यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैन्धवम्, क्ली, पुं, (सिन्दौ समुद्रतीरे सिन्धुदेशे वा भवम् । सिन्धु + “अणञौ च ।” ४ । ३ । ३३ । इति अण् ।) लवणविशेषः । स तु सिन्धुनद्युपलक्षित- देशोद्भवः । तत्पर्य्यायः । शीतशिवम् २ माणि- मन्थम् ३ सिन्धुजम् ४ । इत्यमरः । २ । ९ । ४२ ॥ वशिरम् ५ सिन्धुदेशजम् ६ माणिबन्धम् ७ । इति जटाधरः ॥ शितशिवम् ८ । इति शब्द- रत्रावली ॥ नादेयम् ९ शिवम् १० सिद्धम् ११ शिवात्मजम् १२ पथ्यम् १३ । अस्य गुणाः । “सैन्धवं लवणं वृष्यं चक्षुष्यं दीपनं रुचि । पूतं स्वादु त्रिदोषघ्नं व्रणदोषविबन्धजित् ॥ सैन्धवं द्विविधं ज्ञेयं सितं रक्तमिति क्रमात् ॥ रसवीर्य्यविपाकेषु गुणाढ्यं कथितं सितम् ॥” इति राजनिर्घण्टः ॥ अपि च । “सैन्धवं लवणं स्वादु दीपनं पाचनं तघु । स्निग्धं रुच्यं हिमं वृष्यं सूक्ष्मनेत्रं त्रिदोषहृत् ॥” इति भावप्रकाशः ॥ किञ्च । “सैन्धवं दोषजिद्वृष्यं चक्षुष्यमविदाहि च । अग्निसन्दीपनं स्निग्धं रोचनं मधुरं लघु ॥” इति राजवल्लभः ॥ तत्तु हविष्यान्नम् । यथा, स्मृतिः । “लवणे सेन्धवसामुद्रे गव्ये च दधिसर्पिषी ।” इति हविष्यान्नगणने तिथ्यादितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=सैन्धवम्&oldid=178576" इत्यस्माद् प्रतिप्राप्तम्