यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार, त् क दौर्व्वल्ये । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-अक०-सेट् ।) रेफोपधः । अससारत् । इति दुर्गादासः ॥

सारम्, क्ली, पुं, (सार त् क दौर्ब्बल्ये + अच् । सृ गतो + घञ् इति वा ।) जलम् । धनम् । (यथा, रघुः । ४ । ७९ । “परस्परेण विज्ञातस्तेषूपायनपाणिषु । राज्ञा हिमवतः सारो राज्ञः सारो हिमा- द्रिणा ॥”) न्याय्यम् । इति मेदिनी ॥ (सरात् जातम् । सर + अण् ।) नवनीतम् । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते उत्तरतन्त्रे । २६ । “क्षीरशेषञ्च तन्मथ्यं शीतं सारमुपाहरेत् ॥” अमृतम् । यथा, भागवते । ७ । ६ । २५ । “धर्म्मादयः किमगुणेन च काङ्क्षितेन सारंजुषां चरणयोरुपगायतां नः ॥”) लौहम् । इति भावप्रकाशः । विपिनम् । इति शब्दरत्नावली ॥ * ॥ सारवस्तूनि यथा, -- “सारं रसानान्तु घृतं घृतसारं हुतञ्च यत् । हुतस्य सारं स्वर्गञ्च स्वर्गात् सारन्तु योषितः ॥ अतो राजन् प्रदेयाः स्युः स्त्रियः स्वर्गमभीप्- सतः । तथैवेह सुखं ताभिः सह राज्यं नृपोत्तम ॥” इति वह्निपुराणे दासीदानाध्यायः ॥ अपि च । “असारे खलु संसारे सारमेतच्चतुष्टयम् । काश्यां वासः सतां सङ्गो गङ्गाम्भः शम्बु- सेवनम् ॥” इति कवितारत्नाकरधृतपुराणवचनम् ॥

सारः, पुं, (सृ + “सृ स्थिरे ।” ३ । ३ । १७ । इति घञ् ।) बलम् । (यथा, महाभारते । १ । १५५ । २३ । “तरस्व भीम मा क्रीड जहि रक्षो विभीषणम् । पुरा विकुरुते मायां भुजयोः सारमर्पय ॥”) स्थिरांशः । इत्यमरः । ३ । ३ । १७० ॥ (यथा, रघुः । १० । १० । “प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् । कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा ॥”) मज्जा । इत्यमरः । २ । ४ । १२ ॥ वज्रक्षारम् । इति राजनिर्घण्ठः ॥ वायुः । इति जटाधरः ॥ रोगः । इति धरणिः ॥ पाशकः । इति शब्द- रत्नावली ॥ दध्युत्तरम् । इति शब्दचन्द्रिका ॥ (अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ७३१ । “उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते ॥” यथा, -- “राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनासर्व्वस्वम् ॥”)

सारः, त्रि, (सृ + घञ् ।) अतिदृढः । इति शब्दरत्नावली ॥ वरः । श्रेष्ठः । इत्यमरमेदिनी- करौ ॥ यथा, -- “सर्व्वसारो यथा कृष्णो व्रतानां पुण्यकं तथा ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे । ३ । ३० ॥ अपि च । श्रीमार्कण्डेय उवाच । “जगत् सर्व्वन्तु निःसारमनित्यं दुःखभाजनम् । उत्पद्यते क्षणादेतत् क्षणादेतत् विपद्यते ॥ यथैवोत्पद्यते सारान्निःसारं जगदञ्चसा । पुनस्तस्मिन्निलीयन्ते महाप्रलयसङ्गमे ॥ उत्पत्तिप्रलयाभ्यान्तु जगन्निसारतां हरिः । शम्भवे दर्शयामास भावेन जगतां पतिः ॥ एकं शिवं शान्तमनन्तमच्युतं परात्परं ज्ञानमयं विशेषम् । अद्वैतमव्यग्रमचिन्त्यरूपं सारन्त्वेकं नास्ति सारं त्वदन्यत् ॥ यस्मादेतज्जायते विश्वमग्र्यं यस्माल्लीनं स्यात् तत्पश्चात् स्थितञ्च । आकाशवन्मेघजालस्य धृत्या यद्विश्वं वै ध्रियते तच्च सारम् ॥ अष्टाङ्गयोगैर्यदाप्तु मिच्छन् योगी युनक्त्यात्मरूपं सदैव । निवर्त्तते प्राप्य यन्नेह लोके तद्वै सारं सारमन्यन्न चास्ति ॥ सारो द्वितीयो धर्म्मस्तु यो नित्यप्राप्तये भवेत् । यो वै निवर्त्तको नाम तत्रासारः प्रवर्त्तकः ॥ सर्व्वं क्षरति लोकेऽस्मिन् धर्म्मो नैव च्युतो भवेत् स्वधर्म्माद्यो न चलति स एवाक्षर उच्यते ॥ एतद्वः कथितं सारं निःसारञ्च यथा जगत् । यथा स्वयं ददर्शाशु शम्भुर्ज्ञानेन स्वेऽन्तरे ॥ एतद्वै दर्शयामास स विष्णुर्जगतां पतिः । स्वयं जग्राह मनसा ध्यानेनात्मनि शङ्करः ॥ सारं तत्त्वं परमं निष्कलं य- म्मूर्त्त्या दीनं मूर्त्तिमान् धर्म्म एषः । सारोऽन्योऽसौ सारहीनं तदन्यत् ज्ञात्वैवेथ्यं याति नित्यं महाधीः ॥” इति श्रीकालिकापुराणे २७ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार पुं।

