यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवकः, पुं, (सेवते इति । सेव + ण्वुल् ।) प्रसे- वकः । इति मेदिनी ॥

सेवकः, त्रि, (सेवते इति । सेवृ सेवने + ण्वुल् ।) अनुजीवी । भृत्यः । इति मेदिनी शब्दरत्नावल्यौ ॥ (यथा, बृहत्संहितायाम् । ५ । ३४ । “पूर्व्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः । पश्चात् कर्षकसेवकबीजविनाशाय निर्द्दिष्टः ॥”) तस्य प्रभुसन्निधौ प्रश्नकरणक्षमत्वं यथा, -- “किङ्करः किङ्करी वापि सर्व्वथा प्रष्टुमीश्वरः । यो यस्य सेवानिरतः स कं पृच्छति तं विना ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३ अध्यायः ॥ (आश्रयिता । यथा, भागवते । ४ । १६ । १६ । “दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः । शरण्यः सर्व्वभूतानां मानदो दीनवत्सलः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सेवकः&oldid=178528" इत्यस्माद् प्रतिप्राप्तम्