सुखम्
संस्कृतम्
सम्पाद्यताम्एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमा विभक्तिः | सुखम् | सुखे | सुखानि |
सम्बोधनप्रथमा | सुख | सुखे | सुखानि |
द्वितीया विभक्तिः | सुखम् | सुखे | सुखानि |
तृतीया विभक्तिः | सुखेन | सुखाभ्याम् | सुखैः |
चतुर्थी विभक्तिः | सुखाय | सुखाभ्याम् | सुखेभ्यः |
पञ्चमी विभक्तिः | सुखात् | सुखाभ्याम् | सुखेभ्यः |
षष्ठी विभक्तिः | सुखस्य | सुखयोः | सुखानाम् |
सप्तमी विभक्तिः | सुखे | सुखयोः | सुखेषु |
- सुखं, सौख्यं, आनन्दः, दन्यता, हर्षः, क्षेमं, शिवं, स्वास्थ्यं, कुशलं, मङ्गलं, भद्रं, सौभाग्यं, श्रेयसं, सौख्यं, अरिष्टं, आनन्दामृतं, जलाषं, तन्त्रं, भाग्यं, शुभं, सुखत्वं, सुखितं, हर्षणं, सौभागं, सन्तोषः।
नामम्
सम्पाद्यताम्- सुखं नाम आनन्दः, स्वस्थता।
विपरीतम्
सम्पाद्यताम्अनुवादाः
सम्पाद्यताम्यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुखम्, क्ली, (सुखयतीति । सुख + अच् ।) आत्म- वृत्तिगुणविशेषः । इति नैयायिकाः ॥ मनसो धर्म्मः । इति वैदान्तिकाः ॥ तत्पर्य्यायः । मुत् २ प्रीतिः ३ प्रमदः ४ हर्षः ५ प्रमोदः ६ आमीदः ७ संमदः ८ आनन्दथुः ९ आनन्दः १० शर्म्म ११ शातम् १२ । इत्यमरः । १ । ४ । २५ ॥ मदः १३ भोगः १४ रभसः १५ निर्वृतिः १६ धृतिः १७ वीचिः १८ । इति जटाधरः ॥ संमेदः १९ मोदः २० नन्दथुः २१ नन्दः २२ मुदा २३ सौख्यम् २४ उपजोषम् २५ आनन्दम् २६ जोषम् २७ । इति शब्दरत्नावली ॥ न्यायमते जगतां काम्यं धर्म्मजन्यमिदम् । यथा, -- “सुखन्तु जगतामेव काम्यं धर्म्मेण जन्यते । अधर्म्मजन्यं दुःखं स्यात्प्रतिकूलं सचेतसाम् ॥ * तस्य मनोगोचरत्वं यथा, -- “मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ॥” इति भाषापरिच्छेदः ॥ * ॥ “सुखं चतुर्व्विंशतिगुणान्तर्गतगुणविशेषः । तत्तु नित्यं जन्यञ्च । नित्यं परमात्मनो विशेषगुणान्त र्व्वर्त्ति । जन्यसुखं जीवात्मनो विशेषगुणान्त- व्वर्त्ति । तच्च शुभादृष्टजन्यं धनमित्रलाभारोग्य- मिष्टान्नपानपुरीषोत्सर्गपुत्त्रादिजन्मतत्पाण्डित्य कान्तासम्भोगादिजन्यञ्च तस्य द्विक्षणस्थायित्वं स्वोत्तरोत्पन्नानुभवनाश्यत्वात् । सुखाद्यपरागे- णैवात्मनो मानसबोधः । सुखं तदुपायश्चेष्टः । बालस्य स्तन्यपानप्रवृत्तौ सुखसाधनत्वज्ञानं हेतुः तत्र सुखस्यैवेष्टत्वम् । दुःखजनकगमनादि- प्रवृत्तौ सुखोपायो धनं तदेवेष्टं तत्साधनत्वज्ञान- मेव हेतुः । यागादिप्रवृत्तावपि पारलौकिक- सुखसाधनत्वज्ञानं कारणं सुखोपायस्वर्गादिरूपे- ष्टसाधनत्वज्ञानमपि कारणम् । सुखस्य काला- वच्छेद्यत्वं शरीरावच्छेद्यत्वञ्चातोऽव्याप्यवृत्तित्वं शरीरकदेशावच्छेदेन दुःखसम्भवेऽप्यन्यदेशा- वच्छेदेन सुखसम्भवात् एकक्षणावच्छेदेन जीवस्य दुःखसम्भवेऽपि क्षणान्तरावच्छेदेन सुखसम्भवाच्च तत्तु विस्फोटकवतो मिष्टान्न- भोजनादौ द्रष्टव्यम् । इति तार्किकाः ॥ * ॥ तत्कारणं यथा, -- “सुदिनं दुर्द्दिनं शश्वद्भ्रमत्येव भवे भव । सर्व्वेषां प्राकृतानाञ्च द्वे बीजे सुखदुःखयोः ॥ सुखाद्भवति हर्षश्च दर्पः शौर्य्यं प्रमत्तता । राग ऐश्वर्य्यकामौ च विद्वेषश्च परस्परम् ॥ दुःखात् शोकात् समुद्वेगाद्भयं नित्यं प्रवर्त्तते । राजनिर्घण्टः ॥ जलम् । इति केचित् ॥ सुख- विशिष्टे, त्रि । यथा, -- “शस्तञ्चाथ त्रिषु द्रव्ये पापंपुण्यं सुखादि च ।” इत्यमरः । १ । ४ । २६ ॥ “पापपुण्यशब्दौ सुखादयः शस्तान्ताश्च गुणे यथोक्तलिङ्गाः उपचारात्तद्वति द्रव्ये विशेष्ये वर्त्तमाना वाच्यलिङ्गाः । यथा, -- “पापा ऋतुमती कन्या पापो राजाप्यरक्षकः पापं व्याधकुलं हिंस्रं पापो विप्रश्च सेवकः ॥” पुण्यं तीर्थं पुण्या नदी पुण्य आश्रमः । सुखा भूतिः सुखो वासः सुखं कामिकुलम् ।” इति भरतः ॥