यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेनापतिः, पुं, (सेनायाः पतिः ।) कार्त्तिकेयः । (क्वचित् वाच्यलिङ्गेऽपि दृश्यते । यथा, महा- निर्व्वाणतन्त्रे १ । १४ । “किमुच्यते महाप्राज्ञे कथ्यतां प्राणवल्लभे । यदकथ्यं गणेशेऽपि स्कन्दे सेनापतावपि ॥”) अनीकाधिपतिः । इति मेदिनी ॥ अस्य पर्य्यायः । सेनानीः २ वाहिनीपतिः ३ । इत्य- मरः । २ । ८ । ६२ ॥ सेनापतिलक्षणं यथा, -- “कुलीनः शीलसम्पन्नो धनुर्व्वेदविशारदः । हस्तिशिक्षाश्वशिक्षासु कुशलः श्लक्ष्णभाषणः ॥ निमित्ते शकुनज्ञाने वेत्ता चैव चिकित्सिते । कृतज्ञः कर्म्मणां शूरस्तथा क्लेशसहो ऋजुः ॥ व्यूहतत्त्वविधानज्ञः फल्गुसारविशेषवित् । राज्ञा सेनापपिः कार्य्यो ब्राह्मणः क्षत्त्रियो- ऽथवा ॥” इति मात्स्ये राजधर्म्मे । २१५ । ८ -- १० ॥ सेनापतौ वर्णनीयानि यथा, -- “सेनापतिर्ज्जितावासः स्वामिभक्तः सुधीरभीः । अभ्यासी वाहने शस्त्रे शास्त्रे च विजयी रणे ॥” इति कविकल्पलतायाम् १ स्तवके वर्ण्यस्थिति- र्नाम ३ कुसुमम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेनापति¦ पु॰

६ त॰।

१ कार्त्तिकेये

२ मैन्याध्यक्षे च मेदि॰।
“कुलीनः शीलसम्पन्नो धनुर्वंदविशारदः। हस्ति-शिक्षाश्वशिक्षासु कुशलः श्लक्ष्णभषिता। निमित्ते शकुनेज्ञाता वेत्ता चैव चिकितसिते। कृतज्ञः कर्मणां शूरस्तथा[Page5332-a+ 38] क्लेशसह ऋजुः। व्यूहतत्त्वविधानज्ञः फल्गुसार-विशेषवित्। राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियो-ऽथ वा” मत्स्यपु॰

१८

९ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेनापति¦ m. (-तिः)
1. A general, the commander of an army.
2. KA4RTIKE4YA. E. सेना an army and पति master.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेनापति/ सेना--पति m. the general of an -aarmy AitBr. etc.

सेनापति/ सेना--पति m. N. of कार्त्तिकेयL.

सेनापति/ सेना--पति m. of शिवMBh.

सेनापति/ सेना--पति m. of a son of धृत-राष्ट्रib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(सेनानि) qualifications of; may be a Brahman or क्षत्रिय; फलकम्:F1: M. १४८. ७९; २१५. 8-१०.फलकम्:/F residence of, with five courts (प्राकारस्). फलकम्:F2: Ib. २२३. 8; २५४. १८.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SENĀNĪ (SENĀPATI) : One of the hundred sons of Dhṛtarāṣṭra. He was killed by Bhīmasena in the battle of Bhārata. (M.B. Bhīṣma Parva, Chapter 54, Verse 32).


_______________________________
*11th word in right half of page 714 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सेनापति&oldid=505777" इत्यस्माद् प्रतिप्राप्तम्