे समानीय प्रजापतिः । हस्ताभ्यां परिगृह्याथ सप्तसामान्यगायत । गायतो ब्रह्मणस्तस्मात् समुत्पेतुर्मतङ्गजाः ॥”) शत्रुवशीकरणोपायविशेषः । इत्यमरः । २ । ८ । २० ॥ प्रियवादार्थप्रदानसम्बन्धादिभिः क्रोधोपशमनं साम । स्यति विरोधमिति षोऽन्तकर्म्मणीत्यस्मत् त्रासुसिति मन् । सान्त्व साम त् क सान्त्वने इत्यस्मात् नाम्नीति अन् वा । साम दन्त्यादि । शमयति विरोधमिति शाम नान्तं तालष्यादि इति केचित् । इति भरतः ॥ * ॥ अपि च । मनुरुवाच । “उपायांस्त्वं समाचक्ष्व सामपूर्व्वान्महाद्युते । लक्षणञ्च तथा तेषां प्रयोगञ्च सुरोत्तम ॥ मत्स्य उवाच । सामभेदस्तथा दानं दण्डश्च मनुजोत्तम । उपेक्षा च तथा माया इन्द्रजालश्च पार्थिव ॥ प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु । द्विविधं कथितं साम तथ्यञ्चातथ्यमेव च ॥ तत्राप्यतथ्यं साधूनां आक्रोशायैव जायते । तथ्यं साधुप्रियञ्चैव सामसाध्या नरा मताः ॥ महाकुलीना ऋजवो धर्म्मनिष्ठा जितेन्दियाः । सामसाध्या नरास्तथ्यं तेषु साम प्रयोजयेत् ॥ तथ्यञ्च साम कर्त्तव्यं कुलशीलादिवर्त्तिना । तथा सदुपचाराणां कृतानाञ्चानुवर्णनम् ॥ अनयैव तथा युक्त्या कृतज्ञाख्यापनं स्वकम् । एवं सान्त्वेन कर्त्तव्या वशगा धर्म्मतत्पराः ॥ साम्ना यद्यपि रक्षांसि गृह्लन्तीति परा श्रुतिः । तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् । अतिशान्तिकमित्येवं पुरुषं सामवादिनम् । असाधवोऽवजानन्ति तस्मात् तेषु विवर्ज्जयेत् ॥ ये शुद्धवंशा ऋजवः प्रतीता धर्म्मे स्थिताः सत्यपरा विनीताः । ते साम साध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततञ्च राजन् ॥” इति मात्स्ये राजधर्म्मे सामविधिः । २२२ । १-१० ॥ (प्रियवाक्यादिना सान्त्वनम् । यथा, देवीभाग- वते । १ । १७ । ३१ । “सामपूर्व्वमुवाचासौ तं क्षत्ता संस्थितं मुनिम् । गच्छतां यत्र ते कार्य्यं यथेष्टं द्विजसत्तम ! ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम¦ सान्त्वने अद॰ चु॰ उ॰ स॰ सेट्। सामयति ते अससामत् तअनेकाच्कत्वात् न षोपदेशः।

सा(षा)म¦ सान्त्वे चु॰ उभ॰ सक॰ सेट्। सामयति अयं षोपदेशएव न्याय्यः दुर्गादासेन दन्त्यादित्वमस्योक्तमप्रमाणम्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम [sāma], a. Undigested, crude; Charaka.

सामम् [sāmam], Likeness, similarity. -Comp. -स्थ्यम् comfort, ease, welfare.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम n. (fr. 1. सम, of which it is also the वृद्धिform in comp. )likeness , similarity L.

साम/ सा mfn. undigested , crude , not sufficiently prepared or matured (a morbid state of the humours) Car. Bhpr.

साम in comp. for 2. सामन्.

साम in comp. for 3. सामन्.

साम ( ifc. ) = सामन्3 (See. अनु-अव-स्).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the political expedients used by ऋषभ; फलकम्:F1: भा. V. 4. १६.फलकम्:/F two fold, the real and the unreal; the first to be applied to the साधुस् (good men); by this the righteous are brought [page३-584+ ३९] under control; फलकम्:F2: M. २२२. 1-१०.फलकम्:/F there is no use applying it to the un- righteous. One of the four limbs of नीति, the others being bheda, दान (उप्प्रदान-वि। प्।) and दण्ड (दण्ड pa1ta- वि। प्।). फलकम्:F3: Ib. १४८. ६५-77; Vi. V. २२. १७; ३३. ४०.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SĀMA : One of the Caturupāyas (four tactics). (See under Caturupāya).


_______________________________
*1st word in left half of page 676 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=साम&oldid=439982" इत्यस्माद् प्रतिप्राप्तम्