वृक्षकोमलत्वक्

समानार्थक:सार,मज्जन्,नरि

2।4।12।2।1

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः। सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

सार पुं।

बलम्

समानार्थक:द्रविण,वीर्य,सार,सहस्,ओजस्,तेजस्

3।3।171।2।1

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु। सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

वैशिष्ट्य : बलवान्

पदार्थ-विभागः : , गुणः

सार पुं।

स्थिरांशः

समानार्थक:सार

3।3।171।2।1

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु। सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्

सार नपुं।

न्याय्यम्

समानार्थक:मध्य,सार

3।3।171।2।1

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु। सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्

सार वि।

वरः

समानार्थक:सार

3।3।171।2।1

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु। सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार¦ दौर्बल्ये अद॰ चु॰ उभ॰ सक॰ सेट्। सारयति ते अससारत् त अनेकाच्कत्वान्न षोपदेशः

सार¦ न॰ सृ--घञ्, सार--अच् वा।

१ जले

२ धने

३ न्याय्येत्रि॰ मेदि॰।

४ नवनीते न॰ राजनि॰।

५ लौहे भावप्र॰।

६ वनेशब्दर॰।

७ बले

८ स्थिरांशे

९ मज्जनि पु॰ अमरः

१० सर्ज-क्षारे

११ वायौ जटा॰।

१२ रोगे धरणिः

१३ अतिदृदे

१४ पाशके पु॰ शब्दर॰

१५ दध्यग्रे पु॰ हेमच॰

१६ श्रेष्ठे

१७ वरे च त्रि॰ अमरः।

१ षपरमेश्वरे
“एकं शिवंशान्तमनन्तमच्युतं परात्परं ज्ञानमयं विशेषम्। अद्वैतमव्यग्रमचिन्त्यरूप सारन्त्वेकं नास्ति सारं ततोन्यत्। यस्मादेतज्जायते विश्वमग्र्यं यस्मिन् लीनं स्याच्च पश्चा-त्स्थितञ्च। आकाशवन्मेघजालञ्च धृत्या यद्विश्वं वैध्रियते तच्च सारम्। अष्टाङ्गयोगैर्यदवाप्तुमिच्छन् योगीयुनक्त्यात्मरूपं सदैव। निवर्त्तते प्राप्य यन्नेह लोके तद्वैसारं सारमन्यन्न चास्ति” कालिकापु॰

२७ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार¦ r. 10th cl. (सारयति-ते) To become weak.

सार¦ mfn. (-रः-रा-रं)
1. Best, excellent.
2. Irrefragable, (as an argument.) mn. (-रः-रं)
1. The pith or sap of trees, &c.
2. Strength, vigour.
3. The essence of anything, the essential or vital part of it.
4. The subs- tance or material part, (of a speech, book, message, &c.)
5. Marrow.
6. Air, wind.
7. Sickness, disease.
8. Firmness, hardness.
9. The coagulum of curds, &c., cream.
10. Fresh butter.
11. Prowess, valour, heroism.
12. Nectar.
13. Wealth, riches. m. (-रः)
1. A man at chess, backgammon, &c.
2. Worth, excellence.
3. Compedium, summary.
4. Impure carbonate of soda.
5. Climax, (in rhetoric.) n. (-रं)
1. Water.
2. Wealth.
3. Propriety, fitness.
4. Steel.
5. Wood, thicket. f. (-रा)
1. Essential.
2. Best.
3. Strong, vigorous.
4. Genuine, true.
5. Thoroughly proved
6. Durba4- grass. f. (-री) The Sha4lika or Sa4rika4, (Turdus salica, BUCH.) E. सृ to go, aff. घञ्; or सार्-अच् aff. [Page783-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार [sāra], a. [सृ-घम्, सार्-अच् वा]

Essential.

Best, highest, most excellent; एतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् Ms.9.56; द्वयोः सारं तुल्यं द्वितयमभियुक्तेन मनसा Mu.1.13.

Real, true, genuine.

Strong, vigorous; सारबलम् Kau. A.1; सुयुद्धकामुकं सारमसारं विपरीतकम् Śukra.4.872.

Sound, thoroughly proved.

Highest or best (at the end of comp.); त्रिवर्गसारः Ku.5.38.

Just, right; पृथोस्तत् सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु Bhāg.4.22.17.

Speckled, motley.

Driving away; यो$यं दिधक्षोर्दावपावकस्य गरिम- सारः सीकरासारः B. R.2.6/61. -रः, -रम् (but usually m. only except in the first 4 senses)

Essence, essential part, quintessence; स्नेहस्य तत् फलमसौ प्रणयस्य सारः Māl.1. 9; U.6.22; असारे खलु संसारे सारमेच्चतुष्टयम् । काश्यां वासः सतां संगो गङ्गांम्भः शंभुसेवनम् ॥ Dharm.14.

