यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमेरुः, पुं, (सुष्ठुमिनोति क्षिपति ज्योतींषि इति सु + मि + “मिपीभ्यां रुः ।” उणा० ४ । १०१ । रुः ।) पर्व्वतविशेषः । तत्पर्य्यायः । मेरुः २ हेमाद्रिः ३ रत्नसानुः ४ सुरालयः ५ । इत्य- मरः । १ । १ । ५२ ॥ अमराद्रिः ६ भूस्वर्गः ७ । इति जटाधरः ॥ तद्विवरणं यथा, -- “एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्व्वतः सौवर्णः कुलगिरि- राजो मेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्द्धनि द्वात्रिंशत्सहस्रयोजन- विततो मूले षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्टः ॥” ७ ॥ “मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुत- योजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भ- गिरय उपकॢप्ताः ॥ ११ ॥ चतुर्षु एतेषु चूतजम्बूकदम्बन्यग्राधाः चत्वारः पादपप्रवराः पर्व्वतकेतव इवाधिसहस्रयोजनो- न्नाहास्तावद्विटपविततयः शतयोजनपरि- णाहाः ॥ १२ ॥ त्रिपृष्टो नाकपृष्ठो वा अप्सरःशान्तिनिर्वृती । आनन्दोऽथ प्रमोदश्च स्वर्गाः शृङ्गे च मध्यमे ॥ श्वेतश्च पौष्टिकश्चैव उपशोभनमन्मथौ । आह्लादः स्वर्गराजश्च स्वर्गाः शृङ्गे तु पश्चिमे ॥ निर्म्ममो निरहङ्कारः सौभाग्यश्चातिनिर्म्मलः । स्वर्माश्चैते द्विजश्रेष्ठ पूर्व्वशृङ्गे समर्थिताः ॥ एकविंशत्यमी स्वर्गा निविष्टा मेरुमूर्द्धनि ॥ * ॥ अहिंसादानकर्त्ता च यज्ञानां तपसां तथा । तेषु तेषु वसन्ति स्म जनाः क्रोधविवर्ज्जिताः । जलप्रवेशी चानन्दं प्रमोदं वह्निसाहसः ॥ भृगुप्रपाते सौम्यस्तु रणे चैवास्य निर्म्मलः ॥ अनशने तु संवासे मृतो गच्छेत्त्रिपिष्टपम् । क्रतुयाजी नाकपृष्ठमग्निहोत्री च निर्वृतिम् ॥ तडागकूपकर्त्ता च लभते पौष्टिकं द्विज । सौवर्णदायी सौभाग्यं लभेत् स्वर्गं महातपाः ॥ शीतकाले महावह्निं प्रज्वालयति यो नरः । सर्व्वसत्त्वहितार्थाय स्वर्गं चाप्सरसं लभेत् ॥ हिरण्यगोप्रदानेन निरहङ्कारमाप्नु यात् । भूमिदानेन शुद्धेन लभते शान्तिकं पदम् ॥ रौप्यदानेन शुद्धेन स्वर्गं गच्छति निर्म्मलम् । अश्वदानेन पुण्याहं कन्यादानेन मङ्गलम् ॥ द्विजेभ्यस्तर्पणं कृत्वा दत्त्वा वस्त्राणि भक्तितः । श्वेतन्तु लभते स्वर्गं यत्र गत्वा न शोचति ॥ कपिलागोप्रदानेन परार्द्ध ञ्चानुभूयते । गोवृषस्य प्रदानेन स्वर्गं मन्मथमश्नुते ॥ स पुमान् स सरित्स्नायी तिलधेनुप्रदस्तथा । छत्रोपानहदाता च स्वर्गं तत्फलशोभनम् ॥ देवायतनकर्त्तारो शुश्रू षणपरस्तथा । तीर्थयात्रापरश्चैव स्वर्गराजे महीयते ॥ एकान्नभोजी यो मर्त्यो नक्तभोजी च नित्यशः उपवासी त्रिरात्राद्यैः शान्तस्वर्गं शुभं लभेत् ॥ सरित्स्नायी जितक्रोधो ब्रह्मचारी दृढव्रतः । निर्म्मलं स्वर्गमाप्नोति तथा भूतहिते रतः । विद्यादानेन मेधावी निरहङ्कारमाप्नु यात् ॥ येन येन हि भावेन यद्यद्दानं प्रयच्छति । तत्तत् स्वर्गमवाप्नोति यद्यदिच्छति मानवः ॥ यस्तु सर्व्वाणि दानानि ब्राह्मणेभ्यः प्रयच्छति । संप्राप्य न निवर्त्तेत दिवं शान्तमनामयम् ॥ शृङ्गन्तु पश्चिमं यच्च ब्रह्मा तत्र स्थितः स्वयम् । पूर्व्वशृङ्गे स्वयं विष्णुर्मध्ये चैव शिवः स्थितः ॥” इति नारसिंहे । ३० । १४ -- ४५ ॥ अन्यत् कौर्म्मे ४२ । ४३ अध्याययोः वाराहे- रुद्रगीतासु च द्रष्टव्यम् ।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमेरु पुं।

मेरुपर्वतः

समानार्थक:मेरु,सुमेरु,हेमाद्रि,रत्नसानु,सुरालय

1।1।49।2।2

मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका। मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमेरु¦ पु॰ प्रा॰ स॰।

१ पर्वतभेदे स्तनरः। स्नम्पुद्वीपशब्दे{??}॰

४५ पृ॰ दृश्यम्।

२ जपभाक्षासीसास्पपुटिकायाञ्चतन्त्रम्। [Page5316-b+ 38]

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमेरु¦ mfn. (-रुः-रुः-रु) Best, excellent. m. (-रुः)
1. The sacred mountain Me4ru: see मेरु।
2. S4IVA. E. सु excellent, मि to shed or scatter, (radiance,) रु aff. [Page795-a+ 60]

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमेरु/ सु--मेरु m. N. of a mountain(= मेरुSee. ) R. Ka1lid. Buddh. (See. MWB. 120 )

सुमेरु/ सु--मेरु m. N. of a विद्या-धरKatha1s.

सुमेरु/ सु--मेरु m. of शिवW.

सुमेरु/ सु--मेरु mfn. very exalted , excellent ib.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is Meru (s.v.). Br. II. १४. ४९; १५. ४२.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUMERU : See under Mahāmeru.


_______________________________
*12th word in right half of page 763 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुमेरु&oldid=440438" इत्यस्माद् प्रतिप्राप्तम्