यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन, त् क अभ्रशब्दे । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-अक०-सेट् ।) स्तनयति मेघः । इति दुर्गादासः ॥

स्तन, मि शब्दे । इति कविकल्कद्रुमः ॥ (म्वा०- पर०-सक०-सेट् ।) मि स्तनयति स्तानयति । अतिस्तनत् । इति दुर्गादासः ॥

स्तनः, पुं, (स्तन्यते शब्द्यते कामुकैः स्तनयति कथयति वक्षःशोभामिति वा । स्तन शब्दे + घञ् ।) अवयवविशेषः । माइ इति चू~ची इति च भाषा ॥ तत्पर्य्यायः । कुचः २ । इत्यमरः । २ । ६ । ७७ ॥ कूचः ३ उरोजः ४ वक्षोजः ५ पयोधरः ६ वक्षोरुहः ७ उरसिजः ८ । तस्याग्रं चूचुकम् । इति शब्दरत्नावली । तस्य शुभ- लक्षणं यथा, गारुडे । ५६ । ९५ । “अरोमशौ स्तनौ पीनौ घनावविषमौ शुभौ । कठिनावरोममुरो मृदुग्रीवा च कम्बुभा ॥” तस्य मनोहरत्वकारकौषधं यथा, तत्रैव । १९४ । ४ । “कुष्ठनागबलाचूर्णं नवनीतसमन्वितम् । तल्लेपो युवतीनाञ्च कुर्य्यान्मनोहरं स्तनम् ॥” अधस्तनरोगस्य संप्राप्तिमाह । “सक्षीरौ वाप्यदुग्धौ वा दोषः प्राप्य स्तनौ स्त्रियः रक्तं मांसञ्च संदूष्य स्तनरोगाय कल्प्यते ॥” अदुग्धावपि स्तनौ प्रसूताया गर्भिण्याश्च स्त्रिया बोद्धव्यौ । यत आह सुश्रुतः “धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः । दोषाविसरणास्तासां न भवन्ति स्तनामयाः ॥” दोषाविसरणाः संवृतद्वारत्वेन दोषाणाम- विसरणमसञ्चारो यासु ताः । “तासामेव प्रसूतानां गर्भिणीनाञ्च ताः पुनः । स्वभावादेव विवृता जायन्ते सम्भवन्त्यतः ॥” * ॥ स्तनरोगाणामतिदेशेन लक्षणान्याह । “पञ्चानामपि तेषान्तु हित्वा शोणितविद्रधिम् । लक्षणानि समानानि बाह्यविद्रधिलक्षणैः ॥” पञ्चानां वातपित्तकफसन्निपातागन्तुजानाम् । आगन्तुजस्तनरोगाभिघातेन शल्येन च बोद्धव्यः ॥ रक्तजस्यासम्भवः । स्वभावात् ॥ * ॥ अथ स्तनरोगस्य चिकित्सा । “शोथं स्तनोत्थितमवेक्ष्य भिषग्विदध्यात् यद्विद्रधावभिहितं बहुथा विधानम् । आमे विदाहिनि तथैव च तस्य पाके तस्याः स्तनौ सततमेव च निर्गृहीतौ ॥ पित्तघ्नानि तु शीताति द्रव्याण्यत्र प्रयोजयेत् । जलौकाभिर्हरेद्रक्तं न स्तनावुपनाहयेत् ॥” उपनाहयेत् स्वेदयेत् । “लेपो विशालामूलेन हन्ति पीडां स्तनो- त्थिताम् । निशाकनककल्काभ्यां लेपः प्रोक्तः स्तना- र्क्षिहा ॥” विशाला इन्द्रवारुणी । कनकस्य धत्तूरस्य पत्रं ग्राह्यम् । “लेपान्निहन्ति मूलं स्तनरोगं वन्ध्यकर्कोट्याः । निर्वाप्य तप्तलोहं सलिले तद्वा पिबेत्तत्र ॥” इति भावप्रकाशः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन पुं।

वक्षोजः

समानार्थक:स्तन,कुच

2।6।77।1।6

पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ। चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन¦ मेघशब्दे अद॰ चु॰ उभ॰ सक॰ सेट्। स्तनयति तेअतस्तनत् त। बह्वच्कत्वान्न षोपदेशः।

स्तन¦ पु॰ स्तन--अच्। (माइ) स्त्रोणामङ्ग्रभेदे पयोधरे अमरः।
“अरोमशौ स्तनौ पोनौ घनावविषमौ शुभौ” स्तनयोःशुभलक्षणं गारुडे

३६ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन¦ m. (-नः)
1. The female bosom or breast.
2. An udder or dug of any female animal. E. स्तन् to sound, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तनः [stanḥ], [स्तन्-अच्]

The female breast; स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ Bh.3.2; (दरिद्राणां मनोरथाः) हृदयेष्वेव लीयन्ते विधवास्त्रीस्तनाविवं Pt.2.91.

The nipple of the breast.

The breast, udder, or dug of any female animal; अर्धपीतस्तनं मातुरामर्दक्लिष्टकेशरम् Ś.7.14. -Comp. -अंशुकम् a cloth covering the breasts or bosom, breastmantle. -अग्रः a nipple. -अङ्गरागः a paint or pigment smeared on the breasts of women.

अन्तरम् the heart.

the space between the breasts; (न) मृणालसूत्रं रचितं स्तनान्तरे Ś.6.17; R.1.62.

a mark on the breast (said to indicate future widowhood). -आभुज a. feeding with the udder (said of cows).

आभोगः fulness or expanding of the breasts.

the circumference or orb of the breast.

a man with large breasts like those of a woman. -आवरणम् a breast-cloth. -उपपीडम् pressing the breast. -कलशः a jar-like breast. -कुड्मलम् a woman's breast. -कोटिः the nipple of the breast.-ग्रहः the sucking or drawing of the breast. -चूचुकम् the nipple of the breast. -तटः, -टम् the slope or projection of the breast; cf. तट. -त्यागः weaning. -प, -पा, -पायक, -पायिन् a. sucking the breast, suckling.-पतनम् flaccidity of the breast. -पानम् sucking of the breast.

भरः the weight or heaviness of breasts; पादाग्रस्थितया मुहुः स्तनभरेणानीतया नम्रताम् Ratn.1.1.

a man having breasts like those of a woman. -भवः a particular position in sexual union. -मध्यः a nipple. (-ध्यम्) the space between the breasts. -मुखम्, -वृन्तम्, -शिखा a nipple. -रोहितः, -तम् a particular part of the female breast. -वेपथुः the having of the breast; अद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः &Sacute.1.29.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन m. (or n. g. अर्धर्चा-दिifc. आor ई; derivation doubtful , but prob. connected with स्तन्, from the hollow resonance of the human breast) , the female breast (either human or animal) , teat , dug , udder RV. etc.

स्तन m. the nipple (of the female or the male breast) Sus3r.

स्तन m. a kind of pin or peg on a vessel shaped like a teat S3Br.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन न.
उखा का दो से आठ की संख्या में उत्थान-सीमा (रास्ना) से बाहर की ओर उभरा हुआ स्त्री के स्तन के सदृश चिह्न, आप.श्रौ.सू. 12.7.11।

"https://sa.wiktionary.org/w/index.php?title=स्तन&oldid=505825" इत्यस्माद् प्रतिप्राप्तम्