Substance, pith.

Marrow; निःशेषं शकलितवल्कलाङ्गसारैः Ki.17.62.

Real truth, main point.

The sap or essence of trees; as in खदिरसार, सर्जसार.

Summary, epitome, compendium.

Strength, vigour, power, energy; सारं धरित्रीधरणक्षमं च Ku.1.17; R.2.74.

Prowess, heroism, courage; राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा R.4.79.

Firmness, hardness.

Wealth, riches; गामात्तसाराम् R.5.26.

Nectar.

Fresh butter.

Air, wind.

Cream, coagulum of curds.

Disease.

Matter, pus.

Worth, excellence, highest perception.

A man at chess.

Impure carbonate of soda.

A figure of speech corresponding to English 'climax'; उत्तरोत्तरमुत्कर्षो भवेत् सारः परावधिः K. P.1.

The heart.

Course, motion.

Extension.

Any or chief ingredient.

(In Rhet.) A kind of climax.

Dung.

Pus.

रा Dūrvā grass.

Kuśa grass.

रम् Water

Fitness, propriety.

Wood, thicket.

Steel.-Comp. -अपराधौ m. du. the ability (of a criminal to suffer) and the nature of crime; the greatness of the crime; सारापराधौ चालोक्य दण्डं दण्ड्येषु पातयेत् Ms.8. 126; cf. 9.262. -असार a. valuable and worthless, strong and weak.

(रम्) worth and worthlessness; सारासारं च भाण्डानाम् Ms.9.331.

substance and emptiness.

strength and weakness. ˚विचारः consideration of strong and weak points &c. -गन्धः sandal wood.-गात्र a. strong-limbed. -गुणः a principal virtue. -गुरुa. heavy with weight. -ग्रीवः N. of Śiva. -जम् fresh butter. -तरुः the plantain tree.

दा N. of Sarasvatī.

of Durgā. -द्रुमः the Khadira tree. -फल्गु a. superior and inferior; Kau. A.2.7. ˚त्वम् goodness and badness; comparative importance; एतद्वः सारफल्गुत्वं बीज- योन्योः प्रकीर्तितम् Ms.9.56. -भङ्गः loss of vigour.

भाण्डम् a natural vessel.

a bale of goods, merchandise.

implements. -मार्गणम् searching for pith or marrow.-मितिः the Veda. -योध a. consisting of excellent warriors. -लोहम् steel.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार m. (fr. सृ)course , motion(See. पूर्व-स्)

सार m. stretching out , extension Ka1lac.

सार mfn. driving away , destroying Ba1lar. ii , 60/61

सार mn. ( ifc. f( आ). ; perhaps to be connected with 1. सारabove ; prob. fr. a lost root meaning. " to be strong ") the core or pith or solid interior of anything RV. etc.

सार m. firmness , strength power , energy AV. etc.

सार m. the substance or essence or marrow or cream or heart or essential part of anything , best part , quintessence( ifc. = " chiefly consisting of or depending on etc. " [See. पर] e.g. धर्म-सारं जगत्, " the world chiefly depends on justice " ; 742809 तूष्णीं-सारmfn. " chiefly silent " ; सारत् सारम्, " the very best ") AitBr. etc.

सार m. the real meaning , main point MW.

सार m. a compendium , summary , epitome (often ifc. in titles of books)

सार m. a chief-ingredient or constituent part of the body (causing the peculiarities of temperament ; reckoned to be 7 , viz. सत्त्व, शुक्र, मज्जन्, अस्थि, मेदस्, मांस, रक्त) Sus3r. VarBr2S.

सार m. any ingredient Sus3r.

सार m. nectar R. BhP.

सार m. cream , curds L.

सार m. worth , value( एण, " in consideration of. " , " according to ") Mn. Ya1jn5. etc.

सार m. wealth , property , goods , riches Ka1v. Pur. Ra1jat.

सार m. (in rhet. )a kind of climax( उत्तरो-त्तरम् उत्कर्षः) Sa1h. Kpr.

सार m. resin used as a perfume Sus3r. S3a1rn3gS.

सार m. water Va1s.

सार m. dung Kr2ishis.

सार m. the matter formed in a boil or ulcer , pus MW.

सार m. impure carbonate of soda ib.

सार m. a confederate prince , ally VarBr2S.

सार m. (= 1. शार)a piece at chess or backgammon etc.

सार mf( आ)n. hard , firm solid strong MBh. Ka1v. etc.

सार mf( आ)n. precious , valuable Das3.

सार mf( आ)n. good , sound , best , excellent BhP. Pan5car.

सार mf( आ)n. sound (as an argument , thoroughly proved) W.

सार mf( आ)n. full of( instr. ) VarBr2S.

सार mf( आ)n. motley , speckled(= शार) Sus3r. Ka1d.

सार/ सा mfn. having spokes S3ulbas.

"https://sa.wiktionary.org/w/index.php?title=सार&oldid=505545" इत्यस्माद् प्रतिप्राप्तम्