सिंहः

(सिम्हः इत्यस्मात् पुनर्निर्दिष्टम्)

अकारान्त-पुल्लिङ्गपदम्

सिम्हः

संस्कृतम्

सम्पाद्यताम्


शार्दूलः, सुगन्धि, अरण्यराजः, इभारि, कण्ठीरवः, करिदारकः, करिमाचलः, वनहरिः, महानादः, क्षृङ्गोष्णीषः, श्र्वेतपिङ्गलः, हीरः, केसरिः,हरिः मृगराजः

यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहः, पुं, (सिञ्चति तेजः पशुषु इति । सिच + “सिचेः सज्ञायां हनुमौ कश्च ।” उणा० ५ ! ६२ । इति कः । अन्त्यादेशो हकारः । नुम् च । पृषोदरादित्वात् अन्तविपर्य्यये हिनस्तीति सिंह इत्यपि भवति ।) स्वनामख्यातपशुः । (यथाह कश्चित् । “सिंहो बली द्विरदकुञ्जरमांसभोजी संवत्सरेण कुरुते रतिमेकवारम् । पारावतः खलु शिलाकणमात्रभोजी- कामी भवेदनुदिनं वद कोऽत्र हेतुः ॥”) तत्पर्य्यायः । मृगेन्द्रः २ पञ्चास्यः ३ हर्य्यक्षः ४ केशरी ५ हरिः ६ । इत्यमरः । २ । ५ । १ ॥ पारीन्द्रः ७ श्वेतपिङ्गलः ८ कण्ठीरवः ९ पञ्च- शिखः १० शैलाटः ११ भीमविक्रमः १२ सटाङ्कः १३ मृगराट् १४ मृगराजः १५ मरुत्- प्लवः १६ केशी १७ लग्नौकाः १८ करिदारकः १९ । इति शब्दरत्नावली ॥ महावीरः २० श्वेतपिङ्गः २१ गजमोचनः २२ मृगारिः २३ । इति जटाधरः ॥ इभारिः २४ नखरायुधः २५ महानादः २६ मृगपतिः २७ । इति हेमचन्द्रः ॥ पञ्चमुखः २८ नखी २९ मानी ३० क्रव्यादः ३१ मृगाधिपः ३२ शूरः ३३ विक्रान्तः ३४ द्विरदान्तकः ३५ बहु- बलः ३६ दीप्तः ३७ बली ३८ विक्रमी ३९ दीप्त- पिङ्गलः ४० । तन्मांसगुणाः । अर्शःप्रमेहजठरा- मयजाड्यनाशित्वम् । इति राजनिर्घण्टः ॥ अपि च । “सिंहव्याघ्रवृका ऋक्षतरक्षुद्वीपिनस्तथा । वभ्रु जम्बु कमार्जारा इत्याद्यास्तु गुहाशयाः ॥ गुहाशया वातहरा गुरूष्णमधुराश्च ते । स्निग्धा बल्या हिता नित्यं नेत्रगुह्यविकारि- णाम् ॥” इति भावप्रकाशः ॥ * ॥ पदान्ते श्रेष्ठार्थवाचकः । इत्यमरः । ३ । १ । ५९ ॥ (यथा, रामायणे । २ । ७३ । ७ । “क्व यास्यसि महाराज ! हित्वेमं दुःस्वितं जनम् । हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्म्मणा ॥”) अर्हतां ध्वजः । इति हेमचन्द्रः ॥ रक्तशिग्रुः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । ४ । ९ । “तुत्थालकटुकाव्योषसिंहार्कहयमारकाः ॥”) मेषादिद्वादशराश्यन्तर्गतपञ्चमराशिः । तत्- पर्य्यायः । लेयः २ । इति सत्कृत्यमुक्तावली ॥ तस्याधिष्ठात्री देवता सिंहः । स च मघा- पूर्व्वफल्गुनी-समुदायोत्तरफल्गुनी-प्रथमपादेन भवति । अग्निराशिः । पीतवर्णः । रूक्षः । एवं धूम्रवर्णः । पित्तप्रकृतिः । पूर्व्वदिक्स्वामी । पर्व्वतचारी । क्षत्त्रियवर्णः । क्रूरः । महाशब्दः । अल्पसन्तानः । अल्पस्त्रीसङ्गश्च । तत्र जात- फलम् । क्रोधी । शीघ्रगतिः । हास्यबाणिः । अतिवक्ता । चञ्चलः । शीतलः । मत्स्यप्रियश्च । इति बृहज्जातकादयः ॥ * ॥ मेषादिद्वादश- लग्नान्तर्गतपञ्चमलग्नम् । तत्र जातफलम् । “सिंहलग्ने समुद्भूतो भोगी शत्रुविमर्द्दनः । स्वल्पोदरोऽल्पपुत्त्रश्च सोत्साही गजविक्रमः ॥” इति कोष्ठीप्रदीपः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहः [siṃhḥ], [हिंस्-अच् पृषो˚]

A lion; (it is said to be derived from हिंस्, cf. भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् Sk.); न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः Subhāṣ.

The sign Leo of the Zodiac. e.g. सिंहलग्न.

(At the end of comp.) Best, pre-eminent of a class; e.g. रघुसिंहः, पुरुष- सिंहः; उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः Pt.1.361; U.5.22.

A particular place prepared for the building of a house.

(In music) A kind of tone. -Comp. -अवलोकनम् the (backward) glance of a lion. ˚न्याय the maxim of the lion's (backward) glance, generally used to mark the connection of a thing with what precedes and follows; (for explanation see under न्याय). -आढ्य a. abounding in lions. -आसनम् a throne, a seat of honour. (-नः) a particular mode of sexual enjoyment.-आस्यः a particular position of the hands. -कर्णः a corner orifice containing lion-figures; यद्वेदिकातोरणसिंह- कर्णै रत्नैर्दधानं प्रतिवेश्म शोभाम् Bu. Ch.1.5. -कर्णी a particular position of the right hand in shooting an arrow.

केशरः, केसरः the Bakula tree.

a lion's mane.

a kind of sweet-meat. -गः an epithet of Śiva. -तलम् the palms of the hands opened and joined together.-तुण्डः a kind of fish; Ms.5.16. -दंष्ट्रः an epithet of Śiva. -दर्प a. as proud as a lion. -द्वार् f., -द्वारम् the main or principal gate (of a palace &c.).

ध्वनिः, नादः the roar of a lion; असोढसिंहध्वनिरुन्ननाद Ku.1.56; सिंह- नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् Bg.1.12; Mk.5.29.

a war-cry. -नर्दिन् a. one who roars like a lion; Bk. 5.34.

नादः a lion's roar.

a war-cry.

a confident assertion.

N. of Śiva. -मलम् a kind of brass. -याना, -रथा N. of the goddess Pārvatī. -लीलः a kind of coitus. -वाहनः an epithet of Śiva. -वाहिनी an epithet of Durgā. -विक्रमः, -विक्रान्तः a horse. -विष्टरः a throne. -संहनन a.

as strong as a lion; प्रांशु कनक- वर्णाभः सिंहसंहननो युवा Mb.3.146.28.

handsome, (-नम्) the killing of a lion. -स्थः an epithet of the planet Jupiter when in the constellation Leo.

"https://sa.wiktionary.org/w/index.php?title=सिंहः&oldid=507047" इत्यस्माद् प्रतिप्राप्तम्